सुद्युम्नस्तुतिः
सूत उवाच
ततः पुरूरवा जज्ञे इलायां कथयामि वः ।
बुधपुत्रोऽतिधर्मात्मा यज्ञकृद्दानतत्परः
॥१॥सुद्युम्नो नाम भूपालः सत्यवादी जितेन्द्रियः ।
सैन्धवं हयमारुह्य चचार मृगयां वने
॥२॥युतः कतिपयामात्यैर्दर्शितश्चारुकुण्डलः ।
धनुराजगवं बद्ध्वा बाणसङ्घं तथाद्भुतम्
॥३॥स भ्रमंस्तद्वनोद्देशे हन्यमानो रुरून्मृगान् ।
शशांश्च सूकरांश्चैव खड्गांश्च गवयांस्तथा
॥४॥शरभान्महिषांश्चैव साम्भरान्वनकुक्कुटान् ।
निघ्नन्मेध्यान् पशून् राजा कुमारवनमाविशत्
॥५॥मेरोरधस्तले दिव्यं मन्दारद्रुमराजितम् ।
अशोकलतिकाकीर्णं बकुलैरधिवासितम्
॥६॥सालैस्तालैस्तमालैश्च चम्पकैः पनसैस्तथा ।
आम्रैर्नीपैर्मधूकैश्च माधवीमण्डपावृतम्
॥७॥दाडिमैर्नारिकेलैश्च कदलीखण्डमण्डितम् ।
यूथिकामालतीकुन्दपुष्पवल्लीसमावृतम्
॥८॥हंसकारण्डवाकीर्णं कीचकध्वनिनादितम् ।
भ्रमरालिरुतारामं वनं सर्वसुखावहम्
॥९॥दृष्ट्वा प्रमुदितो राजा सुद्युम्नः सेवकैर्वृतः ।
वृक्षान्सुपुष्पितान्वीक्ष्य कोकिलारावमण्डितान्
॥१०॥प्रविष्टस्तत्र राजर्षिः स्त्रीत्वमाप क्षणात्ततः ।
अश्वोऽपि वडवा जातश्चिन्ताविष्टः स भूपतिः
॥११॥किमेतदिति चिन्तार्तश्चिन्त्यमानः पुनः पुनः ।
दुःखं बहुतरं प्राप्तः सुद्युम्नो लज्जयान्वितः
॥१२॥किं करोमि कथं यामि गृहं स्त्रीभावसंयुतः ।
कथं राज्यं करिष्यामि केन वा वञ्चितो ह्यहम्
॥१३॥ऋषय ऊचुः
सूताश्चर्यमिदं प्रोक्तं त्वया यल्लोमहर्षण ।
सुद्युम्नः स्त्रीत्वमापन्नो भूपतिर्देवसन्निभः
॥१४॥किं तत्कारणमाचक्ष्व वने तत्र मनोहरे ।
किं कृतं तेन राज्ञा च विस्तरं वद सुव्रत
॥१५॥सूत उवाच
एकदा गिरिशं द्रष्टुमृषयः सनकादयः ।
दिशो वितिमिराभासाः कुर्वन्तः समुपागमन्
॥१६॥तस्मिंश्च समये तत्र शङ्करः प्रमदायुतः ।
क्रीडासक्तो महादेवो विवस्त्रा कामिनी शिवा
॥१७॥उत्सङ्गे संस्थिता भर्तू रममाणा मनोरमा ।
तान्विलोक्याम्बिका देवी विवस्त्रा व्रीडिता भृशम्
॥१८॥भर्तुरङ्कात्समुत्थाय वस्त्रमादाय पर्यधात् ।
लज्जाविष्टा स्थिता तत्र वेपमानातिमानिनी
॥१९॥ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।
परिवृत्य ययुस्तूर्णं नरनारायणाश्रमम्
॥२०॥ह्रीयुतां कामिनीं वीक्ष्य प्रोवाच भगवान्हरः ।
कथं लज्जातुरासि त्वं सुखं ते प्रकरोम्यहम्
॥२१॥अद्यप्रभृति यो मोहात्पुमान्कोऽपि वरानने ।
वनं च प्रविशेदेतत्स वै योषिद्भविष्यति
॥२२॥इति शप्तं वनं तेन ये जानन्ति जनाः क्वचित् ।
वर्जयन्तीह ते कामं वनं दोषसमृद्धिमत्
॥२३॥सुद्युम्नस्तु तदज्ञानात्प्रविष्टः सचिवैः सह ।
तथैव स्त्रीत्वमापन्नस्तैः सहेति न संशयः
॥२४॥चिन्ताविष्टः स राजर्षिर्न जगाम गृहं ह्रिया ।
विचचार बहिस्तस्माद्वनदेशादितस्ततः
॥२५॥इलेति नाम सम्प्राप्तं स्त्रीत्वे तेन महात्मना ।
विचरंस्तत्र सम्प्राप्तो बुधः सोमसुतो युवा
॥२६॥स्त्रीभिः परिवृतां तां तु दृष्ट्वा कान्तां मनोरमाम् ।
हावभावकलायुक्तां चकमे भगवाम्बुधः
॥२७॥सापि तं चकमे कान्तं बुधं सोमसुतं पतिम् ।
संयोगस्तत्र सञ्जातस्तयोः प्रेम्णा परस्परम्
॥२८॥स तस्यां जनयामास पुरूरवसमात्मजम् ।
इलायां सोमपुत्रस्तु चक्रवर्तिनमुत्तमम्
॥२९॥सा प्रासूत सुतं बाला चिन्ताविष्टा वने स्थिता ।
सस्मार स्वकुलाचार्यं वसिष्ठं मुनिसत्तमम्
॥३०॥स तदास्य दशां दृष्ट्वा सुद्युम्नस्य कृपान्वितः ।
