मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ८७

3
दशमस्कन्धः (उत्तरार्धः) · 87

वेदस्तुति

श्रीपरीक्षिदुवाच

( अनुष्टुप् ) ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः ।

कथं चरन्ति श्रुतयः साक्षात् सदसतः परे

॥१॥

श्रीशुक उवाच

बुद्धीन्द्रियमनःप्राणान् जनानां असृजत् प्रभुः ।

मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च

॥२॥

सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता ।

श्र्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः

॥३॥

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।

नारदस्य च संवादं ऋषेर्नारायणस्य च

॥४॥

एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः ।

सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्

॥५॥

यो वै भारतवर्षेऽस्मिन् क्शेमाय स्वस्तये नृणाम् ।

धर्मज्ञानशमोपेतं आकल्पादास्थितस्तपः

॥६॥

तत्रोपविष्टं ऋषिभिः कलापग्रामवासिभिः ।

परीतं प्रणतोऽपृच्छद् इदमेव कुरूद्वह

॥७॥

तस्मै ह्यवोचद्भगवान् ऋषीणां श्रृणतामिदम् ।

यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम्

॥८॥

श्रीभगवानुवाच

स्वायम्भुव ब्रह्मसत्रं जनलोकेऽभवत् पुरा ।

तत्रस्थानां मानसानां मुनीनां ऊर्ध्वरेतसाम्

॥९॥

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।

ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।

तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि

॥१०॥

तुल्यश्रुततपःशीलाः तुल्यस्वीयारिमध्यमाः ।

अपि चक्रुः प्रवचनं एकं शुश्रूषवोऽपरे

॥११॥

श्रीसनन्दन उवाच

स्वसृष्टमिदमापीय शयानं सह शक्तिभिः ।

तदन्ते बोधयां चक्रुः तल्लिङ्गैः श्रुतयः परम्

॥१२॥

यथा शयानं सम्राजं वन्दिनस्तत्पराक्रमैः ।

प्रत्यूषेऽभेत्य सुश्लोकैः बोधयन्त्यनुजीविनः

॥१३॥

श्रीश्रुतय ऊचुः

( अवितथ गाथा - पुढील, म्हणजे १४ ते ४१ या श्लोकांना वेदस्तुति म्हणतात ) जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः ।

अगजगदोकसामखिलशक्त्यवबोधक ते क्वचिदजयाऽऽत्मना च चरतोऽनुचरेन्निगमः

॥१४॥

बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेर्मृदि वाविकृतात् ।

अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम्

॥१५॥

इति तव सूरयस्त्र्यधिपतेऽखिललोकमल क्षपणकथामृताब्धिमवगाह्य तपांसि जहुः ।

किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम्

॥१६॥

दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहतः पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु यः सदसतः परं त्वमथ यदेष्ववशेषमृतम्

॥१७॥

उदरमुपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् ।

तत उदगादनन्त तव धाम शिरः परमं पुनरिह यत्समेत्य न पतन्ति कृतान्तमुखे

॥१८॥

स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः ।

अथ वितथास्वमूष्ववितथां तव धाम समं विरजधियोऽनुयन्त्यभिविपण्यव एकरसम्

॥१९॥

स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलशक्तिधृतोंऽशकृतम् ।

इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवम्भुवि विश्वसिताः

॥२०॥

दुरवगमात्मतत्त्वनिगमाय तवात्ततनोः चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।

न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः

॥२१॥

त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियवत् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च ।

न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः

॥२२॥

निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यत् मुनय उपासते तदरयोऽपि ययुः स्मरणात् ।

स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः

॥२३॥

क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये ।

तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमवकृष्य शयीत यदा

॥२४॥

जनिमसतः सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त आरुपितैः ।

त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न ततः परत्र स भवेदवबोधरसे

॥२५॥

सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयाऽत्मविदः ।

न हि विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम्

॥२६॥

तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निर्ऋतेः ।

परिवयसे पशूनिव गिरा विबुधानपि तान् त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः

॥२७॥

त्वमकरणः स्वराडखिलकारकशक्तिधरः तव बलिमुद्वहन्ति समदन्त्यजयानिमिषाः ।

वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः

॥२८॥

स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः ।

न हि परमस्य कश्चिदपरो न परश्च भवेद् वियत इवापदस्य तव शून्यतुलां दधतः

॥२९॥

अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगताः तर्हि न शास्यतेति नियमो ध्रव नेतरथा ।

अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया

॥३०॥

न घटत उद्भवः प्रकृतिपूरुषयोरजयोः उभययुजा भवन्त्यसुभृतो जलबुद्बुदवत् ।

त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युरशेषरसाः

॥३१॥

नृषु तव मयया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।

कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिणमिरभवच्छरणेषु भयम्

॥३२॥

विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तुमतिलोलमुपायखिदः ।

व्यसनशतान्विताः समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ

॥३३॥

स्वजनसुतात्मदारधनधामधरासुरथैः त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।

इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विह स्वविहते स्वनिरस्तभगे

॥३४॥

भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदाः त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजलाः ।

दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान्

॥३५॥

सत इदं उत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् ।

व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान्

॥३६॥

न यदिदमग्र आस न भविष्यदतो निधनाद् अनु मितमन्तरा त्वयि विभाति मृषैकरसे ।

अत उपमीयते द्रविणजातिविकल्पपथैः वितथमनोविलासमृतमित्यवयन्त्यबुधाः

॥३७॥

स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभगः ।

त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभगः

॥३८॥

यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः ।

असुतृपयोगिनामुभयतोऽप्यसुखं भगवन्न् अनपगतान्तकादनधिरूढपदाद्भवतः

॥३९॥

त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयोः गुणविगुणान्वयांस्तर्हि देहभृतां च गिरः ।

अनुयुगमन्वहं सगुण गीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजैः

॥४०॥

द्युपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणाः ।

ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः

॥४१॥

श्रीभगवानुवाच

( अनुष्टुप् ) इत्येतद्ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् ।

सनन्दनमथानर्चुः सिद्धा ज्ञात्वाऽऽत्मनो गतिम्

॥४२॥

इत्यशेषसमाम्नाय पुराणोपनिषद्रसः ।

समुद्धृतः पूर्वजातैः व्योमयानैर्महात्मभिः

॥४३॥

त्वं चैतद्ब्रह्मदायाद श्रद्धयाऽऽत्मानुशासनम् ।

धारयंश्चर गां कामं कामानां भर्जनं नृणाम्

॥४४॥

श्रीशुक उवाच

एवं स ऋषिणाऽऽदिष्टं गृहीत्वा श्रद्धयात्मवान् ।

पूर्णः श्रुतधरो राजन् आह वीरव्रतो मुनिः

॥४५॥

श्रीनारद उवाच

नमस्तस्मै भगवते कृष्णायामलकीर्तये ।

यो धत्ते सर्वभूतानां अभवायोशतीः कलाः

॥४६॥

इत्याद्यमृषिमानम्य तच्छिष्यांश्च महात्मनः ।

ततोऽगाद् आश्रमं साक्षात् पितुर्द्वैपायनस्य मे

॥४७॥

सभाजितो भगवता कृतासनपरिग्रहः ।

तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम्

॥४८॥

इत्येतद् वर्णितं राजन् यन्नः प्रश्नः कृतस्त्वया ।

यथा ब्रह्मण्यनिर्देश्ये नीऋगुणेऽपि मनश्चरेत्

॥४९॥

( शार्दूलविक्रीडित ) योऽस्योत्प्रेक्षक आदिमध्यनिधने योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः ।

यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम्

॥५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वेदस्तुति नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु