मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ११

3
प्रथमस्कन्धः · 11

बुधोत्पत्तिः

ऋषय ऊचुः

कोऽसौ पुरूरवा राजा कोर्वशी देवकन्यका ।

कथं कष्टं च सम्प्राप्तं तेन राज्ञा महात्मना

॥१॥

सर्वं कथानकं ब्रूहि लोमहर्षणजाधुना ।

श्रोतुकामा वयं सर्वे त्वन्मुखाब्जच्युतं रसम्

॥२॥

अमृतादपि मिष्टा ते वाणी सूत रसात्मिका ।

न तृप्यामो वयं सर्वे सुधया च यथामराः

॥३॥

सूत उवाच

शृणुध्वं मुनयः सर्वे कथां दिव्यां मनोरमाम् ।

वक्ष्याम्यहं यथाबुद्ध्या श्रुतां व्यासवरोत्तमात्

॥४॥

गुरोस्तु दयिता भार्या तारा नामेति विश्रुता ।

रूपयौवनयुक्ता सा चार्वङ्गी मदविह्वला

॥५॥

गतैकदा विधोर्धाम यजमानस्य भामिनी ।

दृष्टा च शशिनात्यर्थं रूपयौवनशालिनी

॥६॥

कामातुरस्तदा जातः शशी शशिमुखीं प्रति ।

सापि वीक्ष्य विधुं कामं जाता मदनपीडिता

॥७॥

तावन्योन्यं प्रेमयुक्तौ स्मरार्तौ च बभूवतुः ।

तारा शशी मदोन्मत्तौ कामबाणप्रपीडितौ

॥८॥

रेमाते मदमत्तौ तौ परस्परस्पृहान्वितौ ।

दिनानि कतिचित्तत्र जातानि रममाणयोः

॥९॥

बृहस्पतिस्तु दुःखार्तस्तारामानयितुं गृहम् ।

प्रेषयामास शिष्यं तु नायाता सा वशीकृता

॥१०॥

पुनः पुनर्यदा शिष्यं परावर्तत चन्द्रमाः ।

बृहस्पतिस्तदा क्रुद्धो जगाम स्वयमेव हि

॥११॥

गत्वा सोमगृहं तत्र वाचस्पतिरुदारधीः ।

उवाच शशिनं क्रुद्धः स्मयमानं मदान्वितम्

॥१२॥

किं कृतं किल शीतांशो कर्म धर्मविगर्हितम् ।

रक्षिता मम भार्येयं सुन्दरी केन हेतुना

॥१३॥

तव देव गुरुश्चाहं यजमानोऽसि सर्वथा ।

गुरुभार्या कथं मूढ भुक्ता किं रक्षिताथवा

॥१४॥

ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।

महापातकिनो ह्येते तत्संसर्गी च पञ्चमः

॥१५॥

महापातकयुक्तस्त्वं दुराचारोऽतिगर्हितः ।

न देवसदनार्होऽसि यदि भुक्तेयमङ्गना

॥१६॥

मुञ्चेमामसितापाङ्गीं नयामि सदनं मम ।

नोचेद्वक्ष्यामि दुष्टात्मन् गुरुदारापहारिणम्

॥१७॥

इत्येवं भाषमाणं तमुवाच रोहिणीपतिः ।

गुरुं क्रोधसमायुक्तं कान्ताविरहदुःखितम्

॥१८॥

इन्दुरुवाच

क्रोधात्ते तु दुराराध्या ब्राह्मणाः क्रोधवर्जिताः ।

पूजार्हा धर्मशास्त्रज्ञा वर्जनीयास्ततोऽन्यथा

॥१९॥

आगमिष्यति सा कामं गृहं ते वरवर्णिनी ।

अत्रैव संस्थिता बाला का ते हानिरिहानघ

॥२०॥

इच्छया संस्थिता चात्र सुखकामार्थिनी हि सा ।

दिनानि कतिचित्स्थित्वा स्वेच्छया चागमिष्यति

॥२१॥

त्वयैवोदाहृतं पूर्वं धर्मशास्त्रमतं तथा ।

