शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः
सूत उवाच
इति श्रुत्वा कथां दिव्यां विचित्रां कुंभसंभवः ।
शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः
॥१॥अगस्त्य उवाच
देवसेनापते . देव विचित्रेयं श्रुता कथा ।
पुनरन्यच्च माहात्म्यं वद भागवतस्य मे
॥२॥स्कन्द उवाच
मित्रावरुणसंभूत मुने शृणु कथामिमाम् ।
यत्रैकदेश महिमा प्रोक्ता भागवतस्य तु
॥३॥वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च ।
गायत्र्या महिमा यत्र तद्भागवतमिष्यते
॥४॥भगवत्या इदं यस्मात्तस्माद्भागवतं विदुः ।
ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा
॥५॥ऋतवागिति विख्यातो मुनिरासीन्महामतिः ।
तस्य पुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे
॥६॥स तस्य जातकर्मादि क्रियाश्चक्रे यथाविधि ।
चूडोपनयनादींश्च संस्कारानपि सोऽकरोत्
॥७॥यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः ।
तत एवाथ स मुनिः शोकरोगाकुलोऽभवत्
॥८॥रोषलोभपरीतात्मा तथा मातापि तस्य च ।
बहुरागार्दिता नित्यं शुचा दुःखीकृता भृशम्
॥९॥ऋतवाक्स मुनिश्चिन्तामवाप भृशदुःखितः ।
किमेततत्कारणं जातं पुत्रो मेऽत्यंतदुर्मतिः
॥१०॥कस्यचिन्मुनिपुत्रस्य बलात्पत्नीं जहार च ।
मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः
॥११॥ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् ।
अपुत्रता वरं नॄणां न कदाचित्कुपुत्रता
॥१२॥पितॄन्कुपुत्रः स्वर्यातान्निरये पातयत्यपि ।
यावज्जीवेत्सदा पित्रोः केवलं दुःखदायकः
॥१३॥पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः ।
सुहृदां नोपकाराय नापकाराय वैरिणाम्
॥१४॥धन्यास्ते मानवा लोके सुपुत्रो यद्गृहे स्थितः ।
परोपकारशीलश्च पितुर्मातुः सुखावहः
॥१५॥कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः ।
कुपुत्रेणेह चामुत्र दुःखं निरययातनाः
॥१६॥कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया ।
कुभोजनेन दिवसः कुमित्रेण सुखं कुतः
॥१७॥स्कन्द उवाच
एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनिः ।
तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत
॥१८॥ऋतवागुवाच
भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत्प्रभो ।
ज्योतिःज्ञास्त्रस्य चाचार्य पुत्रदौःशील्यकारणम्
॥१९॥गुरुशुश्रूषया वेदा अधीता विधिवन्मया ।
ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत्कृतः
॥२०॥भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् ।
पंचयज्ञविधानं च मयाऽकारि यथाविधि
॥२१॥नरकाद्बिभ्यता विप्र न तु कामसुखेच्छया ।
गर्भाधानं च विधिवत्पुत्रप्राप्त्यै मया कृतम्
॥२२॥पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने ।
जातो दुःखावहः पित्रोर्दुःशीलो बंधुशोकदः
॥२३॥एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा ।
विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत्
॥२४॥गर्ग उवाच
मुने नैवापराधस्ते न मातुर्न कुलस्य च ।
रेवत्यंतं तु गण्डान्तं पुत्रदौःशील्यकारणम्
॥२५॥दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने ।
तेनैव तव दुःखाय नान्यो हेतुर्मनागपि
॥२६॥तद्दुःखशांतये ब्रह्मञ्जगतां मातरं शिवाम् ।
समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम्
॥२७॥गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः ।
रेवतीं तु शशापासौ व्योम्नः पततु रेवती
॥२८॥दत्ते शापे तु तेनाथ पूष्णो भं च पपात खात् ।
कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः
॥२९॥ख्यातो रैवतकश्चाभूत्तत्पातात्कुमुदाचल: ।
अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत्
॥३०॥दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः ।
समाराध्यांबिकां देवीं सुखसौभाग्यभागभूत्
॥३१॥स्कन्द उवाच
