मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय ५

3
प्रथमस्कन्धः · 5

हयग्रीवावतारकथनम्

ऋषय ऊचुः

सूतास्माकं मनः कामं मग्नं संशयसागरे ।

यथोक्तं महदाश्चर्यं जगद्विस्मयकारकम्

॥१॥

यन्मूर्धा माधवस्यापि गतो देहात्पुनः परम् ।

हयग्रीवस्ततो जातः सर्वकर्ता जनार्दनः

॥२॥

वेदोऽपि स्तौति यं देवं देवाः सर्वे यदाश्रयाः ।

आदिदेवो जगन्नाथः सर्वकारणकारणः

॥३॥

तस्यापि वदनं छिन्नं दैवयोगात्कथं तदा ।

तत्सर्वं कथयाशु त्वं विस्तरेण महामते

॥४॥

सूत उवाच

शृण्वन्तु मुनयः सर्वे सावधानाः समन्ततः ।

चरितं देवदेवस्य विष्णोः परमतेजसः

॥५॥

कदाचिद्दारुणं युद्धं कृत्वा देवः सनातनः ।

दशवर्षसहस्राणि परिश्रान्तो जनार्दनः

॥६॥

समे देशे शुभे स्थाने कृत्वा पद्मासनं विभुः ।

अवलम्ब्य धनुः सज्यं कण्ठदेशे धरास्थितम्

॥७॥

दत्त्वा भारं धनुष्कोट्यां निद्रामाप रमापतिः ।

श्रान्तत्वाद्दैवयोगाच्च जातस्तत्रातिनिद्रितः

॥८॥

तदा कालेन कियता देवाः सर्वे सवासवाः ।

ब्रह्मेशसहिताः सर्वे यज्ञं कर्तुं समुद्यताः

॥९॥

गताः सर्वेऽथ वैकुण्ठं द्रष्टुं देवं जनार्दनम् ।

देवकार्यार्थसिद्ध्यर्थं मखानामधिपं प्रभुम्

॥१०॥

अदृष्ट्वा तं तदा तत्र ज्ञानदृष्ट्या विलोक्य ते ।

यत्रास्ते भगवान् विष्णुर्जग्मुस्तत्र तदा सुराः

॥११॥

ददृशुस्ते तदेशानं योगनिद्रावशं गतम् ।

विचेतनं विभुं विष्णुं तत्रासांचक्रिरे सुराः

॥१२॥

स्थितेषु सर्वदेवेषु निद्रासुप्ते जगत्पतौ ।

चिन्तामापुः सुराः सर्वे ब्रह्मरुद्रपुरोगमाः

॥१३॥

तानुवाच ततः शक्रः किं कर्तव्यं सुरोत्तमाः ।

निद्राभङ्गः कथं कार्यश्चिन्तयन्तु सुरोत्तमाः

॥१४॥

तमुवाच तदा शम्भुर्निद्राभङ्गेऽस्ति दूषणम् ।

कार्यं चैव प्रकर्तव्यं यज्ञस्य सुरसत्तमाः

॥१५॥

उत्पादिता तदा वम्री ब्रह्मणा परमेष्ठिना ।

तया भक्षयितुं तत्र धनुषोऽग्रं धरास्थितम्

॥१६॥

भक्षितेऽग्रे तदा निम्नं गमिष्यति शरासनम् ।

तदा निद्राविमुक्तोऽसौ देवदेवो भविष्यति

॥१७॥

देवकार्यं तदा सर्वं भविष्यति न संशयः ।

स वम्रीं संदिदेशाथ देवदेवः सनातनः

॥१८॥

तमुवाच तदा वम्री देवदेवस्य मापतेः ।

निद्राभङ्गः कथं कार्यो देवस्य जगतां गुरोः

॥१९॥

निद्राभङ्गः कथाच्छेदो दम्पत्योः प्रीतिभेदनम् ।

शिशुमातृविभेदश्च ब्रह्महत्यासमं स्मृतम्

॥२०॥

तत्कथं देवदेवस्य करोमि सुखनाशनम् ।

किं फलं भक्षणाद्देव येन पापं करोम्यहम्

॥२१॥

सर्वः स्वार्थवशो लोकः कुरुते पातकं किल ।

तस्मादहं करिष्यामि स्वार्थमेव प्रभक्षणम्

॥२२॥

ब्रह्मोवाच

तव भागं करिष्यामो मखमध्ये यथा शृणु ।

तेन त्वं कुरु कार्यं नो विष्णुं बोधय माचिरम्

॥२३॥

होमकर्मणि पार्श्वे च हविर्दानात्पतिष्यति ।

तत्ते भागं विजानीहि कुरु कार्यं त्वरान्विता

॥२४॥

सूत उवाच