न स्त्री दुष्यति चारेण न विप्रो वेदकर्मणा

॥२२॥

इत्युक्तः शशिना तत्र गुरुरत्यन्तदुःखितः ।

जगाम स्वगृहं तूर्णं चिन्ताविष्टः स्मरातुरः

॥२३॥

दिनानि कतिचित्तत्र स्थित्वा चिन्तातुरो गुरुः ।

ययावथ गृहं तस्य त्वरितश्चौषधीपतेः

॥२४॥

स्थितः क्षत्रा निषिद्धोऽसौ द्वारदेशे रुषान्वितः ।

नाजगाम शशी तत्र चुकोपाति बृहस्पतिः

॥२५॥

अयं मे शिष्यतां यातो गुरुपत्नीं तु मातरम् ।

जग्राह बलतोऽधर्मी शिक्षणीयो मयाधुना

॥२६॥

उवाच वाचं कोपात्तु द्वारदेशस्थितो बहिः ।

किं शेषे भवने मन्द पापाचार सुराधम

॥२७॥

देहि मे कामिनीं शीघ्रं नोचेच्छापं ददाम्यहम् ।

करोमि भस्मसान्नूनं न ददासि प्रियां मम

॥२८॥

सूत उवाच

क्रूराणि चैवमादीनि भाषणानि बृहस्पतेः ।

श्रुत्वा द्विजपतिः शीघ्रं निर्गतः सदनाद्बहिः

॥२९॥

तमुवाच हसन्सोमः किमिदं बहु भाषसे ।

न ते योग्यासितापाङ्गी सर्वलक्षणसंयुता

॥३०॥

कुरूपां च स्वसदृशीं गृहाणान्यां स्त्रियं द्विज ।

भिक्षुकस्य गृहे योग्या नेदृशी वरवर्णिनी

॥३१॥

रतिः स्वसदृशे कान्ते नार्याः किल निगद्यते ।

त्वं न जानासि मन्दात्मन् कामशास्त्रविनिर्णयम्

॥३२॥

यथेष्टं गच्छ दुर्बुद्धे नाहं दास्यामि कामिनीम् ।

यच्छक्यं कुरु तत्कामं न देया वरवर्णिनी

॥३३॥

कामार्तस्य च ते शापो न मां बाधितुमर्हति ।

नाहं ददे गुरो कान्तां यथेच्छसि तथा कुरु

॥३४॥

सूत उवाच

इत्युक्तः शशिना चेज्यश्चिन्तामाप रुषान्वितः ।

जगाम तरसा सद्म क्रोधयुक्तः शचीपतेः

॥३५॥

दृष्ट्वा शतक्रतुस्तत्र गुरुं दुःखातुरं स्थितम् ।

पाद्यार्घ्याचमनीयाद्यैः पूजयित्वा सुसंस्थितः

॥३६॥

पप्रच्छ परमोदारस्तं तथावस्थितं गुरुम् ।

का चिन्ता ते महाभाग शोकार्तोऽसि महामुने

॥३७॥

केनापमानितोऽसि त्वं मम राज्ये गुरुश्च मे ।

त्वदधीनमिदं सर्वं सैन्यं लोकाधिपैः सह

॥३८॥

बह्मा विष्णुस्तथा शम्भुर्ये चान्ये देवसत्तमाः ।

करिष्यन्ति च साहाय्यं का चिन्ता वद साम्प्रतम्

॥३९॥

गुरुरुवाच

शशिनापहृता भार्या तारा मम सुलोचना ।

न ददाति स दुष्टात्मा प्रार्थितोऽपि पुनः पुनः

॥४०॥

किं करोमि सुरेशान त्वमेव शरणं मम ।

साहाय्यं कुरु देवेश दुःखितोऽस्मि शतक्रतो

॥४१॥

इन्द्र उवाच

मा शोकं कुरु धर्मज्ञ दासोऽस्मि तव सुव्रत ।

आनयिष्याम्यहं नूनं भार्यां तव महामते

॥४२॥

प्रेषिते चेन्मया दूते न दास्यति मदाकुलः ।

ततो युद्धं करिष्यामि देवसैन्यैः समावृतः

॥४३॥

