मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ३

3
प्रथमस्कन्धः · 3

पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनम्

सूत उवाच

शृण्वन्तु सम्प्रवक्ष्यामि पुराणानि मुनीश्वराः ।

यथाश्रुतानि तत्त्वेन व्यासात्सत्यवतीसुतात्

॥१॥

मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।

अनापलिंगकूस्कानि पुराणानि पृथक्पृथक्

॥२॥

चतुर्दशसहस्रं च मत्स्यमाद्यं प्रकीर्तितम् ।

तथा ग्रहसहस्रं तु मार्कण्डेयं महाद्भुतम्

॥३॥

चतुर्दशसहस्राणि तथा पञ्चशतानि च ।

भविष्यं परिसंख्यातं मुनिभिस्तत्त्वदर्शिभिः

॥४॥

अष्टादशसहस्रं वै पुण्यं भागवतं किल ।

तथा चायुतसंख्याकं पुराणं ब्रह्मसंज्ञकम्

॥५॥

द्वादशैव सहस्राणि ब्रह्माण्डं च शताधिकम् ।

तथाष्टादशसाहस्रं ब्रह्मवैवर्तमेव च

॥६॥

अयुतं वामनाख्यं च वायव्यं षट्शतानि च ।

चतुर्विंशतिसंख्यातः सहस्राणि तु शौनक

॥७॥

त्रयोविंशतिसाहस्रं वैष्णवं परमाद्भुतम् ।

चतुर्विंशतिसाहस्रं वाराहं परमाद्भुतम्

॥८॥

षोडशैव सहस्राणि पुराणं चाग्निसंज्ञितम् ।

पञ्चविंशतिसाहस्रं नारदं परमं मतम्

॥९॥

पञ्चपञ्चाशत्साहस्रं पद्माख्यं विपुलं मतम् ।

एकादशसहस्राणि लिङ्गाख्यं चातिविस्मृतम्

॥१०॥

एकोनविंशत्साहस्रं गारुडं हरिभाषितम् ।

सप्तदशसहस्रं च पुराणं कूर्मभाषितम्

॥११॥

एकाशीतिसहस्राणि स्कन्दाख्यं परमाद्भुतम् ।

पुराणाख्या च संख्या च विस्तरेण मयानघाः

॥१२॥

तथैवोपपुराणानि शृण्वन्तु ऋषिसत्तमाः ।

सनत्कुमारं प्रथमं नारसिंहं ततः परम्

॥१३॥

नारदीयं शिवं चैव दौर्वाससमनुत्तमम् ।

कापिलं मानवं चैव तथा चौशनसं स्मृतम्

॥१४॥

वारुणं कालिकाख्यं च साम्बं नन्दिकृतं शुभम् ।

सौरं पाराशरप्रोक्तमादित्यं चातिविस्तरम्

॥१५॥

माहेश्वरं भागवतं वासिष्ठं च सविस्तरम् ।

एतान्युपपुराणानि कथितानि महात्मभिः

॥१६॥

अष्टादश पुराणानि कृत्वा सत्यवतीसुतः ।

भारताख्यानमतुलं चक्रे तदुपबृंहितम्

॥१७॥

मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे ।

प्रादुःकरोति धर्मार्थी पुराणानि यथाविधि

॥१८॥

द्वापरे द्वापरे विष्णुर्व्यासरूपेण सर्वदा ।

वेदमेकं स बहुधा कुरुते हितकाम्यया

॥१९॥

अल्पायुषोऽल्पबुद्धींश्च विप्रान्ज्ञात्वा कलावथ ।

पुराणसंहितां पुण्यां कुरुतेऽसौ युगे युगे

॥२०॥

स्त्रीशूद्रद्विजबन्धूनां न वेदश्रवणं मतम् ।

तेषामेव हितार्थाय पुराणानि कृतानि च

॥२१॥

मन्वन्तरे सप्तमेऽत्र शुभे वैवस्वताभिधे ।

अष्टाविंशतिमे प्राप्ते द्वापरे मुनिसत्तमाः

॥२२॥

व्यासः सत्यवतीसूनुर्गुरुर्मे धर्मवित्तमः ।

एकोनत्रिंशत्संप्राप्ते द्रौणिर्व्यासो भविष्यति

॥२३॥

अतीतास्तु तथा व्यासाः सप्तविंशतिरेव च ।

पुराणसंहितास्तैस्तु कथितास्तु युगे युगे

॥२४॥

ऋषय ऊचुः

ब्रूहि सूत महाभाग व्यासाः पूर्वयुगोद्भवाः ।