इत्युक्ता ब्रह्मणा वम्री धनुषोऽग्रं त्वरान्विता ।

चखाद संस्थितं भूमौ विमुक्ता ज्या तदाभवत्

॥२५॥

प्रत्यञ्जायां विमुक्तायां मुक्ता कोटिस्तथोत्तरा ।

शब्दः समभवद्घोरस्तेन त्रस्ताः सुरास्तदा

॥२६॥

ब्रह्माण्डं क्षुभितं सर्वं वसुधा कम्पिता तदा ।

समुद्राश्च समुद्विग्नास्त्रेसुश्च जलजन्तवः

॥२७॥

ववुर्वातास्तथा चोग्राः पर्वताश्च चकम्पिरे ।

उल्कापाता महोत्पाता बभूवुर्दुःखशंसिनः

॥२८॥

दिशो घोरतराश्चासन्सूर्योऽप्यस्तंगतोऽभवत् ।

चिन्तामापुः सुराः सर्वे किं भविष्यति दुर्दिने

॥२९॥

एवं चिन्तयतां तेषां मूर्धा विष्णोः सकुण्डलः ।

गतः समुकुटः क्वापि देवदेवस्य तापसाः

॥३०॥

अन्धकारे तदा घोरे शान्ते ब्रह्महरौ तदा ।

शिरोहीनं शरीरं तु ददृशाते विलक्षणम्

॥३१॥

दृष्ट्वा कबन्धं विष्णोस्ते विस्मिताः सुरसत्तमाः ।

चिन्तासागरमग्नाश्च रुरुदुः शोककर्शिताः

॥३२॥

हा नाथ किं प्रभो जातमत्यद्भुतममानुषम् ।

वैशसं सर्वदेवानां देवदेव सनातन

॥३३॥

मायेयं कस्य देवस्य यया तेऽद्य शिरो हृतम् ।

अच्छेद्यस्त्वमभेद्योऽसि अप्रदाह्योऽसि सर्वदा

॥३४॥

एवं गते त्वयि विभो मरिष्यन्ति च देवताः ।

कीदृशस्त्वयि नः स्नेहः स्वार्थेनैव रुदामहे

॥३५॥

नायं विघ्नः कृतो दैत्यैर्न यक्षैर्न च राक्षसैः ।

देवैरेव कृतः कस्य दूषणं च रमापते

॥३६॥

पराधीनाः सुराः सर्वे किं कुर्मः क्व व्रजाम च ।

शरणं नैव देवेश सुराणां मूढचेतसाम्

॥३७॥

न चैषा सात्त्विकी माया राजसी न च तामसी ।

यया छिन्नं शिरस्तेऽद्य मायेशस्य जगद्गुरोः

॥३८॥

क्रन्दमानांस्तदा दृष्ट्वा देवाञ्छिवपुरोगमान् ।

बृहस्पतिस्तदोवाच शमयन्वेदवित्तमः

॥३९॥

रुदितेन महाभागाः क्रन्दितेन तथापि किम् ।

उपायश्चात्र कर्तव्यः सर्वथा बुद्धिगोचरः

॥४०॥

दैवं पुरुषकारश्च देवेश सदृशावुभौ ।

उपायश्च विधातव्यो दैवात्फलति सर्वथा

॥४१॥

इन्द्र उवाच

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।

विष्णोरपि शिरश्छिन्नं सुराणां चैव पश्यताम्

॥४२॥

ब्रह्मोवाच

अवश्यमेव भोक्तव्यं कालेनापादितं च यत् ।

शुभं वाप्यशुभं वापि दैवं कोऽतिक्रमेत्पुनः

॥४३॥

देहवान्सुखदुःखानां भोक्ता नैवात्र संशयः ।

यथा कालवशात्कृत्तं शिरो मे शम्भुना पुरा

॥४४॥

तथैव लिङ्गपातश्च महादेवस्य शापतः ।

तथैवाद्य हरेर्मूर्धा पतितो लवणाम्भसि

॥४५॥

सहस्रभगसंप्राप्तिर्दुःखं चैव शचीपतेः ।

स्वर्गाद्भ्रंशस्तथा वासः कमले मानसे सरे

॥४६॥

एते दुःखस्य भोक्तारः केन दुःखं न भुज्यते ।

संसारेऽस्मिन्महाभागास्तस्माच्छोकं त्यजन्तु वै

॥४७॥

चिन्तयन्तु महामायां विद्यादेवीं सनातनीम् ।

सा विधास्यति नः कार्यं निर्गुणा प्रकृतिः परा

॥४८॥

ब्रह्मविद्यां जगद्धात्रीं सर्वेषां जननीं तथा ।

यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्

