मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १९

3
प्रथमस्कन्धः · 19

शुकस्य विवाहादिकार्यवर्णनम्

शुक उवाच

सन्देहोऽयं महाराज वर्तते हृदये मम ।

मायामध्ये वर्तमानः स कथं निःस्पृहो भवेत्

॥१॥

शास्त्रज्ञानं च सम्प्राप्य नित्यानित्यविचारणम् ।

त्यजते न मनो मोहं स कथं मुच्यते नरः

॥२॥

अन्तर्गतं तमश्छेत्तुं शास्त्राद्बोधो हि न क्षमः ।

यथा न नश्यति तमः कृतया दीपवार्तया

॥३॥

अद्रोहः सर्वभूतेषु कर्तव्यः सर्वदा बुधैः ।

स कथं राजशार्दूल गृहस्थस्य भवेत्तथा

॥४॥

वित्तैषणा न ते शान्ता तथा राज्यसुखैषणा ।

जयैषणा च सङ्ग्रामे जीवन्मुक्तः कथं भवेः

॥५॥

चौरेषु चौरबुद्धिस्तु साधुबुद्धिस्तु तापसे ।

स्वपरत्वं तवाप्यस्ति विदेहस्त्वं कथं नृप

॥६॥

कटुतीक्ष्णुकषायाम्लरसान्वेत्सि शुभाशुभान् ।

शुभेषु रमते चित्तं नाशुभेषु तथा नृप

॥७॥

जाग्रत्स्वप्नसुषुप्तिश्च तव राजन् भवन्ति हि ।

अवस्थास्तु यथाकालं तुरीया तु कथं नृप

॥८॥

पदात्यश्वरथेभाश्च सर्वे वै वशगा मम ।

स्वाम्यहं चैव सर्वेषां मन्यसे त्वं न मन्यसे

॥९॥

मिष्टमत्सि सदा राजन्मुदितो विमनास्तथा ।

मालायां च तथा सर्पे समदृक् क्व नृपोत्तम

॥१०॥

विमुक्तस्तु भवेद्राजन् समलोष्टाश्मकाञ्चनः ।

एकात्मबुद्धिः सर्वत्र हितकृत्सर्वजन्तुषु

॥११॥

न मेऽद्य रमते चित्तं गृहदारादिषु क्वचित् ।

एकाकी निःस्पृहोऽत्यर्थं चरेयमिति मे मतिः

॥१२॥

निःसङ्गो निर्ममः शान्तः पत्रमूलफलाशनः ।

मृगवद्विचरिष्यामि निर्द्वन्द्वो निष्परिग्रहः

॥१३॥

किं मे गृहेण वित्तेन भार्यया च सुरूपया ।

विरागमनसः कामं गुणातीतस्य पार्थिव

॥१४॥

चिन्त्यसे विविधाकारं नानारागसमाकुलम् ।

दम्भोऽयं किल ते भाति विमुक्तोऽस्मीति भाषसे

॥१५॥

कदाचिच्छत्रुजा चिन्ता धनजा च कदाचन ।

कदाचित्सैन्यजा चिन्ता निश्चिन्तोऽसि कदा नृप

॥१६॥

वैखानसा ये मुनयो मिताहारा जितव्रताः ।

तेऽपि मुह्यन्ति संसारे जानन्तोऽपि ह्यसत्यताम्

॥१७॥

तव वंशसमुत्थानां विदेहा इति भूपते ।

कुटिलं नाम जानीहि नान्यथेति कदाचन

॥१८॥

विद्याधरो यथा मूर्खो जन्मान्धस्तु दिवाकरः ।

लक्ष्मीधरो दरिद्रश्च नाम तेषां निरर्थकम्

॥१९॥

तव वंशोद्भवा ये ये श्रुताः पूर्वे मया नृपाः ।

विदेहा इति विख्याता नामतः कर्मतो न ते

॥२०॥

निमिनामाभवद्राजा पूर्वं तव कुले नृप ।

यज्ञार्थं स तु राजर्षिर्वसिष्ठं स्वगुरुं मुनिम्

॥२१॥

निमन्त्रयामास तदा तमुवाच नृपं मुनिः ।

निमन्त्रितोऽस्मि यज्ञार्थं देवेन्द्रेणाधुना किल

॥२२॥

कृत्वा तस्य मखं पूर्णं करिष्यामि तवापि वै ।

तावत्कुरुष्व राजेन्द्र सम्भारं तु शनैः शनैः

॥२३॥

इत्युक्त्या निर्ययौ सोऽथ महेन्द्रयजने मुनिः ।

निमिरन्यं गुरुं कृत्वा चकार मखमुत्तमम्

॥२४॥

तच्छ्रुत्वा कुपितोऽत्यर्थं वसिष्ठो नृपतिं पुनः ।

शशाप च पतत्वद्य देहस्ते गुरुलोपक

॥२५॥

राजापि तं शशापाथ तवापि च पतत्वयम् ।

अन्योन्यशापात्पतितौ तावेव च मया श्रुतम्

॥२६॥

विदेहेन च राजेन्द्र कथं शप्तो गुरुः स्वयम् ।

विनोद इव मे चित्ते विभाति नृपसत्तम

॥२७॥

जनक उवाच

सत्यमुक्तं त्वया नात्र मिथ्या किञ्चिदिदं मतम् ।

तथापि शृणु विप्रेन्द्र गुरुर्मम सुपूजितः

॥२८॥

पितुः सङ्गं परित्यज्य त्वं वनं गन्तुमिच्छसि ।

मृगैः सह सुसम्बन्धो भविता ते न संशयः

॥२९॥

महाभूतानि सर्वत्र निःसङ्गः क्व भविष्यसि ।

आहारार्थं सदा चिन्ता निश्चिन्तः स्याः कथं मुने

॥३०॥

दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च ।

तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा

॥३१॥

विकल्पोपहतस्त्वं वै दूरदेशमुपागतः ।

न मे विकल्पसन्देहो निर्विकल्पोऽस्मि सर्वथा

॥३२॥

सुखं स्वपिमि विप्राहं सुखं भुञ्जामि सर्वथा ।

न बद्धोऽस्मीति बुद्ध्याहं सर्वदैव सुखी मुने

॥३३॥

त्वं तु दुःखी सदैवासि बद्धोऽहमिति शङ्कया ।

इति शङ्कां परित्यज्य सुखी भव समाहितः

॥३४॥

देहोऽयं मम बन्धोऽयं न ममेति च मुक्तता ।

तथा धनं गृहं राज्यं न ममेति च निश्चयः

॥३५॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य शुकः प्रीतमनाभवत् ।

आपृच्छ्य तं जगामाशु व्यासस्याश्रममुत्तमम्

॥३६॥

आगच्छन्तं सुतं दृष्ट्वा व्यासोऽपि सुखमाप्तवान् ।

आलिङ्ग्याघ्राय मूर्धानं पप्रच्छ कुशलं पुनः

॥३७॥

स्थितस्तत्राश्रमे रम्ये पितुः पार्श्वे समाहितः ।

वेदाध्ययनसम्पन्नः सर्वशास्त्रविशारदः

॥३८॥

जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः ।

स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः

॥३९॥

पितॄणां सुभगा कन्या पीवरी नाम सुन्दरी ।

शुकश्चकार पत्नीं तां योगमार्गस्थितोऽपि हि

॥४०॥

स तस्यां जनयामास पुत्रांश्चतुर एव हि ।

कृष्णं गौरप्रभं चैव भूरिं देवश्रुतं तथा

॥४१॥

कन्यां कीर्तिं समुत्पाद्य व्यासपुत्रः प्रतापवान् ।

ददौ विभ्राजपुत्राय त्वणुहाय महात्मने

॥४२॥

अणुहस्य सुतः श्रीमान्ब्रह्मदत्तः प्रतापवान् ।

ब्रह्मज्ञः पृथिवीपालः शककन्यासमुद्भवः

॥४३॥

कालेन कियता तत्र नारदस्योपदेशतः ।

ज्ञानं परमकं प्राप्य योगमार्गमनुत्तमम्

॥४४॥

पुत्रे राज्यं निधायाथ गतो बदरिकाश्रमम् ।

मायाबीजोपदेशेन तस्य ज्ञानं निरर्गलम्

॥४५॥

नारदस्य प्रसादेन जातं सद्यो विमुक्तिदम् ।

कैलासशिखरे रम्ये त्यक्त्वा सङ्गं पितुः शुकः

॥४६॥

ध्यानमास्थाय विपुलं स्थितः सङ्गपराङ्मुखः ।

उत्पपात गिरेः शृङ्गात्सिद्धिं च परमां गतः

॥४७॥

आकाशगो महातेजा विरराज यथा रविः ।

गिरेः शृङ्गं द्विधा जातं शुकस्योत्पतने तदा

॥४८॥

उत्पाता बहवो जाताः शुकश्चाकाशगोऽभवत् ।

अन्तरिक्षे यथा वायुः स्तूयमानः सुरर्षिभिः

॥४९॥

तेजसातिविराजन्वै द्वितीय इव भास्करः ।

व्यासस्तु विरहाक्रान्तः क्रन्दन्पुत्रेति चासकृत्

॥५०॥

गिरेः शृङ्गे गतस्तत्र शुको यत्र स्थितोऽभवत् ।

क्रन्दमानं तदा दीनं व्यासं मत्वा श्रमाकुलम्

॥५१॥

सर्वभूतगतः साक्षी प्रतिशब्दमदात्तदा ।

तत्राद्यापि गिरेः शृङ्गे प्रतिशब्दः स्फुटोऽभवत्

॥५२॥

रुदन्तं तं समालक्ष्य व्यासं शोकसमन्वितम् ।

पुत्र पुत्रेति भाषन्तं विरहेण परिप्लुतम्

॥५३॥

शिवस्तत्र समागत्य पाराशर्यमबोधयत् ।

व्यास शोकं मा कुरु त्वं पुत्रस्ते योगवित्तमः

॥५४॥

परमां गतिमापन्नो दुर्लभां चाकृतात्मभिः ।

तस्य शोको न कर्तव्यस्त्वयाशोकं विजानता

॥५५॥

कीर्तिस्ते विपुला जाता तेन पुत्रेण चानघ ।

व्यास उवाच ।

न शोको याति देवेश किं करोमि जगत्पते

॥५६॥

अतृप्ते लोचने मेऽद्य पुत्रदर्शनलालसे ।

महादेव उवाच ।

छायां द्रक्ष्यसि पुत्रस्य पार्श्वस्थां सुमनोहराम्

॥५७॥

तां वीक्ष्य मुनिशार्दूल शोकं जहि परन्तप ।

सूत उवाच ।

तदा ददर्श व्यासस्तु छायां पुत्रस्य सुप्रभाम्

॥५८॥

दत्त्वा वरं हरस्तस्मै तत्रैवान्तरधीयत ।

अन्तर्हिते महादेवे व्यासः स्वाश्रममभ्यगात्

॥५९॥

शुकस्य विरहेणापि तप्तः परमदुःखितः

॥६०॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकस्य विवाहादिकार्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