मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

देवीभागवतपुराणम् — माहात्म्यम्, अध्याय ३

3
माहात्म्यम् · 3

अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः

सूत उवाच

अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः ।

देवीभागवतस्यास्य माहात्म्यं यत्र गीयते

॥१॥

एकदा कुंभयोनिस्तु लोपामुद्रापतिर्मुनिः ।

गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः

॥२॥

स तस्मै भगवान्स्कन्दः कथयामास भूरिशः ।

दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः

॥३॥

वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा ।

गंगायाश्चापि तीर्थानां वर्णितं बहुविस्तरम्

॥४॥

श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् ।

पुनः पप्रच्छ लोकानां हितार्थं कुंभसंभवः

॥५॥

अगस्त्य उवाच

भगवंस्तारकाराते देवीभागवतस्य तु ।

माहात्म्यश्रवणे तस्य विधिं चापि वद प्रभो

॥६॥

देवीभागवतं नाम पुराणं परमोत्तमम् ।

त्रैलोक्यजननी साक्षाद्गीयते यत्र शाश्वती

॥७॥

स्कन्द उवाच

श्रीभागवतमाहात्म्यं को वक्तुं विस्तरात्क्षमः ।

शृणु संक्षेपतो ब्रह्मन्कथयिष्यामि सांप्रतम्

॥८॥

या नित्या सच्चिदानन्दरूपिणी जगदम्बिका ।

साक्षात्समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी

॥९॥

अतस्तद्वाङ्मयी मूर्तिर्देवीभागवते मुने ।

पठनाच्छ्रवणाद्यस्य न किंचिदिह दुर्लभम्

॥१०॥

आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।

सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः

॥११॥

होतारं प्रार्थयामास श्रद्धाऽथ दयिता मनोः ।

कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम्

॥१२॥

मनसा चिन्तयन्होता कन्यामेवाजुहोद्धविः ।

ततस्तद्व्यभिचारेण कन्येला नाम चाभवत्

॥१३॥

अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् ।

कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव

॥१४॥

तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् ।

ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया

॥१५॥

मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा ।

पश्यतां सर्वलोकानामिला पुरुषतामगात्

॥१६॥

गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः ।

निधिर्बभूव विद्यानां सरितामिव सागरः

॥१७॥

अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च ।

मृगयार्थं वनं यातो हयमारुह्य सैन्धवम्

॥१८॥

वनाद्वनांतरं गच्छन्बहु बभ्राम सानुगः ।

दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ

॥१९॥

कस्मिंश्चित्समये यत्र भार्ययाऽपर्णया सह ।

अरमद्देवदेवस्तु शङ्करो भगवान्मुदा

॥२०॥

तदा तु मुनयस्तत्र शिवदर्शनलालसाः ।

आजग्मुरथ तान्दृष्ट्वा गिरिजा व्रीडिताऽभवत्

॥२१॥

रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः ।

निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा

॥२२॥

प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह ।

अद्यारभ्य विशेद्योऽत्र पुमान् योषिद्भवेदिति

॥२३॥

तत आरभ्य तं देशं पुरुषा वर्जयंति हि ।

तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा

॥२४॥

स्त्रीभूतानुगानश्वं वडवां वीक्ष्य विस्मितः ।

अथ सा सुन्दरी योषा विचचार वने वने

॥२५॥

एकदा सा जगामाथ बुधस्याश्रमसन्निधौ ।

दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम्

॥२६॥

बिंबोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् ।

अनङ्गशरविद्धांगश्चकमे भगवान्बुधः

॥२७॥

सापि तं चकमे सुभ्रूः कुमारं सोमनंदनम् ।

ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा

॥२८॥

अथ कालेन कियता पुरूरवसमात्मजम् ।

स तस्यां जनयामास मित्रावरुणसंभवः

॥२९॥

अथ वर्षेषु यातेषु कदाचित्सा बुधाश्रमे ।

स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह

॥३०॥

गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् ।

निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती

॥३१॥

वसिष्ठो ज्ञातवृत्तांतो गत्वा कैलासपर्वतम् ।

संपूज्य शंभुं तुष्टाव भक्त्या परमया युतः

॥३२॥

वसिष्ठ उवाच

नमो नमः शिवायास्तु शंकराय कपर्दिने ।

गिरिजार्द्धाङ्गदेहाय नमस्ते चंद्रमौलये

॥३३॥

मृडाय सुखदात्रे ते नमः कैलासवासिने ।

नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने

॥३४॥

शिवाय शिवरूपाय प्रपन्नभयहारिणे ।

नमो वृषभवाहाय शरण्याय परात्मने

॥३५॥

ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च ।

नमो देवाधिदेवाय वरदाय पुरारये

॥३६॥

यज्ञरूपाय यजतां फलदात्रे नमो नमः ।

गंगाधराय सूर्येन्दुशिखिनेत्राय ते नमः

॥३७॥

एवं स्तुतः स भगवान्प्रादुरासीज्जगत्पतिः ।

वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः

॥३८॥

रजताचलसंकाशस्त्रिनेत्रश्चंद्रशेखरः।

प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम्

॥३९॥

श्रीभगवानुवाच

वरं वरय विप्रर्षे यत्ते मनसि वर्तते ।

इत्युक्तस्तं प्रणम्येला पुँस्त्वमभ्यर्थयन्मुनिः

॥४०॥

अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् ।

मासं पुमान्स भविता मासं नारी भविष्यति

॥४१॥

इति प्राप्य वरं शंभोर्महर्षिर्जगदम्बिकाम् ।

वरदानोन्मुखीं देवीं प्रणनाम महेश्वरीम्

॥४२॥

कोटिचंद्रकलाकान्तिं सुस्मितां परिपूज्य च ।

तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ४३ ।

जय देवि महादेवि भक्तानुग्रहकारिणि ।

जय सर्वसुराराध्ये जयानंतगुणालये

॥४४॥

नमो नमस्ते देवेशि शरणागतवत्सले ।

जय दुर्गे दु:खहंत्रि दुष्टदैत्यनिषूदिनि

॥४५॥

भक्तिगम्ये महामाये नमस्ते जगदम्बिके ।

संसारसागरोत्तारपोतीभूतपदाम्बुजे

॥४६॥

ब्रह्मादयोऽपि विबुधास्त्वत्पादांबुजसेवया ।

विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः

॥४७॥

प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि ।

कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्म्यहम् ४८ ।

एवं स्तुता भगवती दुर्गा नारायणी परा ।

भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत्

॥४९॥

तदोवाच महादेवी प्रणतार्तिहरी मुनिम् ।

सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम्

॥५०॥

सुद्युम्नं श्रावय प्रीत्या पुराणं मत्प्रियंकरम् ।

देवीभागवतं नाम नवाहोभिर्द्विजोत्तम

॥५१॥

श्रवणादेव सततं पुंस्त्वमस्य भविष्यति ।

इत्युक्त्वा च तिरोधानं गच्छतःस्म शिवेश्वरौ

॥५२॥

वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् ।

समाहूय च सुद्युम्नं देव्याराधनमादिशत्

॥५३॥

आश्विनस्य सिते पक्षे संपूज्य जगदंबिकाम् ।

नवरात्रविधानेन श्रावयामास भूपतिम्

॥५४॥

श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् ।

प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरंतरम् ५५ ।

राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा ।

भुवं शशास धर्मेण प्रजाश्चैवानुरंजयन्

॥५६॥

ईजे च विविधैर्यज्ञैः संपूर्णवरदक्षिणैः ।

पुत्रेषु राज्यं संदिश्य प्राप देव्याः सलोकताम्

॥५७॥

इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्त्या मानवो वा शृणोति ।

स इह सकलकामान्प्राप्य देव्याः प्रसादात्परममृतमथान्ते याति देव्याः सलोकम्

॥५८॥

इति श्रीस्कन्दपुराणे मानसखण्डे देवीभागवतमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