॥४९॥

सूत उवाच

इत्युक्त्वा वै सुरान्वेधा निगमानादिदेश ह ।

देहयुक्तान्स्थितानग्रे सुरकार्यार्थसिद्धये

॥५०॥

ब्रह्मोवाच

स्तुवन्तु परमां देवीं ब्रह्मविद्यां सनातनीम् ।

गूढाङ्गीं च महामायां सर्वकार्यार्थसाधनीम्

॥५१॥

तच्छ्रुत्वा वचनं तस्य वेदाः सर्वाङ्गसुन्दराः ।

तुष्टुवुर्ज्ञानगम्यां तां महामायां जगत्स्थिताम्

॥५२॥

वेदा ऊचुः

नमो देवि महामाये विश्वोत्पत्तिकरे शिवे ।

निर्गुणे सर्वभूतेशि मातः शङ्करकामदे

॥५३॥

त्वं भूमिः सर्वभूतानां प्राणाः प्राणवतां तथा ।

धीः श्रीः कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः

॥५४॥

त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा ।

जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया

॥५५॥

त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान- दक्षां दयारसयुतां जननीं जनानाम् ।

विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्त्रीम्

॥५६॥

ब्रह्मा हरः शौरिसहस्रनेत्र- वाग्वह्निसूर्या भुवनाधिनाथाः ।

ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम्

॥५७॥

सकलभुवनमेतत्कर्तुकामा यदा त्वं सृजसि जननि देवान्विष्णुरुद्राजमुख्यान् ।

स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथंचिद्देवि संसारलेशः

॥५८॥

न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां संख्यां ते कथितुमिह योग्योऽस्ति पुरुषः ।

यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः

॥५९॥

न देवानां मध्ये भगवति तवानन्तविभवं विजानात्येकोऽपि त्वमिह भुवनैकासि जननी ।

कथं मिथ्या विश्वं सकलमपि चैका रचयसि प्रमाणं त्वेतस्मिन्निगमवचनं देवि विहितम्

॥६०॥

निरीहैवासि त्वं निखिलजगतां कारणमहो चरित्रं ते चित्रं भगवति मनो नो व्यथयति ।

कथंकारं वाच्यः सकलनिगमागोचरगुण- प्रभावः स्वं यस्मात्स्वयमपि न जानासि परमम्

॥६१॥

न किं जानासि त्वं जननि मधुजिन्मौलिपतनं ।

शिवे किं वा ज्ञात्वा विविदिषसि शक्तिं मधुजितः ।

हरेः किं वा मातर्दुरितततिरेषा बलवती ।

भवत्याः पादाब्जे भजननिपुणे क्वास्ति दुरितम्

॥६२॥

उपेक्षा किं चेयं तव सुरसमूहेऽतिविषमा ।

हरेर्मूर्ध्नो नाशो मतमिह महाश्चर्यजनकम् ।

महद्दुःखं मातस्त्वमसि जननच्छेदकुशला ।

न जानीमो मौलेर्विघटनविलम्बः कथमभूत्

॥६३॥

ज्ञात्वा दोषं सकलसुरतापादितं देवि चित्ते किं वा विष्णावमरजनितं दुष्कृतं पातितं ते ।

विष्णोर्वा किं समरजनितः कोऽपि गर्वोऽतिवेगा- च्छेत्तुं मातस्तव विलसितं नैव विद्मोऽत्र भावम्

॥६४॥

किं वा दैत्यैः समरविजितैस्तीर्थदेशे सुरम्ये घोरं तप्त्वा भगवति वरं लब्धवद्भिर्भवत्याः ।

अन्तर्धानं गमितमधुना विष्णुशीर्षं भवानि द्रष्टुं किं वा विगतशिरसं वासुदेवं विनोदः

