skipLink.label

सूक्तम् 82 — आ (9 मन्त्राः)

सूक्त 82

९ कुसीदी काण्व:। इन्द्र: । गायत्री ।

आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् । मध्व॒: प्रति॒ प्रभ॑र्मणि

॥१॥

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णव॑: । पिबा॑ द॒धृग्यथो॑चि॒षे

॥२॥

इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ । भुव॑त्त इन्द्र॒ शं हृ॒दे

॥३॥

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१क्थानि॑ च हूयसे । उ॒प॒मे रो॑च॒ने दि॒वः

॥४॥

तुभ्या॒यमद्रि॑भिः सु॒तो गोभि॑: श्री॒तो मदा॑य॒ कम् । प्र सोम॑ इन्द्र हूयते

॥५॥

इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः । वि पी॒तिं तृ॒प्तिम॑श्नुहि

॥६॥

य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः । पिबेद॑स्य॒ त्वमी॑शिषे

॥७॥

यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे । पिबेद॑स्य॒ त्वमी॑शिषे

॥८॥

यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् । पिबेद॑स्य॒ त्वमी॑शिषे

॥९॥