मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — माहात्म्यम्, अध्याय ५

3
माहात्म्यम् · 5

वणविधिवर्णनम्

ऋषय ऊचुः

सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् ।

अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम्

॥१॥

सूत उवाच

श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् ।

नराणां शृण्वतां येन सिद्धिः स्यात्सार्वकामिकी

॥२॥

आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः ।

आरभ्य शुचिमासं तु मासषट्कं शुभावहम्

॥३॥

हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे ।

सत्तिथौ शुभवारे च पुराणश्रवणं शुभम्

॥४॥

गुरुभाद्वेद४वेदा४ब्ज१शरां५गा६ब्धि४गुणैः४क्रमात् ।

धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम्

॥५॥

पीडाऽथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् ।

पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम्

॥६॥

अथवा प्रीतये देव्या नवरात्रचतुष्टये ।

शृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते

॥७॥

संभारं तादृशं कार्यं विवाहादौ च यादृशम् ।

नवाह्यज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः

॥८॥

सहाया बहवः कार्या दम्भलोभविवर्जिताः ।

चतुराश्च वदान्याश्च देवीभक्तिपरा नराः

॥९॥

प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने ।

आगन्तव्यमिहावश्यं कथा देव्या भविष्यति

॥१०॥

सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः ।

सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः

॥११॥

श्रीमद्देवीभागवतपीयूषरसलोलुपैः ।

आगंतव्यं विशेषेण कथार्थं प्रेमतत्परैः

॥१२॥

ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा ।

सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम्

॥१३॥

नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः ।

आगंतव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः

॥१४॥

विनयेनैव कर्त्तव्यमेवमाकारणं नृणाम् ।

आगतानां च कर्त्तव्यं वासस्थानं यथोचितम् १५ ।

कथास्थानं प्रकर्त्तव्यं भूमौ मार्जनपूर्वकम् ।

लेपनं गोमयेनाथ विशालायां मनोरमम्

॥१६॥

कार्यस्तु मण्डपो रम्यो रंभास्तंभोपशोभितः ।

वितानमुपरिष्ठात्तु पताकाध्वज राजितः

॥१७॥

वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् ।

रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम्

॥१८॥

यथोचितानि कुर्वीत श्रोतॄणामासनानि च ।

नृणां चैवाथ नारीणां कथाश्रवणहेतवे

॥१९॥

वाग्मी दांतश्च शास्त्रज्ञो देव्याराधनतत्परः ।

दयालुनिस्पृहो दक्षो धीरो वक्तोत्तमो मतः

॥२०॥

ब्रह्मण्यो देवताभक्तः कथारसपरायणः ।

उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः

॥२१॥

पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा ।

निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते

॥२२॥

संशयच्छेदनायैक: पण्डितश्च तथागुणः ।

श्रोतृबोधकृदव्यग्रः कार्य्यो वक्तुः सहायकृत्

॥२३॥

मुहूर्तं दिवसादर्वाग्वक्तृश्रोतादिभिर्जनैः ।

कर्त्तव्यं क्षौरकर्मादि ततो नियमकल्पनम्

॥२४॥

अरुणोदयवेलायां स्नायाच्छौचं विधाय च ।

संध्या तर्पणकार्यं च नित्यं संक्षेपतश्चरेत्

॥२५॥

कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् ।

समस्तविघ्नहर्तारमादौ गणपतिं यजेत्

॥२६॥

कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् ।

वटुकं क्षेत्रपालं च योगिनीर्मातृकास्तथा

॥२७॥

तुलसीं चापि संपूज्य ग्रहान्विष्णुं च शंकरम् ।

नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम्

॥२८॥

सर्वोपचारैः संपूज्य श्रीभागवतपुस्तकम् ।

श्रीदेव्या वाङ्मयीं मूर्तिं यथावच्छोभनाक्षरम् २९ ।

कथाविघ्नोपशांत्यर्थं वृणुयात्तं च वाडवान् ।

जाप्यो नवार्णमंत्रस्तैः पाठ्यः सप्तशतीस्तवः ३० ।

प्रदक्षिणनमस्कारान्कृत्वांते स्तुतिमाचरेत् ।

कात्यायनि महामाये भवानि भुवनेश्वरि

॥३१॥

संसारसागरे मग्नं मामुद्धर कृपामये ।

ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदंबिके

॥३२॥

मनोभिलषितं देवि वरं देहि नमोऽस्तु ते ।

इति संप्रार्थ्य शृणुयात्कथां नियतमानसः

॥३३॥

वक्तारं चापि संपूज्य व्यासबुद्ध्या तदात्मवान् ।

माल्यालंकारवस्त्राद्यैः संभूष्य' प्रार्थयेच्च तम्

॥३४॥

सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते ।

कथाचंद्रोदयेनांतस्तमःस्तोमं निराकुरु ।

३५ तदग्रे तु नवाहान्तं कर्त्तव्या नियमास्तदा ।

विप्रादीनुपवेश्यादौ संपूज्योपविशेत्स्वयम्

॥३६॥

श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये ।

गृहपुत्रकलत्राप्तघनचिन्तामपास्य च

॥३७॥

सूर्योदयं समारभ्य किंचित्सूर्येऽवशेषिते ।

मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः

॥३८॥

मलमूत्रजयायैषां लघु भोजनमिष्यते ।

हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना

॥३९॥

अथवा स्यात्फलाहारी पयोभुग्वा घृताशनः ।

यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः ४० ।

कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः ।

ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः

॥४१॥

देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः ।

विप्रद्रुहो नास्तिका ये न ते योग्याः कथाश्रवे

॥४२॥

ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च ।

देवस्वहरणे तेषां नाधिकारः कथाश्रवे

॥४३॥

ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः ।

कथासमाप्तौ भुंजीत पत्रावल्यां यतात्मवान् ४४ ।

वृंतांकं च कलिन्दं च तैलं च द्विदलं मधु ।

दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद्व्रती

॥४५॥

आमिषं च मसूरान्नमुदक्या दृष्टमेव च ।

रसोनं मूलकं हिंगुं पलांडुं गृञ्जनं तथा

॥४६॥

कूष्मांडनलिकाशाकं न भुंजीत कथाव्रती ।

कामं क्रोधं मदं लोभं दंभं मानं च वर्जयेत्

॥४७॥

विप्रध्रुक्पतितव्रात्यश्वपाकयवनांत्यजैः ।

उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती

॥४८॥

वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा ।

देवानां देवभक्तानां न निंदां शृणुयादपि

॥४९॥

विनयं चार्जवं शौचं दयां च मितभाषणम् ।

उदारं मानसं चैव कुर्याद्यस्तु कथाव्रती

॥५०॥

वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका ।

दरिद्रश्चानपत्यश्च भक्त्येमां शृणुयात्कथाम्

॥५१॥

वंध्या वा काकवंध्या वा दुर्भगा वा मृतार्भका ।

पतद्गर्भांगना या च ताभिः श्राव्या तथा कथा ५२ ।

धर्मार्थकाममोक्षांश्च यो वांछति विना श्रमम् ।

भगवत्या भागवतं श्रोतव्यं तेन यत्नतः

॥५३॥

कथादिनानि चैतानि नययज्ञैः समानि हि ।

तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत्

॥५४॥

एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् ।

महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः

॥५५॥

निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि ।

भोगमोक्षप्रदा नॄणां यतो भगवती परा

॥५६॥

पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः ।

वक्त्रा दत्तं प्रसादं तु गृह्णाद्भक्तिपूर्वकम्

॥५७॥

कुमारी: पूजयेन्नित्यं भोजयेत्प्रार्थयेच्च यः ।

सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः

॥५८॥

गायत्र्या नामसाहस्रं समाप्तावथ वा पठेत् ।

विष्णोर्नामसहस्रं च सर्वदोषोपशान्तये

॥५९॥

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।

न्यूनं संपूर्णतां याति तस्माद्विष्णुं च कीर्तयेत् ६० ।

देव्याः सप्तशतीमंत्रैः समाप्तौ होममाचरेत् ।

देवीमाहात्म्यमूलेन नवार्णमनुनाऽथवा

॥६१॥

गायत्र्या त्वथवा होमः पायसेन ससर्पिषा ।

यतो भागवतं त्वेतद्गायत्रीमयमीरितम्

॥६२॥

वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः ।

प्रसन्ने वाचके सर्वाः प्रसन्ना तस्य देवताः

॥६३॥

ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् ! पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम्

