मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १

3
प्रथमस्कन्धः · 1

शौनकप्रश्नः

ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि ।

बुद्धिं या नः प्रचोदयात्

॥१॥

शौनक उवाच

सूत सूत महाभाग धन्योऽसि पुरुषर्षभ ।

यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः

॥२॥

अष्टादश पुराणानि कृष्णेन मुनिनानघ ।

कथितानि सुदिव्यानि पठितानि त्वयानघ

॥३॥

पञ्चलक्षणयुक्तानि सरहस्यानि मानद ।

त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात्

॥४॥

अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् ।

दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम्

॥५॥

समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् ।

पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः

॥६॥

दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः ।

कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम्

॥७॥

श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः ।

न शृण्वन्ति पुराणानि वञ्चिता विधिना हि ते

॥८॥

यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते ।

तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः

॥९॥

अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः ।

सकर्णा ये न शृण्वन्ति तेऽप्यकर्णाः कथं न च

॥१०॥

अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः ।

वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः

॥११॥

येन केनाप्युपायेन कालातिवाहनं स्मृतम् ।

व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः

॥१२॥

शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च ।

त्रिविधानि पुराणानि शास्त्राणि विविधानि च ।

विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च ।

नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च

॥१३॥

सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् ।

तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम्

॥१४॥

तथैव च पुराणानि त्रिगुणानि कथानकैः ।

कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च

॥१५॥

तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।

कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम्

॥१६॥

उद्देशमत्रेण तदा कीर्तितं परमाद्भुतम् ।

मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा

॥१७॥

विस्तरेण तदाख्याहि पुराणोत्तममादरात् ।

श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम्

॥१८॥

त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल ।

कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः

॥१९॥

श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च ।

नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा

॥२०॥

धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन ।

पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात्

॥२१॥

सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः ।

न शान्तिमधिगच्छामः सूत सर्वात्मना वयम्

॥२२॥

मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः ।

एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम्

॥२३॥

विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन ।

भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके

॥२४॥

अतः सर्वरसोपेतं पुण्यं भागवतं वद ।

पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम्

॥२५॥

इति श्रीमद्देवीभागवते महापुराणे अष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शौनकप्रश्नो नाम प्रथमोऽध्यायः ॥ १ ॥