मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — माहात्म्यम्, अध्याय २

3
माहात्म्यम् · 2

वसुदेवो महाभागः कथं पुत्रमवाप्तवान्

ऋषय ऊचुः

वसुदेवो महाभागः कथं पुत्रमवाप्तवान् ।

प्रसेनः कुत्र कृष्णेन भ्रमताऽन्वेषितः कथम्

॥१॥

विधिना केन कस्माच्च देवीभागवतं श्रुतम् ।

वसुदेवेन सुमते वद सूत कथामिमाम्

॥२॥

सूत उवाच

सत्राजिद्भोजवंशीयो द्वारवत्यां सुखं वसन् ।

सूर्यस्याराधने युक्तो भक्तश्च परमः सखा

॥३॥

अथ कालेन कियता प्रसन्नः सविताऽभवत् ।

स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च

॥४॥

तस्मै प्रतीतस्य भगवान्स्यमंतकमणिं ददौ ।

स तं बिभ्रन्मणिं कण्ठे द्वारकामाजगाम ह

॥५॥

दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः ।

कृष्णमूचूः समभ्येत्य सुधर्मायामवस्थितम्

॥६॥

एष आयाति सविता दिदृक्षुस्त्वां जगत्पते ।

श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि

॥७॥

सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् ।

स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता

॥८॥

अथ विप्रान्समाहूय स्वस्तिवाचनपूर्वकम् ।

प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम्

॥९॥

न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् ।

यत्रास्ते स मणिर्नित्यमष्टभार सुवर्णदः

॥१०॥

अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् ।

कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैंधवम्

॥११॥

मृगयार्थं वनं यातस्तमद्राक्षीन्मृगाधिपः ।

प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम्

॥१२॥

जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् ।

हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान्

॥१३॥

स तं मणिं स्वपुत्राय क्रीडनार्थमदात्प्रभुः ।

अथ चिक्रीड बालोऽपि मणिं संप्राप्य भास्वरम्

॥१४॥

प्रसेनेऽनागते चाथ सत्राजित्पर्यतप्यत ।

न जाने केन निहतः प्रसेनो मणिमिच्छता

॥१५॥

अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् ।

कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना

॥१६॥

स तं शुश्राव कृष्णोपि दुर्यशो लिप्तमात्मनि ।

मार्ष्टुं तत्तस्य पदवीं पुरौकोभिः सहागमत्

॥१७॥

गत्वा स विपिनेऽपश्यत्प्रसेनं हरिणा हतम् ।

ययौ मृगेन्द्रमन्विष्यन्नसृग्बिंद्वंकिताध्वना

॥१८॥

अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च ।

उवाच भगवान्वाचं कृपया पुरवासिनः

॥१९॥

तिष्ठध्वं यूयमत्रैव यावदागमनं मम ।

प्रविशामि बिलं त्वेतन्मणिहारकलब्धये

॥२०॥

तथेत्युक्त्वा तु ते तस्थुस्तत्रैव द्वारकौकसः ।

जगामांतर्बिलं कृष्णो यत्र जाम्बवतो गृहम्

॥२१॥

ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा ।

हर्तुमैच्छन्मणिं तावद्धात्री चुक्रोश भीतवत्

॥२२॥

श्रुत्वा धात्रीरवं सद्यः समागत्यर्थक्षराट् तदा ।

युयुधे स्वामिना साकमविश्राममहर्निशम्

॥२३॥

एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः ।

कृष्णागमप्रतीक्षास्ते तस्थुर्द्वारि पुरौकसः

॥२४॥

द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् ।

तत्र ते कथयामासुर्वृत्तांतं सर्वमादितः

॥२५॥

सत्राजितं शपंतस्ते सर्वे शोकाकुला भृशम् ।

वासुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम्

॥२६॥

मुमोह सपरीवारस्तदा परमया शुचा ।

चिन्तयामास बहुधा कथं श्रेयो भवेन्मम

॥२७॥

