मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १६

3
प्रथमस्कन्धः · 16

व्यासोपदेशवर्णनम्

दृष्ट्वा तं विस्मितं देवं शयानं वटपत्रके ।

उवाच सस्मितं वाक्यं विष्णो किं विस्मितो ह्यसि

॥१॥

महाशक्त्याः प्रभावेण त्वं मां विस्मृतवान्पुरा ।

प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः

॥२॥

निर्गुणा सा परा शक्तिः सगुणस्त्वं तथाप्यहम् ।

सात्त्विकी किल या शक्तिस्तां शक्तिं विद्धि मामिकाम्

॥३॥

त्वन्नाभिकमलाद्ब्रह्मा भविष्यति प्रजापतिः ।

स कर्ता सर्वलोकस्य रजोगुणसमन्वितः

॥४॥

स तदा तप आस्थाय प्राप्य शक्तिमनुत्तमाम् ।

रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम्

॥५॥

सगुणान्पञ्चभूतांश्च समुत्पाद्य महामतिः ।

इन्द्रियाणीन्द्रियेशांश्च मनःपूर्वान्समन्ततः

॥६॥

करिष्यति ततः सर्गं तेन कर्ता स उच्यते ।

विश्वस्यास्य महाभाग त्वं वै पालयिता तथा

॥७॥

तद्भुवोर्मध्यदेशाच्च क्रोधाद्रुद्रो भविष्यति ।

तपः कृत्वा महाघोरं प्राप्य शक्तिं तु तामसीम्

॥८॥

कल्पान्ते सोऽपि संहर्ता भविष्यति महामते ।

तेनाहं त्वामुपायाता सात्त्विकीं त्वमवेहि माम्

॥९॥

स्थास्येऽहं त्वत्समीपस्था सदाहं मधुसूदन ।

हृदये ते कृतावासा भवामि सततं किल

॥१०॥

विष्णुरुवाच

श्लोकस्यार्धं मया पूर्वं श्रुतं देवि स्फुटाक्षरम् ।

तत्केनोक्तं वरारोहे रहस्यं परमं शिवम्

॥११॥

तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने ।

निर्धनो हि यथा द्रव्यं तत्स्मरामि पुनः पुनः

॥१२॥

व्यास उवाच

विष्णोस्तद्वचनं श्रुत्वा महालक्ष्मीः स्मितानना ।

उवाच परया प्रीत्या वचनं चारुहासिनी

॥१३॥

महालक्ष्मीरुवाच

शृणु शौरे वचो मह्यं सगुणाहं चतुर्भुजा ।

मां जानासि न जानासि निर्गुणां सगुणालयाम्

॥१४॥

त्वं जानीहि महाभाग तया तत्प्रकटीकृतम् ।

पुण्यं भागवतं विद्धि वेदसारं शुभावहम्

॥१५॥

कृपां च महतीं मन्ये देव्याः शत्रुनिषूदन ।

यया प्रोक्तं परं गुह्यं हिताय तव सुव्रत

॥१६॥

रक्षणीयं सदा चित्ते न विस्मार्यं कदाचन ।

सारं हि सर्वशास्त्राणां महाविद्याप्रकाशितम्

॥१७॥

नातः परं वेदितव्यं वर्तते भुवनत्रये ।

प्रियोऽसि खलु देव्यास्त्वं तेन ते व्याहृतं वचः

॥१८॥

व्यास उवाच

इति श्रुत्वा वचो देव्या महालक्ष्याश्चतुर्भुजः ।

दधार हृदये नित्यं मत्वा मन्त्रमनुत्तमम्

॥१९॥

कालेन कियता तत्र तन्नाभिकमलोद्भवः ।

ब्रह्मा दैत्यभयात्त्रस्तो जगाम शरणं हरेः

॥२०॥

ततः कृत्वा महायुद्धं हत्वा तौ मधुकैटभौ ।

जजाप भगवान्विष्णुः श्लोकार्धं विशदाक्षरम्

॥२१॥

जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापतिः ।

पप्रच्छ परमप्रीतः कञ्जजः कमलापतिम्

॥२२॥

किं त्वं जपसि देवेश त्वत्तः कोऽप्यधिकोऽस्ति वै ।

यत्कृत्वा पुण्डरीकाक्ष प्रीतोऽसि जगदीश्वर

॥२३॥

हरिरुवाच

मयि त्वयि च या शक्तिः क्रियाकारणलक्षणा ।

विचारय महाभाग या सा भगवती शिवा

॥२४॥

यस्याधारे जगत्सर्वं तिष्ठत्यत्र महार्णवे ।

साकारा या महाशक्तिरमेया च सनातनी

॥२५॥

यया विसृज्यते विश्वं जगदेतच्चराचरम् ।

सैषा प्रसन्ना वरदा नृणां भवति मुक्तये

॥२६॥

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।

संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी

॥२७॥

अहं त्वमखिलं विश्वं तस्याश्चिच्छक्तिसम्भवम् ।

विद्धि ब्रह्मन्न सन्देहः कर्तव्यः सर्वदानघ

॥२८॥

श्लोकार्धेन तया प्रोक्तं तद्वै भागवतं किल ।

विस्तरो भविता तस्य द्वापरादौ युगे तथा

॥२९॥

व्यास उवाच

ब्रह्मणा संगृहीतं च विष्णोस्तु नाभिपङ्कजे ।

नारदाय च तेनोक्तं पुत्रायामितबुद्धये

॥३०॥

नारदेन तथा मह्यं दत्तं हि मुनिना पुरा ।