॥६५॥

सिन्धोः पुत्र्यां रोषिता किं त्वमाद्ये कस्मादेनां प्रेक्षसे नाथहीनाम् ।

क्षन्तव्यस्ते स्वांशजातापराधो व्युत्थाप्यैनं मोदिता मां कुरुष्व

॥६६॥

एते सुरास्त्वां सततं नमन्ति कार्येषु मुख्याः प्रथितप्रभावाः ।

शोकार्णवात्तारय देवि देवा- नुत्थाप्य देवं सकलाधिनाथम्

॥६७॥

मूर्धा गतः क्वाम्ब हरेर्न विद्मो नान्योऽस्त्युपायः खलु जीवनेऽद्य ।

यथा सुधा जीवनकर्मदक्षा तथा जगज्जीवितदासि देवि

॥६८॥

सूत उवाच

एवं स्तुता तदा देवी गुणातीता महेश्वरी ।

प्रसन्ना परमा माया वेदैः साङ्गैश्च सामगैः

॥६९॥

तानुवाच तदा वाणी चाकाशस्थाशरीरिणी ।

देवान्प्रति सुखैः शब्दैर्जनानन्दकरी शुभा

॥७०॥

मा कुरुध्वं सुराश्चिन्तां स्वस्थास्तिष्ठन्तु चामराः ।

स्तुताहं निगमैः कामं सन्तुष्टास्मि न संशयः

॥७१॥

यः पुमान्मानुषे लोके स्तौत्येतां मामकीं स्तुतिम् ।

पतिष्यति सदा भक्त्या सर्वान्कामानवाप्नुयात्

॥७२॥

शृणोति वा स्तोत्रमिदं मदीयं भक्त्या त्रिकालं सततं नरो यः ।

विमुक्तदुःखः स भवेत्सुखी च वेदोक्तमेतन्ननु वेदतुल्यम्

॥७३॥

शृण्वन्तु कारणं चाद्य यद्गतं वदनं हरेः ।

अकारणं कथं कार्यं संसारेऽत्र भविष्यति

॥७४॥

उदधेस्तनयां विष्णुः संस्थितामन्तिके प्रियाम् ।

जहास वदनं वीक्ष्य तस्यास्तत्र मनोरमम्

॥७५॥

तया ज्ञातं हरिर्नूनं कथं मां हसति प्रभुः ।

विरूपं हरिणा दृष्टं मुखं मे केन हेतुना

॥७६॥

विनापि कारणेनाद्य कथं हास्यस्य सम्भवः ।

सपत्नीव कृता तेन मन्येऽन्या वरवर्णिनी

॥७७॥

ततः कोपयुता जाता महालक्ष्मी तमोगुणा ।

तामसी तु तदा शक्तिस्तस्या देहे समाविशत्

॥७८॥

केनचित्कालयोगेन देवकार्यार्थसिद्धये ।

प्रविष्टा तामसी शक्तिस्तस्या देहेऽतिदारुणा

॥७९॥

तामस्याविष्टदेहा सा चुकोपातिशयं तदा ।

शनकैः समुवाचेदमिदं पततु ते शिरः

॥८०॥

स्त्रीस्वभावाच्च भावित्वात्कालयोगाद्विनिर्गतः ।

अविचार्य तदा दत्तः शापः स्वसुखनाशनः

॥८१॥

सपत्नीसम्भवं दुःखं वैधव्यादधिकं त्विति ।

विचिन्त्य मनसेत्युक्तं तामसीशक्तियोगतः

॥८२॥

अनृतं साहसं माया मूर्खत्वमतिलोभता ।

अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः

॥८३॥

सशीर्षं वासुदेवं तं करोम्यद्य यथा पुरा ।

शिरोऽस्य शापयोगेन निमग्नं लवणाम्बुधौ

॥८४॥

अन्यच्च कारणं किञ्चिद्वर्तते सुरसत्तमाः ।

भवतां च महत्कार्यं भविष्यति न संशयः

॥८५॥

पुरा दैत्यो महाबाहुर्हयग्रीवोऽतिविश्रुतः ।

तपश्चक्रे सरस्वत्यास्तीरे परमदारुणम्

॥८६॥

जपन्नेकाक्षरं मन्त्रं मायाबीजात्मकं मम ।

निराहारो जितात्मा च सर्वभोगविवर्जितः

॥८७॥

ध्यायन्मां तामसीं शक्तिं सर्वभूषणभूषिताम् ।

एवं वर्षसहस्रं च तपश्चक्रेऽतिदारुणम्

॥८८॥

तदाहं तामसं रूपं कृत्वा तत्र समागता ।

दर्शने पुरतस्तस्य ध्यातं तत्तेन यादृशम्