इत्याश्वास्य गुरुं शक्रो दूतं वक्तृविचक्षणम् ।

प्रेषयामास सोमाय वार्ताशंसिनमद्भुतम्

॥४४॥

स गत्वा शशिलोकं तु त्वरितः सुविचक्षणः ।

उवाच वचनेनैव वचनं रोहिणीपतिम्

॥४५॥

प्रेषितोऽहं महाभाग शक्रेण त्वां विवक्षया ।

कथितं प्रभुणा यच्च तद्ब्रवीमि महामते

॥४६॥

धर्मज्ञोऽसि महाभाग नीतिं जानासि सुव्रत ।

अत्रिः पिता ते धर्मात्मा न निद्यं कर्तुमर्हसि

॥४७॥

भार्या रक्ष्या सर्वभूतैर्यथाशक्ति ह्यतन्द्रितैः ।

तदर्थे कलहः कामं भविता नात्र संशयः

॥४८॥

यथा तव तथा तस्य यत्नः स्याद्दाररक्षणे ।

आत्मवत्सर्वभूतानि चिन्तय त्वं सुधानिधे

॥४९॥

अष्टाविंशतिसंख्यास्ते कामिन्यो दक्षजाः शुभाः ।

गुरुपत्नीं कथं भोक्तुं त्वमिच्छसि सुधानिधे

॥५०॥

स्वर्गे सदा वसन्त्येता मेनकाद्या मनोरमाः ।

भुंक्ष्व ताः स्वेच्छया कामं मुञ्च पत्नीं गुरोरपि

॥५१॥

ईश्वरा यदि कुर्वन्ति जुगुप्सितमहन्तया ।

अज्ञास्तदनुवर्तन्ते तदा धर्मक्षयो भवेत्

॥५२॥

तस्मान्मुञ्च महाभाग गुरोः पत्नीं मनोरमाम् ।

कलहस्त्वन्निमित्तोऽद्य सुराणां न भवेद्यथा

॥५३॥

सूत उवाच

सोमः शक्रवचः श्रुत्वा किञ्चित्क्रोधसमाकुलः ।

भङ्ग्या प्रतिवचः प्राह शक्रदूतं तदा शशी

॥५४॥

इन्दुरावाच

धर्मज्ञोऽसि महाबाहो देवानामधिपः स्वयम् ।

पुरोधापि च ते तादृग्युवयोः सदृशी मतिः

॥५५॥

परोपदेशे कुशला भवन्ति बहवो जनाः ।

दुर्लभस्तु स्वयं कर्ता प्राप्ते कर्मणि सर्वदा

॥५६॥

बार्हस्पत्यप्रणीतं च शास्त्रं गृह्णन्ति मानवाः ।

को विरोधोऽत्र देवेश कामयानां भजन्स्त्रियम्

॥५७॥

स्वकीयं बलिनां सर्वं दुर्बलानां न किञ्चन ।

स्वीया च परकीया च भ्रमोऽयं मन्दचेतसाम्

॥५८॥

तारा मय्यनुरक्ता च यथा न तु तथा गुरौ ।

अनुरक्ता कथं त्याज्या धर्मतो न्यायतस्तथा

॥५९॥

गृहारम्भस्तु रक्तायां विरक्तायां कथं भवेत् ।

विरक्तेयं यदा जाता चकमेऽनुजकामिनीम्

॥६०॥

न दास्येऽहं वरारोहां गच्छ दूत वद स्वयम् ।

ईश्वरोऽसि सहस्राक्ष यदिच्छसि कुरुष्व तत्

॥६१॥

सूत उवाच

इत्युक्तः शशिना दूतः प्रययौ शक्रसन्निधिम् ।

इन्द्रायाचष्ट तत्सर्वं यदुक्तं शीतरश्मिना

॥६२॥

तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह ।

सेनोद्योगं तथा चक्रे साहाय्यार्थं गुरोर्विभुः

॥६३॥

शुक्रस्तु विग्रहं श्रुत्वा गुरुद्वेषात्ततो ययौ ।

मा ददस्वेति तं वाक्यमुवाच शशिनं प्रति

॥६४॥

साहाय्यं ते करिष्यामि मन्त्रशक्त्या महामते ।

भविता यदि संग्रामस्तव चेन्द्रेण मारिष