अथाजगाम भगवान्देवर्षिर्ब्रह्मलोकतः ।

उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत्

॥२८॥

नारदोऽनामयं पृष्ट्वा वासुदेवं महामतिम् ।

प्रपच्छ च यदुश्रेष्ठं किं चितयसि तद्वद

॥२९॥

वसुदेव उवाच

पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु ।

पौरैः साकं वनं गत्वा निहतं तं तदैक्षत

॥३०॥

प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् ।

द्वारि पौरानधिष्ठाय बिलांतर्गतवान्स्वयम्

॥३१॥

बहवो दिवसा याता नायात्यद्यापि मे सुतः ।

अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने

॥३२॥

नारद उवाच

पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयांबिकाम् ।

तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि

॥३३॥

वसुदेव उवाच

भगवन्का हि सा देवी किंप्रभावा महेश्वरी ।

कथमाराधनं तस्या देवर्षे कृपया वद

॥३४॥

नारद उवाच

वसुदेव महाभाग शृणु संक्षेपतो मम ।

देव्या माहात्म्यमतुलं को वक्तुं विस्तरात्क्षमः

॥३५॥

या सा भगवती नित्या सच्चिदानन्दरूपिणी ।

परात्परतरा देवी यया व्याप्तमिदं जगत्

॥३६॥

यदाराधनतो ब्रह्मा सृजतीदं चराचरम् ।

यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद्भयात्

॥३७॥

विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् ।

रुद्रः संहरते यस्याः कृपापांगनिरीक्षणात्

॥३८॥

संतारबंधहेतुर्या सैव मुक्तिप्रदायिनी ।

सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी

॥३९॥

नवरात्रविधानेन सम्पूज्य जगदंबिकाम् ।

नवाहोभिः पुराणं च देव्या भागवतं शृणु

॥४०॥

यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि ।

भुक्तिर्मुक्तिर्न दूरस्था पठतां शृण्वतां नृणाम्

॥४१॥

इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् ।

उवाच परया प्रीत्या नारदं मुनिसत्तमम्

॥४२॥

वसुदेव उवाच

भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः ।

श्रूयतां तच्च वक्ष्यामि देवीमाहात्म्यसंभवम्

॥४३॥

पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः ।

ज्ञात्वात्ममृत्युं पापो मां सभार्यां न्यरुणद्भिया ४४ ।

कारागारेऽहमवसं देवक्या सह भार्यया ।

जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत्

॥४५॥

षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् ।

अतप्यद्देवकी देवी नक्तंदिवमनिन्दिता

॥४६॥

तदाऽहं गर्गमाहूय मुनिं नत्वाऽभिपूज्य च ।

निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया

॥४७॥

भगवन्करुणासिन्धो यादवानां गुरुर्भवान् ।

आयुष्मत्पुत्रसंप्राप्तिसाधनं वद मे मुने

॥४८॥

ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः ।

वसुदेव महाभाग शृणु तत्साधनं परम्

॥४९॥

या सा भगवती दुर्गा भक्तदुर्गतिहारिणी ।

तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि ५० ।

यदाराधनतः सर्वे सर्वान्कामानवाप्नुयुः ।

न किचिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम्

॥५१॥

इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् ।

प्रणम्य परया भक्त्या प्रावोचं विहितांजलिः

॥५२॥

वसुदेव उवाच

यद्यस्ति भगवन्प्रीतिर्मयि ते करुणानिधे ।

तदा पुरा मदर्थे त्वं समाराधय चण्डिकाम्

॥५३॥

निरुद्धः कंसगेहेऽहं न किंचित्कर्तुमुत्सहे ।

अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते

॥५४॥

इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः ।

वसुदेव तव प्रीत्या करिष्यामि हितं तव

