मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — प्रथमस्कन्धः, अध्याय १०

3
प्रथमस्कन्धः · 10

शिववरदानवर्णनम्

ऋषय ऊचुः

सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा ।

कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम्

॥१॥

व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः ।

विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया

॥२॥

सूत उवाच

प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् ।

यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः

॥३॥

मेरुशृङ्गे महारम्ये व्यासः सत्यवतीसुतः ।

तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः

॥४॥

जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् ।

ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः

॥५॥

अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् ।

वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह

॥६॥

अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः ।

आराधयन्महादेवं तथैव च सदाशिवाम्

॥७॥

शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः ।

अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते

॥८॥

यत्र पर्वतशृङ्गे वै कर्णिकारवनाद्भुते ।

क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः

॥९॥

आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा ।

वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः

॥१०॥

तत्र हेमगिरेः शृङ्गे संगीतध्वनिनादिते ।

तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः

॥११॥

ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् ।

अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः

॥१२॥

ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः ।

तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम्

॥१३॥

उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् ।

शङ्कर उवाच ।

कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर

॥१४॥

अमर्षो नैव कर्तव्यस्तापसेषु कदाचन ।

तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम्

॥१५॥

न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि ।

इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम्

॥१६॥

कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः ।

शिव उवाच ।

पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम्

॥१७॥

पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् ।

सूत उवाच ।

इत्युक्त्या वासवं रुद्रो दयया मुदिताननः

॥१८॥

गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः ।

उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः

॥१९॥

सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ ।

अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा

॥२०॥

भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः ।

सूत उवाच ।

तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा

॥२१॥

शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः ।

स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः

॥२२॥

अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया ।

मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा

॥२३॥

प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः ।

मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः

॥२४॥

पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः ।

पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते

॥२५॥

तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता ।

कथं करोमि कान्तां च पादयोः शृङ्खलासमाम्

॥२६॥

पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् ।

पतिव्रतापि दक्षापि रूपवत्यपि कामिनी

॥२७॥

सदा बन्धनरूपा च स्वेच्छासुखविधायिनी ।

शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः

॥२८॥

कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् ।

एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी

॥२९॥

प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता ।

तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम्

॥३०॥

पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः ।

चिन्तयामास च तदा किं करोम्यद्य संकटे

॥३१॥

धर्मस्य पुरतः प्राप्ते कामभावे दुरासदे ।

अङ्गीकरोमि यद्येनां वञ्चनार्थमिहागताम्

॥३२॥

हसिष्यन्ति महात्मानस्तापसा मां तु विह्वलम् ।

तपस्तप्त्वा महाघोरं पूर्णवर्षशतं त्विह

॥३३॥

दृष्ट्वाप्सरां च विवशः कथं जातो महातपाः ।

कामं निन्दापि भवतु यदि स्यादतुलं सुखम्

॥३४॥

गृहस्थाश्रमसम्भूतं सुखदं पुत्रकामदम् ।

स्वर्गदं च तथा प्रोक्तं ज्ञानिनां मोक्षदं तथा

॥३५॥

न भविष्यति तन्नूमनया देवकन्यया ।

नारदाच्च मया पूर्वं श्रुतमस्ति कथानकम् ।

यथोर्वशीवशो राजा पराभूतः पुरूरवाः

॥३६॥

इति श्रीमद्देवीभागवते महायुराणेऽष्टादशसाहस्र्यां संहितायां प्रथमस्कन्धे शिववरदानवर्णनं नाम दशमोऽध्यायः ॥ १० ॥