॥६५॥

शङ्करस्तु तदाकर्ण्य गुरुदाराभिमर्शनम् ।

गुरुशत्रुं भृगुं मत्वा साहाय्यमकरोत्तदा

॥६६॥

संग्रामस्तु तदा वृत्तो देवदानवयोर्द्रुतम् ।

बहूनि तत्र वर्षाणि तारकासुरवत्किल

॥६७॥

देवासुरकृतं युद्धं दृष्ट्वा तत्र पितामहः ।

हंसारूढो जगामाशु तं देशं क्लेशशान्तये

॥६८॥

राकापतिं तदा प्राह मुञ्च भार्यां गुरोरिति ।

नोचेद्विष्णुं समाहूय करिष्यामि तु संक्षयम्

॥६९॥

भृगुं निवारयामास ब्रह्मा लोकपितामहः ।

किमन्यायमतिर्जाता सङ्गदोषान्महामते

॥७०॥

निषेधयामास ततो भृगुस्तं चौषधीपतिम् ।

मुञ्च भार्यां गुरोरद्य पित्राहं प्रेषितस्तव

॥७१॥

सूत उवाच

द्विजराजस्तु तच्छ्रुत्वा भृगोर्वचनमद्भुतम् ।

ददौ च तत्प्रियां भार्यां गुरोर्गर्भवतीं शुभाम्

॥७२॥

प्राप्य कान्तां गुरुर्हृष्टः स्वगृहं मुदितो ययौ ।

ततो देवास्ततो दैत्या ययुः स्वान्स्वान्गृहान्प्रति

॥७३॥

ब्रह्मा स्वसदनं प्राप्तः कैलासं चापि शङ्करः ।

बृहस्पतिस्तु सन्तुष्टः प्राप्य भार्यां मनोरमाम्

॥७४॥

ततः कालेन कियता तारासूत सुतं शुभम् ।

सुदिने शुभनक्षत्रे तारापतिसमं गुणैः

॥७५॥

दृष्ट्वा पुत्रं गुरुर्जातं चकार विधिपूर्वकम् ।

जातकर्मादिकं सर्वं प्रहृष्टेनान्तरात्मना

॥७६॥

श्रुतं चन्द्रमसा जन्म पुत्रस्य मुनिसत्तमाः ।

दूतं च प्रेषयामास गुरुं प्रति महामतिः

॥७७॥

न चायं तव पुत्रोऽस्ति मम वीर्यसमुद्भवः ।

कथं त्वं कृतवान्कामं जातकर्मादिकं विधिम्

॥७८॥

तच्छ्रुत्वा वचनं तस्य दूतस्य च बृहस्पतिः ।

उवाच मम पुत्रो मे सदृशो नात्र संशयः

॥७९॥

पुनर्विवादः सञ्जातो मिलिता देवदानवाः ।

युद्धार्थमागतास्तेषां समाजः समजायत

॥८०॥

तत्रागतः स्वयं ब्रह्मा शान्तिकामः प्रजापतिः ।

निवारयामास मुखे संस्थितान्युद्धदुर्मदान्

॥८१॥

तारां पप्रच्छ धर्मात्मा कस्यायं तनयः शुभे ।

सत्यं वद वरारोहे यथा क्लेशः प्रशाम्यति

॥८२॥

तमुवाचासितापाङ्गी लज्जमानाप्यधोमुखी ।

चन्द्रस्येति शनैरन्तर्जगाम वरवर्णिनी

॥८३॥

जग्राह तं सुतं सोमः प्रहृष्टेनान्तरात्मना ।

नाम चक्रे बुध इति जगाम स्वगृहं पुनः

॥८४॥

ययौ ब्रह्मा स्वकं धाम सर्वे देवाः सवासवाः ।

यथागतं गतं सर्वैः सर्वशः प्रेक्षकैर्जनैः

॥८५॥

कथितेयं बुधोत्पत्तिर्गुरुक्षेत्रे च सोमतः ।

यथा श्रुता मया पूर्वं व्यासात्सत्यवतीसुतात्

॥८६॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे बुधोत्पत्तिर्नामेकादशोऽध्यायः ॥ ११ ॥