मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ५९

3
दशमस्कन्धः (उत्तरार्धः) · 59

पारिजातहरणनरकवधः

मुरवधः भौमासुरवधः, भूमिकृता भगवत्स्तुतिः भौमाहृतषोडशसहस्रराजकन्यानां परिणयनं, पारिजातहरणं च श्रीराजोवाच ।

( अनुष्टुप् ) यथा हतो भगवता भौमो येने च ताः स्त्रियः ।

निरुद्धा एतदाचक्ष्व विक्रमं शार्ङ्गधन्वनः

॥१॥

श्रीशुक उवाच

इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना ।

हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ।

सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ

॥२॥

गिरिदुर्गैः शस्त्रदुर्गैः जलाग्न्यनिलदुर्गमम् ।

मुरपाशायुतैर्घोरैः दृढैः सर्वत आवृतम्

॥३॥

गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः ।

चक्रेणाग्निं जलं वायुं मुरपाशांस्तथासिना

॥४॥

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् ।

प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः

॥५॥

पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् ।

मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात्

॥६॥

( मिश्र ) त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः ।

ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैः अभ्यद्रवत्तार्क्ष्यसुतं यथोरगः

॥७॥

आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर्व्यनदत् स पञ्चभिः ।

स रोदसी सर्वदिशोऽन्तरं महान् आपूरयन् अण्डकटाहमावृणोत्

॥८॥

तदापतद् वै त्रिशिखं गरुत्मते हरिः शराभ्यां अभिनत्त्रिधौजसा ।

मुखेषु तं चापि शरैरताडयत् तस्मै गदां सोऽपि रुषा व्यमुञ्चत

॥९॥

तामापतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा ।

उद्यम्य बाहूनभिधावतोऽजितः शिरांसि चक्रेण जहार लीलया

॥१०॥

व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गोऽद्रिरिवेन्द्रतेजसा ।

तस्यात्मजाः सप्त पितुर्वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः

॥११॥

ताम्रोऽन्तरिक्षः श्रवणो विभावसुः वसुर्नभस्वानरुणश्च सप्तमः ।

पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरग धृतायुधाः

॥१२॥

प्रायुञ्जतासाद्य शरानसीन् गदाः शक्त्यृष्टिशूलान्यजिते रुषोल्बणाः ।

तच्छस्त्रकूटं भगवान् स्वमार्गणैः अमोघवीर्यस्तिलशश्चकर्त ह

॥१३॥

तान्पीठमुख्याननयद् यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः ।

स्वानीकपानच्युतचक्रसायकैः तथा निरस्तान् नरको धरासुतः

॥१४॥

( वंशस्था ) निरीक्ष्य दुर्मर्षण आस्रवन्मदैः गजैः पयोधिप्रभवैर्निराक्रमात् ।

दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात् सतडिद्घनं यथा ।

कृष्णं स तस्मै व्यसृजच्छतघ्नीं योधाश्च सर्वे युगपत् च विव्यधुः

॥१५॥

तद्भौमसैन्यं भगवान् गदाग्रजो विचित्रवाजैर्निशितैः शिलीमुखैः ।

निकृत्तबाहूरुशिरोध्रविग्रहं चकार तर्ह्येव हताश्वकुञ्जरम्

॥१६॥

( अनुष्टुप् ) यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।

हरिस्तान्यच्छिनत् तीक्ष्णैः शरैरेकैक शस्त्रीभिः

॥१७॥

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।

गुरुत्मता हन्यमानाः तुण्डपक्षनखैर्गजाः

॥१८॥

पुरमेवाविशन्नार्ता नरको युध्ययुध्यत ।

दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं

॥१९॥

तं भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः ।

नाकम्पत तया विद्धो मालाहत इव द्विपः

॥२०॥

शूलं भौमोऽच्युतं हन्तुं आददे वितथोद्यमः ।

तद्विसर्गात् पूर्वमेव नरकस्य शिरो हरिः ।

अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना

॥२१॥

( मिश्र ) सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितं समुज्ज्वलम् ।

हा हेति साध्वित्यृषयः सुरेश्वरा माल्यैर्मुकुन्दं विकिरन्त ईडिरे

॥२२॥

ततश्च भूः कृष्णमुपेत्य कुण्डले ।

प्रतप्तजाम्बूनदरत्नभास्वरे ।

सवैजयन्त्या वनमालयार्पयत् प्राचेतसं छत्रमथो महामणिम्

॥२३॥

( अनुष्टुप् ) अस्तौषीदथ विश्वेशं देवी देववरार्चितम् ।

प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया

॥२४॥

भूमिरुवाच

नमस्ते देवदेवेश शङ्खचक्रगदाधर ।

भक्तेच्छोपात्तरूपाय परमात्मन्नमोऽस्तु ते

॥२५॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।

नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये

॥२६॥

नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।

पुरुषायादिबीजाय पूर्णबोधाय ते नमः

॥२७॥

अजाय जनयित्रेऽस्य ब्रह्मणेऽनन्तशक्तये ।

परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते

॥२८॥

( मिश्र ) त्वं वै सिसृक्षुरज उत्कटं प्रभो तमो निरोधाय बिभर्ष्यसंवृतः ।

स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः

॥२९॥

अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि ।

कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवन्नयं भ्रमः

॥३०॥

तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः ।

तत् पालयैनं कुरु हस्तपङ्कजं शिरस्यमुष्याखिलकल्मषापहम्

॥३१॥

श्रीशुक उवाच

( अनुष्टुप् ) इति भूम्यर्थितो वाग्भिः भगवान् भक्तिनम्रया ।

दत्त्वाभयं भौमगृहं प्राविशत् सकलर्द्धिमत्

॥३२॥

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् ।

भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः

॥३३॥

तं प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः ।

मनसा वव्रिरेऽभीष्टं पतिं दैवोपसादितम्

॥३४॥

भूयात् पतिरयं मह्यं धाता तदनुमोदताम् ।

इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः

॥३५॥

ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः ।

नरयानैर्महाकोशान् रथाश्वान् द्रविणं महत्

॥३६॥

ऐरावतकुलेभांश्च चतुर्दन्तांस्तरस्विनः ।

पाण्डुरांश्च चतुःषष्टिं प्रेरयामास केशवः

॥३७॥

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले ।

पूजितस्त्रिदशेन्द्रेण सहेन्द्र्याण्या च सप्रियः

॥३८॥

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।

आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम्

॥३९॥

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।

अन्वगुर्भ्रमराः स्वर्गात् तद् गन्धासवलम्पटाः

॥४०॥

( मिश्र ) ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन् अच्युतमर्थसाधनम् ।

सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिगाढ्यताम्

॥४१॥

( अनुष्टुप् ) अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।

यथोपयेमे भगवान् तावद् रूपधरोऽव्ययः

॥४२॥

( वंशस्था ) गृहेषु तासामनपाय्यतर्ककृत् निरस्तसाम्यातिशयेष्ववस्थितः ।

रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन्

॥४३॥

( वसंततिलका ) इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम् ।

भेजुर्मुदाविरतमेधितयानुराग हासावलोकनवसङ्गमजल्पलज्जाः

॥४४॥

प्रत्युद्गमासनवरार्हणपदशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः ।

केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर्विदधुः स्म दास्यम्

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नाम एकोनषष्टितमोऽध्यायः ॥ ५९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु