९ कृष्ण आङ्गिरस: । अश्विनौ ।गायत्री ।
आ मे॒ हवं॑ नास॒त्याऽश्वि॑ना॒ गच्छ॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑
॥१॥इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् । मध्व॒: सोम॑स्य पी॒तये॑
॥२॥अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू । मध्व॒: सोम॑स्य पी॒तये॑
॥३॥शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा । मध्व॒: सोम॑स्य पी॒तये॑
॥४॥छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा । मध्व॒: सोम॑स्य पी॒तये॑
॥५॥गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना । मध्व॒: सोम॑स्य पी॒तये॑
॥६॥यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू । मध्व॒: सोम॑स्य पी॒तये॑
॥७॥त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना । मध्व॒: सोम॑स्य पी॒तये॑
॥८॥नू मे॒ गिरो॑ नास॒त्याऽश्वि॑ना॒ प्राव॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑
॥९॥