॥६४॥

सुवासिनी: कुमारीश्च देवीभक्तया च भोजयेत् ।

ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः

॥६५॥

दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः ।

हयानिभान्मेदिनीं च तस्य स्यादक्षयं फलम्

॥६६॥

देवीभागवतं चैतल्लिखितं शोभनाक्षरम् ।

हेमसिंहासने स्थाप्यं पट्टवस्त्रेण वेष्टितम्

॥६७॥

अष्टम्यां वा नवम्यां च वाचकायार्चिताय च ।

दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ६८ ।

दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा ।

पुराणवेत्ता वैद्यः स्यात्पूज्यो मान्यश्च सर्वदा

॥६९॥

सन्ति लोकस्य बहवो गुरवो गुणजन्मतः ।

सर्वेषामपि तेषां च पुराणज्ञः परो गुरुः

॥७०॥

पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः ।

असमाप्ते प्रसंगे तु नमस्कुर्यान्न कस्यचित्

॥७१॥

पौराणिकीं कथां दिव्यां येऽपि शृण्वंत्यभक्तितः ।

तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम्

॥७२॥

असंपूज्य पुराणं तु ताम्बूलकुसुमादिभिः ।

ये शृण्वंति कथां देव्यास्ते दरिद्रा भवंति हि ७३ ।

कीर्त्यमानां कथां त्यक्त्वा ये व्रजंत्यन्यतो नराः ।

भोगान्तरे प्रणश्यंति तेषां दाराश्च सम्पदः

॥७४॥

ये च तुंगासनारूढाः कथां शृण्वंति दांभिकाः ।

ते वायसा भवंत्यत्र भुक्त्वा निरययातनाम्

॥७५॥

` ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः ।

शृण्वंति च कथां दिव्यां ते स्युरर्जुनशाखिनः ७६ ।

कथायां कीर्त्यमानायां ये वदंति दुरुत्तरम् ।

रासभास्ते भवंतीह कृकलासास्ततः परम्

॥७७॥

निंदंति ये पुराणज्ञान्कथां वा पापहारिणीम् ।

ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः

॥७८॥

ये शृण्वंति कथां वक्तुः समानासनसंस्थिताः ।

गुरुतल्पसमं पापं लभंते नरकालयाः

॥७९॥

ये चाप्रणम्य शृण्वंति ते भवन्ति विषद्रुमाः ।

शयाना येऽपि शृण्वंति भवंत्यजगराहयः

॥८०॥

ये कदाचन पौराणीं न शृण्वंति कथां नराः ।

ते घोरं नरकं भुक्त्वा भवन्ति ग्रामसूकराः

॥८१॥

ये कथां नानुमोदंते विघ्नं कुर्वन्ति ये शठाः ।

कोट्यब्दं निरयं भुक्त्वा भवंति ग्रामसूकराः ८२ ।

आसनं भाजनं द्रव्यं फलं वस्त्राणि कम्बलम् ।

पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम्

॥८३॥

पुराणपुस्तकस्यापि ये पट्टवसनं नवम् ।

प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः

॥८४॥

पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् ।

तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत्

॥८५॥

यथा सरित्सु प्रवरा गंगा देवेषु शंकरः ।

काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः

॥८६॥

आह्लादकानां चन्द्रश्च धनानां च यथा यशः ।

क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा

॥८७॥

! मंत्राणां चैव सावित्री पापनाशे हरिस्मृतिः ।

अष्टादशपुराणानां देवीभागवतं तथा

॥८८॥

येन केनाप्युपायेन नवकृत्वः शृणोति चेत् ।

न शक्यं तत्फलं वक्तुं जीवन्मुक्तः स एव ह

॥८९॥

राजशत्रुभये प्राप्ते महामारीभये तथा ।

दुर्भिक्षे राष्ट्रभंगे च तच्छांत्यै शृणुयादिदम्

॥९०॥

भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः ।

पुत्रलाभाय शृणुयाद्देवीभागवतं द्विजाः

॥९१॥

श्रीमद्भागवतं यस्तु पठेद्वा शृणुयादपि ।

श्लोकार्द्धं श्लोकपादं वा संयाति परमां गतिम्

॥९२॥

भगवत्या स्वयं देव्या श्लोकार्द्धेन प्रकाशितम् ।

शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम्

॥९३॥

न गायत्र्याः परो धर्मो न गायत्र्याः परं तपः ।

न गायत्र्याः समो देवो न गायत्र्याः परो मनुः

॥९४॥

गातारं त्रायते यस्माद्गायत्री तेन सोच्यते ।

साऽत्र भागवते देवी सरहस्या प्रतिष्ठिता

॥९५॥

अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च ।

महांत्यपि पुराणानि कलां नार्हंति षोडशीम्

॥९६॥

श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः ।

गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम्

॥९७॥

तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् ।

अतः सदैव संसेव्यं देवीभागवतं द्विजाः

॥९८॥

यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः ।

अंशांशका अपि च ते किमुतान्यदेवास्तस्यै नमोऽस्तु सततं जगदम्बिकायै

॥९९॥

यत्पादपंकजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनं च बिभर्ति विष्णुः ।

रुद्रश्च संहरति नेतरथा समर्थास्तस्यै नमोऽस्तु सततं जगदम्बिकायै

॥१००॥

सुधाकूपारांतस्त्रिदशतरुवाटी विलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे ।

विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षं च लभते

॥१०१॥

ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता।

जगतः श्रेयसे साऽस्तु मणिद्वीपाधिदेवता

॥१०२॥

इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये वणविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

समाप्तमिदं स्कान्दीयं श्रीमद्देवीभागवतमाहात्म्यम् ।