रेवत्यृक्षस्य यत्तेजस्तस्माज्जाता तु कन्यका ।
रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत्
॥३२॥अथ तां प्रमुचः कन्यां रेवतीकांतिसंभवाम् ।
दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः
॥३३॥निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः ।
ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव
॥३४॥अथ कालेन च प्रौढां दृष्ट्वा तां रूपशालिनीम् ।
स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत्
॥३५॥बहुधाऽन्वेषयंस्तस्या नाससादोचितं पतिम् ।
ततोग्निशालां संविश्य मुनिस्तुष्टाव पावकम्
॥३६॥कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् ।
धर्मिष्ठो बलवान्वीरः प्रियवागपराजितः
॥३७॥दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः ।
इति श्रुत्वा वचो वह्नेः प्रसन्नोभून्मुनिस्तदा
॥३८॥दैवादाखेटकव्याजात्तत्क्षणादागतो नृपः ।
दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः
॥३९॥पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः ।
कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः
॥४०॥मुनेराश्रममाविश्य तमदृष्वातक महामुनिम् ।
आमंत्र्य तां प्रिये चेति रेवतीं पृष्टवान्नृपः
॥४१॥राजोवाच
महर्षिर्भगवानस्मादाश्रमात्व्त गतः प्रिये ।
तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः
॥४२॥कन्योवाच
अग्निशालामुपगतो महाराज महामुनिः ।
निश्चक्रामाश्रमात्तूर्णं राजाप्याकर्ण्य तद्वचः
॥४३॥तथाऽग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः ।
राजलक्षणसंयुक्तमपश्यत्प्रश्रयानतम्
॥४४॥प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह ।
गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः
॥४५॥आगतश्चिरकालेन जामातेति विशेषतः ।
इत्युक्त्वार्घ्यं ददौ तस्मै सोपि जग्राह चिन्तयन्
॥४६॥मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् ।
आशीर्भिरभिनंद्याथ कुशलं चाप्यपृच्छत
॥४७॥अपि तेऽनामयं राजन्बले कोशे सुहृत्सु च ।
भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप
॥४८॥भार्याऽस्ति ते कुशलिनी यतः सात्रैव तिष्ठति ।
अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ।
राजोवाच ।
भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम ।
एतत्कुतूहलं ब्रह्मन्मद्भार्या काsत्र विद्यते
॥५०॥ऋषिरुवाच
रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि ।
विद्यतेsत्र कथं पत्नी तां न वेत्सि महीपते
॥५१॥राजोवाच
सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो ।
जानामि तास्तु भगवन्न वै जानामि रेवतीम्
॥५२॥ऋषिरुवाच
प्रियेति सांप्रतं राजंस्त्वयोक्ता या महामते ।
सा विस्मृता क्षणादेव या ते श्लाघ्यतमा प्रिया ।
राजोवाच ।
त्वयोक्तं यन्मृषा तन्नो तथैवामन्त्रिता मया ।
मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि
॥५४॥ऋषिरुवाच
राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव ।
वह्निना प्रेरितेनेत्थं भवता 'व्याहृतं वचः
॥५५॥अद्य पृष्टो मया वह्निः कोऽस्या भर्त्ता भविष्यति ।
तेनोक्तं दुर्दमो राजा भविताऽस्याः पतिर्ध्रुवम्
॥५६॥तदादत्स्व मया दत्तामिमां कन्यां महीपते ।
प्रियेत्यामंत्रिता पूर्वं मा विचारं कुरुष्व भोः
॥५७॥श्रुत्वैतत्सोऽभवत्तूष्णीं चिंतयन्मुनिभाषितम् ।
वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः
॥५८॥अथोद्यतं विवाहाय दृष्ट्वा कन्याऽब्रवीन्मुनिम् ।
रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि
॥५९॥ऋषिरुवाच
वत्से विवाहयोग्यानि सत्यन्यर्क्षाणि भूरिशः ।
रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम्
॥६०॥कन्योवाच
रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि ।
अतः संप्रार्थयाम्येतद्विवाहं पौष्णभे कुरु
॥६१॥ऋषिरुवाच
ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् ।
भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात्कथं तव
॥६२॥कन्योवाच
तपः किं तप्तवानेक ऋतवागेव केवलम् ।
भवता किं तपो नेदृक्तप्तं वाक्कायमानसः
॥६३॥जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् ।
रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु
॥६४॥ऋषिरुवाच
एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् ।
त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ६५ ।
स्कन्द उवाच ।
एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् ।
यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव
॥६६॥रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः ।
रेवतीं प्रददौ राज्ञे दुर्द्दमाय महात्मने
॥६७॥कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् ।
किं तेऽभिलषितं वीर वद तत्पूरयाम्यहम्
॥६८॥राजोवाच
मनोः स्वायंभुवस्याहं वंशे जातोऽस्मि हे मुने ।
मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये
॥६९॥मुनिरुवाच
यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु ।
भविष्यत्येव ते पुत्रो मनुर्मन्वंतराधिपः
॥७०॥देवीभागवतं नाम पुराणं यत्तु पंचमम् ।
पंचकृत्वस्तु तच्छ्रुत्वा लप्स्यसे ऽभिमतं सुतम्
॥७१॥रेवत्या रैवतो नाम पंचमो भविता मनुः ।
वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः
॥७२॥इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् ।
भार्यया सह मेधावी जगाम नगरं निजम्
॥७३॥पितृपैतामहं राज्यं चकार स महामतिः ।
पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान्
॥७४॥एकदा लोमशो नाम महात्मा मुनिरागतः ।
प्रणिपत्य तमभ्यर्च्य प्रांजलिश्चाब्रवीन्नृपः
॥७५॥राजोवाच
भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने ।
देवी भागवतं नाम पुराणं पुत्रलिप्सया
॥७६॥श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः ।
धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ७७ ।
सुरासुरनराराध्या या परा जगदम्बिका ।
तस्यां चेद्भक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति
॥७८॥अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप ।
यस्य श्रवणमात्रेण न किंचिदपि दुर्लभम्
॥७९॥इत्युक्त्वा सुदिने ब्रह्मन्कथारंभमथाकरोत् ।
पंचकृत्वः स शुश्राव विधिवद्भार्यया सह
॥८०॥समाप्तिदिवसे राजा पुराणं च मुनिं तथा ।
पूजयामास धर्मात्मा मुदा परमया युतः
॥८१॥हुत्वा नवार्णमंत्रेण भोजयित्वा कुमारिकाः ।
वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत्
॥८२॥अथ कालेन कियता भगवत्याः प्रसादतः ।
गर्भं दधार सा राज्ञी लोककल्याणकारकम्
॥८३॥पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसंगतैः ।
सर्वमंगलसंपन्ने रेवती सुषुवे सुतम्
॥८४॥श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः ।
स सुवर्णांभसा चक्रे जातकर्मादिकाः क्रियाः
॥८५॥यथाविधि च दानानि दत्त्वा विप्रानतोषयत् ।
कृतोपनयनं राजा सांगान्वेदानपाठयत्
॥८६॥सर्वविद्यानिधिर्जातौ धर्मिष्ठोऽस्त्रविदां वरः ।
धर्मस्य वक्ता कर्त्ता च रैवतो नाम वीर्यवान्
॥८७॥नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे ।
मन्वन्तराधिपः श्रीमान्गां शशास स धर्मतः
॥८८॥इत्थं देव्याः प्रभावोऽयं संक्षेपेणोपवर्णितः ।
पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः
॥८९॥सूत उवाच
कुंभयोनिस्तु माहात्म्यं विधिं भागवतस्य च ।
श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ
॥९०॥इदं मया भागवतस्य विप्रा माहात्म्यमुक्तं भवतां समक्षम् ।
शृणोति भक्त्या पठतीह भोगान्भुक्त्वाऽखिलान्मुक्तिमुपैति चांते
॥९१॥इति श्रीस्कन्दपुराणे मानसखण्डे श्रीदेवीभागवतमाहात्म्ये चतुर्थोऽध्यायः ॥ ४ ॥