॥५५॥

अथ गर्गमुनिः प्रीत्या मया संप्रार्थितोऽगमत् ।

आरिराधयिषुर्दुर्गां विंध्याद्रिं ब्राह्मणैः सह

॥५६॥

तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् ।

आराधयामास मुनिर्जपपाठपरायणः

॥५७॥

यतः समाप्ते नियमे वागुवाचाशरीरिणी ।

प्रसन्नाऽहं मुने कार्यसिद्धिस्तव भविष्यति

॥५८॥

भूभारहरणार्थाय मया संप्रेषितो हरिः ।

वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति

॥५९॥

कंसभीत्या तमादाय बालमानकदुंदुभिः ।

प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि

॥६०॥

यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे ।

दास्यत्यथ च तां हंतुं कंस आक्षेप्स्यति क्षितौ ६१ ।

सा तद्धस्ताद्विनिर्गत्य सद्यो दिव्यवपुर्द्धरा ।

मदंशभूता विंध्याद्रौ करिष्यति जगद्धितम्

॥६२॥

इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् ।

गर्गो मुनिः प्रसन्नात्मा मथुरामगमत्पुरीम्

॥६३॥

वरदानं महादेव्या गर्गाचार्यसुखावहम् ।

श्रुत्वा सभार्यः संप्रीतः परं मुदमथागमत्

॥६४॥

तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् ।

अधुनापि हि देवर्षे श्रुतं तव मुखांबुजात्

॥६५॥

अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो ।

मद्भाग्यादेव देवर्षे संप्राप्तोऽसि दयानिधे

॥६६॥

वसुदेववचः श्रुत्वा नारदः प्रीतमानसः ।

सुदिने शुभनक्षत्रे कथारंभमथाकरोत्

॥६७॥

कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् ।

मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा

॥६८॥

प्रथमस्कंधमारभ्य श्रीनारदमुखोद्गतम् ।

शुश्राव वसुदेवश्व भक्त्या भागवतामृतम्

॥६९॥

नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा ।

प्रसन्न: पूजयामास वसुदेवो महामनाः

॥७०॥

अथ तत्र बिलस्यांतः कृष्णजांबवतोर्मृधे ।

कृष्णमुष्टिविनिष्पातश्लथाङ्गो जांबवानभूत्

॥७१॥

अथागतस्मृतिः सो हि भगवंतं प्रणम्य च ।

उवाच परया भक्त्या स्वापराधं क्षमापयन्

॥७२॥

ज्ञातोऽसि रघुवर्यस्त्वं यद्रोषात्सरितां पतिः ।

क्षोभं जगाम लंकां च रावणः सानुगो हतः

॥७३॥

स एवासि भवान्कृष्ण मद्दौरात्म्यं क्षमस्व भोः ।

ब्रूहि यत्करणीयं मे भृत्योऽहं तव सर्वथा

॥७४॥

श्रुत्वा जांबवतो वाचमब्रवीज्जगदीश्वरः ।

मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम्

॥७५॥

द्विजा भार्यया सहितं कृष्णं देवर्षिर्नारदश्वाथ ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम्।

ददौ कृष्णाय संपूज्य स्यमंतकमणिं तथा

॥७६॥

स तां पत्नीं समादाय मणिं कंठे तथा दधत् ।

अभिमंत्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति

॥७७॥

कथासमाप्तिदिवसे वसुदेव उदारधीः ।

ब्राह्मणान्भोजयामास दक्षिणाभिरतोषयत्

॥७८॥

आशीर्वादं प्रयुञ्जाना द्विजा यत्समये हरिः ।

आजगाम क्षणे तस्मिन्पत्न्या सह मणिं दधत्

॥७९॥

भार्यया सहितं कृष्णं वसुदेवपुरोगमाः ।

दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम्

॥८०॥

देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः ।

आमंत्र्य वसुदेवं च कृष्णो ब्रह्मसभां ययौ

॥८१॥

हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं पठति विमलभक्त्या शुद्धचित्तः शृणोति ।

स भवति सुखपूर्णः सर्वदा सिद्धिकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च

॥८२॥

इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये द्वितीयोऽध्यायः ॥ २ ॥