अतोषयन्महादेवं शङ्करं लोकशङ्करम्
॥३१॥तस्मै स भगवांस्तुष्टः प्रददौ वाञ्छितं वरम् ।
वसिष्ठः प्रार्थयामास पुंस्त्वं राज्ञः प्रियस्य च
॥३२॥शङ्करस्तु निजां वाचमृतां कुर्वन्नुवाच ह ।
मासं पुमांस्तु भविता मासं स्त्री भूपतिः किल
॥३३॥इत्थं प्राप्य वरं राजा जगाम स्वगृहं पुनः ।
चक्रे राज्यं स धर्मात्मा वसिष्ठस्याप्यनुग्रहात्
॥३४॥स्त्रीत्वे तिष्ठति हर्म्येषु पुंस्त्वे राज्यं प्रशास्ति च ।
प्रजास्तस्मिन्समुद्विग्ना नाभ्यनन्दन्महीपतिम्
॥३५॥काले तु यौवनं प्राप्तः पुत्रः पुरूरवास्तदा ।
प्रतिष्ठां नृपतिस्तस्मै दत्त्वा राज्यं वनं ययौ
॥३६॥गत्वा तस्मिन्वने रम्ये नानाद्रुमसमाकुले ।
नारदान्मन्त्रमासाद्य नवाक्षरमनुत्तमम्
॥३७॥जजाप मन्त्रमत्यर्थं प्रेमपूरितमानसः ।
परितुष्टा तदा देवी सगुणा तारिणी शिवा
॥३८॥सिंहारूढा स्थिता चाग्रे दिव्यरूपा मनोरमा ।
वारुणीपानसम्मत्ता मदाघूर्णितलोचना
॥३९॥दृष्ट्वा तां दिव्यरूपां च प्रेमाकुलितलोचनः ।
प्रणम्य शिरसा प्रीत्या तुष्टाव जगदम्बिकाम्
॥४०॥इलोवाच
दिव्यं च ते भगवति प्रथितं स्वरूपं दृष्टं मया सकललोकहितानुरूपम् ।
वन्दे त्वदंघ्रिकमलं सुरसङ्घसेव्यं कामप्रदं जननि चापि विमुक्तिदं च
॥४१॥को वेत्ति तेऽम्ब भुवि मर्त्यतनुर्निकामं मुह्यन्ति यत्र मुनयश्च सुराश्च सर्वे ।
ऐश्वर्यमेतदखिलं कृपणे दयां च दृष्ट्वैव देवि सकलं किल विस्मयो मे
॥४२॥शम्भुर्हरिः कमलजो मघवा रविश्च वित्तेशवह्निवरुणाः पवनश्च सोमः ।
जानन्ति नैव वसवोऽपि हि ते प्रभावं बुध्येत्कथं तव गुणानगुणो मनुष्यः
॥४३॥जानाति विष्णुरमितद्युतिरम्ब साक्षा- त्त्वां सात्त्विकीमुदधिजां सकलार्थदां च ।
को राजसीं हर उमां किल तामसीं त्वां वेदाम्बिके न तु पुनः खलु निर्गुणां त्वाम्
॥४४॥क्वाहं सुमन्दमतिरप्रतिमप्रभावः क्वायं तवातिनिपुणो मयि सुप्रसादः ।
जाने भवानि चरितं करुणासमेतं यत्सेवकांश्च दयसे त्वयि भावयुक्तान्
॥४५॥वृत्तस्त्वया हरिरसौ वनजेशयापि नैवाचरत्यपि मुदं मधुसूदनश्च ।
पादौ तवादिपुरुषः किल पावकेन कृत्वा करोति च करेण शुभौ पवित्रौ
॥४६॥वाञ्छत्यहो हरिरशोक इवातिकामं पादाहतिं प्रमुदितः पुरुषः पुराणः ।
तां त्वं करोषि रुषिता प्रणतं च पादे दृष्ट्वा पतिं सकलदेवनुतं स्मरार्तम्
॥४७॥वक्षःस्थले वससि देवि सदैव तस्य पर्यङ्कवत्सुचरिते विपुलेऽतिशान्ते ।
सौदामिनीव सुघने सुविभूषिते च किं ते न वाहनमसौ जगदीश्वरोऽपि
॥४८॥त्वं चेज्जहासि मधुसूदनमम्ब कोपा- न्नैवार्चितोऽपि स भवेत्किल शक्तिहीनः ।
प्रत्यक्षमेव पुरुषं स्वजनास्त्वजन्ति शान्तं श्रियोज्झितमतीव गुणैर्वियुक्तम्
॥४९॥ब्रह्मादयः सुरगणा न तु किं युवत्यो ये त्वत्पदाम्बुजमहर्निशमाश्रयन्ति ।
मन्ये त्वयैव विहिताः खलु ते पुमांसः किं वर्णयामि तव शक्तिमनन्तवीर्ये
॥५०॥त्वं नापुमान्न च पुमानिति मे विकल्पो याकासि देवि सगुणा ननु निर्गुणा वा ।
तां त्वां नमामि सततं किल भावयुक्तो वाञ्छामि भक्तिमचलां त्वयि मातरं तु
॥५१॥सूत उवाच
इति स्तुत्वा महीपालो जगाम शरणं तदा ।
परितुष्टा ददौ देवी तत्र सायुज्यमात्मनि
॥५२॥सुद्युम्नस्तु ततः प्राप पदं परमकं स्थिरम् ।
तस्या देव्याः प्रसादेन मुनीनामपि दुर्लभम्
॥५३॥इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां ॥ प्रथमस्कन्धे सुद्युम्नस्तुतिर्नाम द्वादशोऽध्यायः ॥ १२ ॥