॥८९॥

सिंहोपरि स्थिता तत्र तमवोचं दयान्विता ।

वरं ब्रूहि महाभाग ददामि तव सुव्रत

॥९०॥

इति श्रुत्वा वचो देव्या दानवः प्रेमपूरितः ।

प्रदक्षिणां प्रणामं च चकार त्वरितस्तदा

॥९१॥

दृष्ट्वा रूपं मदीयं स प्रेमोस्फुल्लविलोचनः ।

हर्षाश्रुपूर्णनयनस्तुष्टाव स च मां तदा

॥९२॥

हयग्रीव उवाच

नमो देव्यै महामाये सृष्टिस्थित्यन्तकारिणि ।

भक्तानुग्रहचतुरे कामदे मोक्षदे शिवे

॥९३॥

धराम्बुतेजःपवनखपञ्चानां च कारणम् ।

त्वं गन्धरसरूपाणां कारणं स्पर्शशब्दयोः

॥९४॥

घ्राणं च रसना चक्षुस्त्वक्श्रोत्रमिन्द्रियाणि च ।

कर्मेन्द्रियाणि चान्यानि त्वत्तः सर्वं महेश्वरि

॥९५॥

देव्युवाच

किं तेऽभीष्टं वरं ब्रूहि वाञ्छितं यद्ददामि तत् ।

परितुष्टास्मि भक्त्या ते तपसा चाद्भुतेन च

॥९६॥

हयग्रीव उवाच

यथा मे मरणं मातर्न भवेत्तत्तथा कुरु ।

भवेयममरो योगी तथाजेयः सुरासुरैः

॥९७॥

देव्युवाच

जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।

मर्यादा चेदृशी लोके भवेच्च कथमन्यथा

॥९८॥

एवं त्वं निश्चयं कृत्वा मरणे राक्षसोत्तम ।

वरं वरय चेष्टं ते विचार्य मनसा किल

॥९९॥

हयग्रीव उवाच

हयग्रीवाच्च मे मृत्युर्नान्यस्माज्जगदम्बिके ।

इति मे वाञ्छितं कामं पूरयस्व मनोगतम्

॥१००॥

देव्युवाच

गृहं गच्छ महाभाग कुरु राज्यं यथासुखम् ।

हयग्रीवादृते मृत्युर्न ते नूनं भविष्यति

॥१०१॥

इति दत्त्वा वरं तस्मा अन्तर्धानं गता तथा ।

मुदं परमिकां प्राप्य सोऽपि स्वभवनं गतः

॥१०२॥

स पीडयति दुष्टात्मा मुनीन् वेदांश्च सर्वशः ।

न कोऽपि विद्यते तस्य हन्ताद्य भुवनत्रये

॥१०३॥

तस्माच्छीर्षं हयस्यास्य समुद्धृत्य मनोहरम् ।

देहेऽत्र विशिरोविष्णोस्त्वष्टा संयोजयिष्यति

॥१०४॥

हयग्रीवोऽथ भगवान्हनिष्यति तमासुरम् ।

पापिष्ठं दानवं क्रूरं देवानां हितकाम्यया

॥१०५॥

सूत उवाच

एवं सुरांस्तदाभाष्य शर्वाणी विरराम ह ।

देवास्तदातिसन्तुष्टास्तमूचुर्देवशिल्पिनम्

॥१०६॥

देवा ऊचुः

कुरु कार्यं सुराणां वै विष्णोः शीर्षाभियोजनम् ।

दानवप्रवरं दैत्यं हयग्रीवो हनिष्यति

॥१०७॥

सूत उवाच

इति श्रुत्वा वचस्तेषां त्वष्टा चातित्वरान्वितः ।

वाजिशीर्षं चकर्ताशु खड्गेन सुरसन्निधौ

॥१०८॥

विष्णोः शरीरे तेनाशु योजितं वाजिमस्तकम् ।

हयग्रीवो हरिर्जातो महामायाप्रसादतः

॥१०९॥

कियता तेन कालेन दानवो मददर्पितः ।

निहतस्तरसा संख्ये देवानां रिपुरोजसा

॥११०॥

य इदं शुभमाख्यानं शृण्वन्ति भुवि मानवाः ।

सर्वदुःखविनिर्मुक्तास्ते भवन्ति न संशयः

॥१११॥

महामायाचरित्रञ्च पवित्रं पापनाशनम् ।

पठतां शृण्वतां चैव सर्वसम्पत्तिकारकम्

॥११२॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे हयग्रीवावतारकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