ग्रन्थसंख्याविषयवर्णनम्
सूत उवाच
धन्योऽहमतिभाग्योऽहं पावितोऽहं महात्मभिः ।
यत्पृष्टं सुमहत्पुण्यं पुराणं वेदविश्रुतम्
॥१॥तदहं सम्प्रवक्ष्यामि सर्वश्रुत्यर्थसम्मतम् ।
रहस्यं सर्वशास्त्राणामागमानामनुत्तमम्
॥२॥नत्वा तत्पदपङ्कजं सुललितं मुक्तिप्रदं योगिनां ।
ब्रह्माद्यैरपि सेवितं स्तुतिपरैर्ध्येयं मुनीन्द्रैः सदा ।
वक्ष्याम्यद्य सविस्तरं बहुरसं श्रीमत्पुराणोत्तमं ।
भक्त्या सर्वरसालयं भगवतीनाम्ना प्रसिद्धं द्विजाः
॥३॥या विद्येत्यभिधीयते श्रुतिपथे शक्तिः सदाद्या परा ।
सर्वज्ञा भवबन्धछित्तिनिपुणा सर्वाशये संस्थिता ।
दुर्ज्ञेया सुदुरात्मभिश्च मुनिभिर्ध्यानास्पदं प्रापिता ।
प्रत्यक्षा भवतीह सा भगवती सिद्धिप्रदा स्यात्सदा
॥४॥सृष्ट्वाखिलं जगदिदं सदसत्स्वरूपं शक्त्या स्वया त्रिगुणया परिपाति विश्वम् ।
संहृत्य कल्पसमये रमते तथैका तां सर्वविश्वजननीं मनसा स्मरामि
॥५॥ब्रह्मा सृजत्यखिलमेतदिति प्रसिद्धं पौराणिकैश्च कथितं खलु वेदविद्भिः ।
विष्णोस्तु नाभिकमले किल तस्य जन्म तैरुक्तमेव सृजते न हि स स्वतन्त्रः
॥६॥विष्णुस्तु शेषशयने स्वपितीति काले तन्नाभिपद्यमुकुले खलु तस्य जन्म ।
आधारतां किल गतोऽत्र सहस्रमौलिः सम्बोध्यतां स भगवान् हि कथं मुरारिः
॥७॥एकार्णवस्य सलिलं रसरूपमेव पात्रं विना न हि रसस्थितिरस्ति कच्चित् ।
या सर्वभूतविषये किल शक्तिरूपा तां सर्वभूतजननीं शरणं गतोऽस्मि
॥८॥योगनिद्रामीलिताक्षं विष्णुं दृष्ट्वाम्बुजे स्थितः ।
अजस्तुष्टाव यां देवीं तामहं शरणं गतः
॥९॥तां ध्यात्वा सगुणां मायां मुक्तिदां निर्गुणां तथा ।
वक्ष्ये पुराणमखिलं शृण्वन्तु मुनयस्त्विह
॥१०॥पुराणमुत्तमं पुण्यं श्रीमद्भागवताभिधम् ।
अष्टादश सहस्राणि श्लोकास्तत्र तु संस्कृताः
॥११॥स्कन्धा द्वादश चैवात्र कृष्णेन विहिताः शुभाः ।
त्रिशतं पूर्णमध्याया अष्टादशयुताः स्मृताः
॥१२॥विंशतिः प्रथमे तत्र द्वितीये द्वादशैव तु ।
त्रिंशच्चैव तृतीये तु चतुर्थे पञ्चविंशतिः
॥१३॥पञ्चत्रिंशत्तथाध्यायाः पञ्चमे परिकीर्तिताः ।
एकत्रिंशत्तथा षष्ठे चत्वारिंशच्च सप्तमे
॥१४॥अष्टमे तत्त्वसङ्ख्याश्च पञ्चाशन्नवमे तथा ।
त्रयोदश तु सम्प्रोक्ता दशमे मुनिना किल
॥१५॥तथा चैकादशस्कन्धे चतुर्विंशतिरीरिताः ।
चतुर्दशैव चाध्याया द्वादशे मुनिसत्तमाः
॥१६॥एवं सङ्ख्या समाख्याता पुराणेऽस्मिन्महात्मना ।
अष्टादशसहस्रीया सङ्ख्या च परिकीर्तिता
॥१७॥सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम्
॥१८॥निर्गुणा या सदा नित्या व्यापिका विकृता शिवा ।
योगगम्याखिलाधारा तुरीया या च संस्थिता
