मधुकैटभयोर्युद्धोद्योगवर्णनम्
ऋषय ऊचुः
सौम्य यच्च त्वया प्रोक्तं शौरेर्युद्धं महार्णवे ।
मधुकैटभयोः सार्धं पञ्चवर्षसहस्रकम्
॥१॥कस्मात्तौ दानवौ जातौ तस्मिन्नेकार्णवे जले ।
महावीर्यो दुराधर्षौ देवैरपि सुदुर्जयौ
॥२॥कथं तावसुरौ जातौ कथं च हरिणा हतौ ।
तदाचक्ष्व महाप्राज्ञ चरितं परमाद्भुतम्
॥३॥श्रोतुकामा वयं सर्वे त्वं वक्ता च बहुश्रुतः ।
दैवाच्चात्रैव संजातः संयोगश्च तथावयोः
॥४॥मूर्खेण सह संयोगो विषादपि सुदुर्जरः ।
विज्ञेन सह संयोगः सुधारससमः स्मृतः
॥५॥जीवन्ति पशवः सर्वे खादन्ति मेहयन्ति च ।
जानन्ति विषयाकारं व्यवायसुखमद्भुतम्
॥६॥न तेषां सदसज्ज्ञानं विवेको न च मोक्षदः ।
पशुभिस्ते समा ज्ञेया येषां न श्रवणादरः
॥७॥मृगाद्याः पशवः केचिज्जानन्ति श्रावणं सुखम् ।
अश्रोत्राः फणिनश्चैव मुमुहुर्नादपानतः
॥८॥पञ्चानामिन्द्रियाणां वै शुभे श्रवणदर्शने ।
श्रवणाद्वस्तुविज्ञानं दर्शनाच्चित्तरञ्जनम्
॥९॥श्रवणं त्रिविधं प्रोक्तं सात्त्विकं राजसं तथा ।
तामसं च महाभाग सुज्ञोक्तं निश्चयान्वितम्
॥१०॥सात्त्विकं वेदशास्त्रादि साहित्यं चैव राजसम् ।
तामसं युद्धवार्ता च परदोषप्रकाशनम्
॥११॥सात्त्विकं त्रिविधं प्रोक्तं प्रज्ञावद्भिश्च पण्डितैः ।
उत्तमं मध्यमं चैव तथैवाधममित्युत
॥१२॥उत्तमं मोक्षफलदं स्वर्गदं मध्यमं तथा ।
अधमं भोगदं प्रोक्तं निर्णीय विदितं बुधैः
॥१३॥साहित्यं चैव त्रिविधं स्वीयायां चोत्तमं स्मृतम् ।
मध्यमं वारयोषायां परोढायां तथाधमम्
॥१४॥तामसं त्रिविधं ज्ञेयं विद्वद्भिः शास्त्रदर्शिभिः ।
आततायिनियुद्धं यत्तदुत्तममुदाहृतम्
॥१५॥मध्यमं चापि विद्वेषात्पाण्डवानां तथारिभिः ।
अधमं निर्निमित्तं तु विवादे कलहे तथा
॥१६॥तदत्र श्रवणं मुख्यं पुराणस्य महामते ।
बुद्धिप्रवर्धनं पुण्यं ततः पापप्रणाशनम्
॥१७॥तदाख्याहि महाबुद्धे कथां पौराणिकीं शुभाम् ।
श्रुतां द्वैपायनात्पूर्वं सर्वार्थस्य प्रसाधिनीम्
॥१८॥सूत उवाच
यूयं धन्या महाभागा धन्योऽहं पृथिवीतले ।
येषां श्रवणबुद्धिश्च ममापि कथने किल
॥१९॥पुरा चैकार्णवे जाते विलीने भुवनत्रये ।
शेषपर्यङ्कसुप्ते च देवदेवे जनार्दने
॥२०॥विष्णुकर्णमलोद्भूतौ दानवौ मधुकैटभौ ।
महाबलौ च तौ दैत्यौ विवृद्धौ सागरे जले
॥२१॥क्रीडमानौ स्थितौ तत्र विचरन्तावितस्ततः ।
तावेकदा महाकायौ क्रीडासक्तौ महार्णवे
॥२२॥चिन्तामवापतुश्चित्ते भ्रातराविव संस्थितौ ।
