पश्यन्ती मध्यमाऽथो तदनु भगवती वैखरीवर्णरूपा साऽस्मद्वाचं प्रसन्न…
श्रीदुर्गादेव्यै नमः श्रीमद्देवीभागवतमाहात्म्यम् सृष्टी या सर्गरूपा जगदवनविधौ पालिनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडनं याऽपराख्या ।
पश्यन्ती मध्यमाऽथो तदनु भगवती वैखरीवर्णरूपा साऽस्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधिताऽलङ्करोतु
॥१॥नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
॥२॥ऋषय ऊचुः
सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः ।
कथा मनोहराः पुण्या व्यासशिष्य महामते
॥३॥सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् ।
अवतार कथोपेतमस्माभिर्भक्तितः श्रुतम्
॥४॥शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा ।
सेतिहासं च माहात्म्यं श्रुतं तव मुखाम्बुजात्
॥५॥अधुना श्रोतुमिच्छामः पावनात्पावनं परम् ।
भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः
॥६॥तत्त्वं ब्रूहि महाभाग येन सिद्ध्यन्ति मानवाः ।
कलावपि वरं त्वत्तो न विद्यः संशयच्छिदम्
॥७॥सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया ।
सर्वशास्त्रस्य यत्सारं तो वक्ष्याम्यशेषतः
॥८॥तावद्गर्जन्ति तीर्थानि पुराणानि व्रतानि च ।
यावन्न श्रूयते सम्यग्देवीभागवतं नरैः
॥९॥तावत्पापाटवी नॄणां क्लेशदाऽदभ्रकण्टका ।
यावन्न परशुः प्राप्तो देवीभागवताभिधः
॥१०॥तावत्क्लेशावहं नॄणामुपसर्गमहातमः ।
यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः
॥११॥ऋषय ऊचुः
सूत सूत महाभाग वद नो वदतांवर ।
कीदृशं तत्पुरायणं हि विधिस्तच्छ्रवणे च कः
॥१२॥कतिभिर्वासरैरेतच्छ्रोतव्यं किं च पूजनम् ।
कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः
॥१३॥सूत उवाच
विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् ।
विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा
॥१४॥व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् ।
स्त्रीणां दुर्मेधसां नॄणां धर्मज्ञानं कथं भवेत्
॥१५॥विचार्यैतत्तु मनसा भगवान्बादरायणः ।
पुराणं संहितां दध्यौ तेषां धर्मविधित्सया
॥१६॥अष्टादश पुराणानि स कृत्वा भगवान्मुनिः ।
मामेवाध्यापयामास भारताख्यानमेव च
॥१७॥देवीभागवतं तत्र पुराणं भोगमोक्षदम् ।
स्वयं तु श्रावयामास जनमेजयभूपतिम्
॥१८॥पूर्वं यस्य पिता राजा परीक्षित्तक्षकाहिना ।
संदष्टस्तस्य संशुद्ध्यै राज्ञा भागवतं श्रुतम्
॥१९॥नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् ।
त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः
॥२०॥नवाह यज्ञे सम्पूर्णे परीक्षिदपि भूपतिः ।
दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात्
॥२१॥पितुर्दिव्यां गति राजा विलोक्य जनमेजयः ।
व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह
॥२२॥अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् ।
देवीभागवतं नाम धर्मकामार्थमोक्षदम्
॥२३॥ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् ।
तेषां सिद्धिर्न दूरस्था तस्मात्सेव्या सदा नृभिः
॥२४॥दिनमर्द्धं तदर्धं वा मुहूर्तं क्षणमेव वा ।
ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ।
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् ।
सकृत्पुराणश्रवणात्तत्फलं लभते नरः
॥२६॥कृता दो बहवो धर्माः कलौ धर्मस्तु केवलम् ।
पुराणश्रवणादन्यो विद्यते नापरो नृणाम्
॥२७॥धर्माचारविहीनानां कलावल्पायुषां नृणाम् ।
व्यासो हिताय विदधे पुराणाख्यं सुधारसम्
॥२८॥सुधां पिबन्नेक एव नरः स्यादजरामरः ।
देव्याः कथामृतं कुर्यात्कुलमेवाजरामरम्
॥२९॥मासानां नियमो नात्र दिनानां नियमोऽपि न ।
सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः
॥३०॥आश्विने मधुमासे वा तपोमासे शुचौ तथा ।
चतुर्षु नवरात्रेषु विशेषात्फलदायकम्
॥३१॥अतो नवाहयज्ञोऽयं सर्वस्मात्पुण्यकर्मणः ।
फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम्
॥३२॥ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिंदकाश्च ।
हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनंति ते कलौ
॥३३॥परस्वदाराहणेतिऽलुब्धा ये वै नराः कल्मषभारभाजः ।
गोदेवता ब्राह्मणभक्तिहीना नवाहज्ञेन भवन्ति शुद्धाः
॥३४॥तपोभिरुग्रैर्व्रततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च ।
हुतैर्जपैर्यच्च फलेन लभ्यते नवाहयज्ञेन तदाप्यते नृणाम्
॥३५॥तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् ।
पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः
॥३६॥अतो भागवतं देव्याः पुराणं परतः परम् ।
धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम्
॥३७॥आश्विनस्य सिते पक्षे कन्याराशिगते रवौ ।
महाष्टम्यां समभ्यर्च्य हैकसिंहासनस्थितम्
॥३८॥देवीप्रीतिपदं भक्त्या श्रीभागवतपुस्तकम् ।
दद्याद्विप्राय योग्याय स देव्याः पदवीं लभेत्
॥३९॥देवी भागवतस्यापि श्लोकं श्लोकार्द्धमेव वा ।
भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ।
उपसर्गभवं घोरं महामारीसमुद्भवम् ।
उत्पातानखिलांश्चापि हंति श्रवणमात्रतः
॥४१॥बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् ।
देवीभागवतस्यास्य श्रवणाद्याति दूरतः
॥४२॥यस्तु भागवतं देव्याः पठेद्भक्त्या शृणोति वा ।
धर्ममर्थं च कामं च मोक्षं च लभते नरः
॥४३॥श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् ।
चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह
॥४४॥य एतां शृणुयाद्भक्त्या श्रीमद्भागवतीं कथाम् ।
भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ।
रोगी रोगात्प्रमुच्येत श्रुत्वा भागवतामृतम्
॥४६॥वंध्या वा काकवंध्या वा मृतवत्सा च याङ्गना ।
देवीभागवतं श्रुत्वा लभेत्पुत्रं चिरायुषम्
॥४७॥पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् ।
तद्गृहं तीर्थंभूतं हि वसतां पापनाशकम्
॥४८॥अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः ।
यः पठेच्छृणुयाद्वापि स सिद्धिं लभते पराम्
॥४९॥पठन्द्विजो वेदविदग्रणीर्भवेद्वाहुप्रजातो धरणीपतिः स्यात् ।
वैश्यः पठन्वित्तसमृद्धिमेति शूद्रोऽपि शृण्वन्स्वकृतोत्तमः स्यात्
॥५०॥इति श्रीस्कन्द पुराणे मानसखण्डे देवीभागवतमाहात्म्ये प्रथमोऽध्यायः ॥ १ ॥