॥१९॥तस्यास्तु सात्त्विकी शक्ती राजसी तामसी तथा ।
महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः
॥२०॥तासां तिसॄणां शक्तीनां देहाङ्गीकारलक्षणः ।
सृष्ट्यर्थं च समाख्यातः सर्गः शास्त्रविशारदैः
॥२१॥हरिद्रुहिणरुद्राणां समुत्पत्तिस्ततः स्मृता ।
पालनोत्पत्तिनाशार्थं प्रतिसर्गः स्मृतो हि सः
॥२२॥सोमसूर्योद्भवानां च राज्ञां वंशप्रकीर्तनम् ।
हिरण्यकशिप्वादीनां वंशास्ते परिकीर्तिताः
॥२३॥स्वायम्भुवमुखानां च मनूनां परिवर्णनम् ।
कालसङ्ख्या तथा तेषां तत्तन्मन्वन्तराणि च
॥२४॥तेषां वंशानुकथनं वंशानुचरितं स्मृतम् ।
पञ्चलक्षणयुक्तानि भवन्ति मुनिसत्तमाः
॥२५॥सपादलक्षं च तथा भारतं मुनिना कृतम् ।
इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम्
॥२६॥शौनक उवाच
कानि तानि पुराणानि ब्रूहि सूत सविस्तरम् ।
कतिसङ्ख्यानि सर्वज्ञ श्रोतुकामा वयं त्विह
॥२७॥कलिकालविभीताः स्मो नैमिषारण्यवासिनः ।
ब्रह्मणात्र समादिष्टाश्चक्रं दत्त्वा मनोमयम्
॥२८॥कथितं तेन नः सर्वान्गच्छन्त्वेतस्य पृष्ठतः ।
नेमिः संशीर्यते यत्र स देशः पावनः स्मृतः
॥२९॥कलेस्तत्र प्रवेशो न कदाचित् सम्भविष्यति ।
तावत्तिष्ठन्तु तत्रैव यावत्सत्ययुगं पुनः
॥३०॥तच्छ्रुत्वा वचनं तस्य गृहीत्वा तत्कथानकम् ।
चालयन्निर्गतस्तूर्णं सर्वदेशदिदृक्षया
॥३१॥प्रेत्यात्र चालयंश्चक्रं नेमिः शीर्णोऽत्र पश्यतः ।
तेनेदं नैमिषं प्रोक्तं क्षेत्रं परमपावनम्
॥३२॥कलिप्रवेशो नैवात्र तस्मात्स्थानं कृतं मया ।
मुनिभिः सिद्धसङ्घैश्च कलिभीतैर्महात्मभिः
॥३३॥पशुहीनाः कृता यज्ञाः पुरोडाशादिभिः किल ।
कालातिवाहनं कार्यं यावत्सत्ययुगागमः
॥३४॥भाग्ययोगेन सम्प्राप्तः सूत त्वं चात्र सर्वथा ।
कथयाद्य पुराणं हि पावनं ब्रह्मसम्मतम्
॥३५॥सूत शुश्रूषवः सर्वे वक्ता त्वं मतिमानथ ।
निर्व्यापारा वयं नूनमेकचित्तास्तथैव च
॥३६॥त्वं सूत भव दीर्घायुस्तापत्रयविवर्जितः ।
कथयाद्य पुराणं हि पुण्यं भागवतं शिवम्
॥३७॥यत्र धर्मार्थकामानां वर्णनं विधिपूर्वकम् ।
विद्यां प्राप्य तया मोक्षः कथितो मुनिना किल
॥३८॥द्वैपायनेन मुनिना कथितं यच्च पावनम् ।
न तृप्यामो वयं सूत कथां श्रुत्वा मनोरमाम्
॥३९॥सकलगुणगणानामेकपात्रं पवित्र- ।
मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ।
निखिलमलगणानां नाशकृत्कामकन्दं ।
प्रकटय भगवत्या नामयुक्तं पुराणम्
॥४०॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां ॥ प्रथमस्कन्धे ग्रन्थसंख्याविषयवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