वक्तारस्तु पुराणानां द्वापरे द्वापरे युगे

॥२५॥

सूत उवाच

द्वापरे प्रथमे व्यस्ताः स्वयं वेदाः स्वयम्भुवा ।

प्रजापतिर्द्वितीये तु द्वापरे व्यासकार्यकृत्

॥२६॥

तृतीये चोशना व्यासश्चतुर्थे तु बृहस्पतिः ।

पञ्चमे सविता व्यासः षष्ठे मृत्युस्तथापरे

॥२७॥

मघवा सप्तमे प्राप्ते वसिष्ठस्त्वष्टमे स्मृतः ।

सारस्वतस्तु नवमे त्रिधामा दशमे तथा

॥२८॥

एकादशेऽथ त्रिवृषो भरद्वाजस्ततः परम् ।

त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे

॥२९॥

त्रय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ।

मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा

॥३०॥

अत्रिरेकोनविंशेऽथ गौतमस्तु ततः परम् ।

उत्तमश्चैकविंशेऽथ हर्यात्मा परिकीर्तितः

॥३१॥

वेनो वाजश्रवाश्चैव सोमोऽमुष्यायणस्तथा ।

तृणबिन्दुस्तथा व्यासो भार्गवस्तु ततः परम्

॥३२॥

ततः शक्तिर्जातुकर्ण्यः कृष्णद्वैपायनस्ततः ।

अष्टाविंशतिसंख्येयं कथिता या मया श्रुता

॥३३॥

कृष्णद्वैपायनात्प्रोक्तं पुराणं च मया श्रुतम् ।

श्रीमद्भागवतं पुण्यं सर्वदुःखौघनाशनम्

॥३४॥

कामदं मोक्षदं चैव वेदार्थपरिबृंहितम् ।

सर्वागमरसारामं मुमुक्षूणां सदा प्रियम्

॥३५॥

व्यासेन कृत्वातिशुभं पुराणं शुकाय पुत्राय महात्मने यत् ।

वैराग्ययुक्ताय च पाठितं वै विज्ञाय चैवारणिसम्भवाय

॥३६॥

श्रुतं मया तत्र तथा गृहीतं यथार्थवद्व्यासमुखान्मुनीन्द्राः ।

पुराणगुह्यं सकलं समेतं गुरोः प्रसादात्करुणानिधेश्च

॥३७॥

सूतेन पृष्टः सकलं जगाद द्वैपायनस्तत्र पुराणगुह्यम् ।

अयोनिजेनाद्भुतबुद्धिना वै श्रुतं मया तत्र महाप्रभावम्

॥३८॥

श्रीमद्भागवतामरांघ्रिपफलास्वादादरः सत्तमाः संसारार्णवदुर्विगाह्यसलिलं सन्तर्तुकामः शुकः ।

नानाख्यानरसालयं श्रुतिपुटैः प्रेम्णाशृणोदद्भुतं तच्छ्रुत्वा न विमुच्यते कलिभयादेवंविधः कः क्षितौ

॥३९॥

पापीयानपि वेदधर्मरहितः स्वाचारहीनाशयो ।

व्याजेनापि शृणोति यः परमिदं श्रीमत्पुराणोत्तमम् ।

भुक्त्या भोगकलापमत्र विपुलं देहावसानेऽचलं योगिप्राप्यमवाप्नुयाद्भगवतीनामाङ्कितं सुन्दरम्

॥४०॥

या निर्गुणा हरिहरादिभिरप्यलभ्या विद्या सतां प्रियतमाथ समाधिगम्या ।

सा तस्य चित्तकुहरे प्रकरोति भावं यः संशृणोति सततं तु सतीपुराणम्

॥४१॥

सम्प्राप्य मानुषभवं सकलाङ्गयुक्तं पोतं भवार्णवजलोत्तरणाय कामम् ।

सम्प्राप्य वाचकमहो न शृणोति मूढः स वञ्चितोऽत्र विधिना सुखदं पुराणम्

॥४२॥

यः प्राप्य कर्णयुगलं पटुमानुषत्वे रागी शृणोति सततं च परापवादान् ।

सर्वार्थदं रसनिधिं विमलं पुराणं नष्टः कुतो न शृणुते भुवि मन्दबुद्धिः

॥४३॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे पुराणवर्णनपूर्वकतत्तद्युगीयव्यासवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