मया कृतमिदं पूर्णं द्वादशस्कन्धविस्तरम्

॥३१॥

तत्पठस्व महाभाग पुराणं ब्रह्मसम्मितम् ।

पञ्चलक्षणयुक्तं च देव्याश्चरितमुत्तमम्

॥३२॥

तत्त्वज्ञानरसोपेतं सर्वेषामुत्तमोत्तमम् ।

धर्मशास्त्रसमं पुण्यं वेदार्थेनोपबृंहितम्

॥३३॥

वृत्रासुरवधोपेतं नानाख्यानकथायुतम् ।

ब्रह्मविद्यानिधानं तु संसारार्णवतारकम्

॥३४॥

गृहाण त्वं महाभाग योग्योऽसि मतिमत्तरः ।

पुण्यं भागवतं नाम पुराणं पुरुषर्षभ

॥३५॥

अष्टादशसहस्राणां श्लोकानां कुरु संग्रहम् ।

अज्ञाननाशनं दिव्यं ज्ञानभास्करबोधकम्

॥३६॥

सुखदं शान्तिदं धन्यं दीर्घायुष्यकरं शिवम् ।

शृण्वतां पठतां चेदं पुत्रपौत्रविवर्धनम्

॥३७॥

शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवः ।

पठिष्यति त्वया सार्धं पुराणीं संहितां शुभाम्

॥३८॥

सूत उवाच

इत्युक्तं तेन पुत्राय मह्यं च कथितं किल ।

मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम्

॥३९॥

शुकोऽधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे ।

न लेभे शर्म धर्मात्मा ब्रह्मात्मज इवापरः

॥४०॥

एकान्तसेवी विकलः स शून्य इव लक्ष्यते ।

नात्यन्तभोजनासक्तो नोपवासरतस्तथा

॥४१॥

चिन्ताविष्टं शुकं दृष्ट्वा व्यासः प्राह सुतं प्रति ।

किं पुत्र चिन्त्यते नित्यं कस्माद्व्यग्रोऽसि मानद

॥४२॥

आस्से ध्यानपरो नित्यमृणग्रस्त इवाधनः ।

का चिन्ता वर्तते पुत्र मयि ताते तु तिष्ठति

॥४३॥

सुखं भुंक्ष्व यथाकामं मुञ्च शोकं मनोगतम् ।

ज्ञानं चिन्तय शास्त्रोक्तं विज्ञाने च मतिं कुरु

॥४४॥

न चेन्मनसि ते शान्तिर्वचसा मम सुव्रत ।

गच्छ त्वं मिथिलां पुत्र पालितां जनकेन ह

॥४५॥

स ते मोहं महाभाग नाशयिष्यति भूपतिः ।

जनको नाम धर्मात्मा विदेहः सत्यसागरः

॥४६॥

तं गत्वा नृपतिं पुत्र सन्देहं स्वं निवर्तय ।

वर्णाश्रमाणां धर्मांस्त्वं पृच्छ पुत्र यथातथम्

॥४७॥

जीवन्मुक्तः स राजर्षिर्बह्मज्ञानमतिः शुचिः ।

तथ्यवक्तातिशान्तश्च योगी योगप्रियः सदा

॥४८॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्य व्यासस्यामिततेजसः ।

प्रत्युवाच महातेजाः शुकश्चारणिसम्भवः

॥४९॥

दम्भोऽयं किल धर्मात्मन्भाति चित्ते ममाधुना ।

जीवन्मुक्तो विदेहश्च राज्यं शास्ति मुदान्वितः

॥५०॥

वन्ध्यापुत्र इवाभाति राजासौ जनकः पितः ।

कुर्वन् राज्यं विदेहः किं सन्देहोऽयं ममाद्भुतः

॥५१॥

द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् ।

कथं तिष्ठति संसारे पद्मपत्रमिवाम्भसि

॥५२॥

सन्देहोऽयं महांस्तात विदेहे परिवर्तते ।

मोक्षः किं वदतां श्रेष्ठ सौगतानामिवापरः

॥५३॥

कथं भुक्तमभुक्तं स्यादकृतं च कृतं कथम् ।

व्यवहारः कथं त्याज्य इन्द्रियाणां महामते

॥५४॥

माता पुत्रस्तथा भार्या भगिनी कुलटा तथा ।

भेदाभेदः कथं न स्याद्यद्येतन्मुक्तता कथम्

॥५५॥

कटु क्षारं तथा तीक्ष्णां कषायं मिष्टमेव च ।

रसना यदि जानाति भुंक्ते भोगाननुत्तमान्

॥५६॥

शीतोष्णुसुखदुःखादिपरिज्ञानं यदा भवेत् ।

मुक्तता कीदृशी तात सन्देहोऽयं ममाद्भुतः

॥५७॥

शत्रुमित्रपरिज्ञानं वैरं प्रीतिकरं सदा ।

व्यवहारे परे तिष्ठन्कथं न कुरुते नृपः

॥५८॥

चौरं वा तापसं वापि समानं मन्यते कथम् ।

असमा यदि बुद्धिः स्यान्मुक्तता तर्हि कीदृशी

॥५९॥

दृष्टपूर्वो न मे कश्चिज्जीवन्मुक्तश्च भूपतिः ।

शङ्केयं महती तात गृहे मुक्तः कथं नृपः

॥६०॥

दिदृक्षा महती जाता श्रुत्वा तं भूपतिं तथा ।

सन्देहविनिवृत्त्यर्थं गच्छामि मिथिलां प्रति

॥६१॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शुकं प्रति व्यासोपदेशवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