नाकारणं भवेत्कार्यं सर्वत्रैषा परम्परा
॥२३॥आधेयं तु विनाधारं न तिष्ठति कथञ्चन ।
आधाराधेयभावस्तु भाति नो चित्तगोचरः
॥२४॥क्व तिष्ठति जलं चेदं सुखरूपं सुविस्तरम् ।
केन सृष्टं कथं जातं मग्नावावाञ्जले स्थितौ
॥२५॥आवां वा कथमुत्पन्नौ केन वोत्पादितावुभौ ।
पितरौ क्वेति विज्ञानं नास्ति कामं तथावयोः
॥२६॥सूत उवाच
एवं कामयमानौ तौ जग्मतुर्न विनिश्चयम् ।
उवाच कैटभस्तत्र मधुं पार्श्वे स्थितं जले
॥२७॥कैटभ उवाच
मधो वामत्र सलिले स्थातुं शक्तिर्महाबला ।
वर्तते भ्रातरचला कारणं सा हि मे मता
॥२८॥तया ततमिदं तोयं तदाधारं च तिष्ठति ।
सा एव परमा देवी कारणञ्च तथावयोः
॥२९॥एवं विबुध्यमानौ तौ चिन्ताविष्टौ यदासुरौ ।
तदाकाशे श्रुतं ताभ्यां वाग्बीजं सुमनोहरम्
॥३०॥गृहीतं च ततस्ताभ्यां तस्याभ्यासो दृढः कृतः ।
तदा सौदामनी दृष्टा ताभ्यां खे चोत्थिता शुभा
॥३१॥ताभ्यां विचारितं तत्र मन्त्रोऽयं नात्र संशयः ।
तथा ध्यानमिदं दृष्टं गगने सगुणं किल
॥३२॥निराहारौ जितात्मानौ तन्मनस्कौ समाहितौ ।
बभूवतुर्विचिन्त्यैवं जपध्यानपरायणौ
॥३३॥एवं वर्षसहस्रं तु ताभ्यां तप्तं महत्तपः ।
प्रसन्ना परमा शक्तिर्जाता सा परमा तयोः
॥३४॥खिन्नौ तौ दानवौ दृष्ट्वा तपसे कृतनिश्चयौ ।
तयोरनुग्रहार्थाय वागुवाचाशरीरिणी
॥३५॥वरं वां वाञ्छितं दैत्यौ ब्रूतं परमसम्मतम् ।
ददामि परितुष्टास्मि युवयोस्तपसा किल
॥३६॥सूत उवाच
इति श्रुत्वा तु तां वाणीं दानवावूचतुस्तदा ।
स्वेच्छया मरणं देवि वरं नौ देहि सुव्रते
॥३७॥वागुवाच
वाञ्छितं मरणं दैत्यौ भवेद्वा मत्प्रसादतः ।
अजेयौ देवदैत्यैश्च भ्रातरौ नात्र संशयः
॥३८॥सूत उवाच
इति दत्तवरौ देव्या दानवौ मददर्पितौ ।
चक्रतुः सागरे क्रीडां यादोगणसमन्वितौ
॥३९॥कालेन कियता विप्रा दानवाभ्यां यदृच्छया ।
दृष्टः प्रजापतिर्ब्रह्मा पद्मासनगतः प्रभुः
॥४०॥दृष्ट्वा तु मुदितावास्तां युद्धकामौ महाबलौ ।
तमूचतुस्तदा तत्र युद्धं नौ देहि सुव्रत
॥४१॥नोचेत्पद्मं परित्यज्य यथेष्टं गच्छ माचिरम् ।
यदि त्वं निर्बलश्चासि क्व योग्यं शुभमासनम्
॥४२॥वीरभोग्यमिदं स्थानं कातरोऽसि त्यजाशु वै ।
तयोरिति वचः श्रुत्वा चिन्तामाप प्रजापतिः
॥४३॥दृष्ट्वा च बलिनौ वीरौ किं करोमीति तापसः ।
चिन्ताविष्टस्तदा तस्थौ चिन्तयन्मनसा तदा
॥४४॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे मधुकैटभयोर्युद्धोद्योगवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