मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय १०

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 10

भद्रायुजीवनम्

सूत उवाच

विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् ॥

विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम्

॥१॥

विचित्रं शिवभक्तानां चरितं पापनाशनम् ॥

स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम्

॥२॥

अवंतीविषये कश्चिद्ब्राह्मणो मंदराह्वयः ॥

बभूव विषयारामः स्त्रीजितो धनसंग्रही

॥३॥

संध्यास्नापरित्यक्तो गंधमाल्यांबरप्रियः ॥

कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः

॥४॥

स वेश्यां पिंगलां नाम रममाणो दिवानिशम् ॥

तस्या एव गृहे नित्यमासीदविजितेंद्रियः

॥५॥

कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे ॥

ऋषभो नाम धर्मात्मा शिवयोगी समाययौ

॥६॥

तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् ॥

सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ

॥७॥

तमारोप्य महापीठे कंबलांबरसंभृते ॥

प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः

॥८॥

स्वागतार्घ्यनमस्कारैर्गंधपुष्पाक्षतादिभिः ॥

उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा

॥९॥

तं भुक्तवंतमाचांतं पर्यंके सुखसंस्तरे ॥

उपवेश्य मुदा युक्तौ तांबूलं प्रत्ययच्छताम्

॥१०॥

पादसंवाहनं भक्त्या कुर्वंतौ दैवचो दितौ ॥

कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम्

॥११॥

एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः ॥

अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः

॥१२॥

एवं काले गतप्राये स विप्रो निधनं गतः ॥

सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम्

॥१३॥

स विप्रः कर्मणा नीतो दशार्णधरणीपतेः ॥

वज्रबाहुकुटुंबिन्याः सुमत्या गर्भमास्थितः

॥१४॥

तां ज्येष्ठपत्नीं नृपतेर्गर्भसंपदमाश्रिताम् ॥

अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः

॥१५॥

सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः ॥

क्लेशमेव परं प्राप मरणादतिदुःसहम्

॥१६॥

अथ काले समायाते पुत्रमे कमजीजनत् ॥

क्लेशेन महता साध्वी पीडिता वरवर्णिनी

॥१७॥

स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् ॥

तेनावाप महाक्लेशं क्रंदमानो दिवानिशम्

॥१८॥

तस्य बालस्य माता च सर्वांगव्रणपीडिता ॥

बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः

॥१९॥

तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ ॥

न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि

॥२०॥

न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा ॥

स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा

॥२१॥

नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ ॥

जीवंतौ च मृतप्रायौ विलोक्यात्मन्यचिंतयत्

॥२२॥

एतौ मे गृहिणीपुत्रौ निरयादागताविह ॥

अश्रांतरोगौ क्रंदंतौ निद्राभंगविधायिनौ

॥२३॥

अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः ॥

मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ

॥२४॥

इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु ॥

आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्

॥२५॥

तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने ॥

अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ

॥२६॥

सोद्वहंती निजं बालं निपतंती पदे पदे ॥

निःश्वसंती निजं कर्म निंदंती चकिता भृशम्

॥२७॥

क्वचित्कंटकभिन्नांगी मुक्तकेशी भयातुरा ॥

क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता

॥२८॥

भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः ॥

महागुल्मेषु धावंती भिन्नपादा क्षुराश्मभिः

॥२९॥

सैवं घोरे महारण्ये भ्रमंती नृपगे हिनी ॥

दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम्

॥३०॥

गच्छंती तेन मार्गेण सुदूरमतियत्नतः ॥

ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम्

॥३१॥

तस्य गोप्ता महावैश्यो नगरस्य महाजनः ॥

अस्ति पद्माकरो नाम राजराज इवापरः

॥३२॥

तस्य वैश्यपतेः काचिद्गृहदासी नृपांगनाम् ॥

आयांती दूरतो दृष्ट्वा तदंतिकमुपाययौ

॥३३॥

सा दासी नृपतेः कांतां सपुत्रां भृशपीडिताम् ॥

स्वयं विदितवृत्तांता स्वामिने प्रत्यदर्शयत्

॥३४॥

स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् ॥

नीत्वा रहसि सुव्यक्तं तद्वृत्तांतमपृच्छत

॥३५॥

तया निवेदिताशेषवृत्तांतः स वणिक्पतिः ॥

अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः

॥३६॥

तामंतिके स्वगेहस्य संनिवेश्य रहोगृहे ॥

वासोन्नपानशयनैर्मातृसाम्यमपूजयत्

॥३७॥

तस्मिन्गृहे नृपवधूर्निवसंती सुरक्षिता ॥

व्रणयक्ष्मादिरोगाणां न शांतिं प्रत्यपद्यत

॥३८॥

ततो दिनैः कतिपयैः स बालो व्रणपीडितः ॥

विलंघितभिषक्सत्त्वो ममार च विधेर्वशात्

॥३९॥

मृते स्वतनये राज्ञी शोकेन महतावृता ॥

मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी

॥४०॥

दैवात्संज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा ॥

सांत्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता

॥४१॥

हा ताततात हा पुत्र हा मम प्राणरक्षक ॥

हा राजकुलपूर्णेन्दो हा ममानंदवर्धन

॥४२॥

इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबांधवाम् ॥

मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज

॥४३॥

इत्येभिरुदितैर्वाक्यैः शोकचिंताविवर्धकैः ॥

विलपंतीं मृतापत्यां को नु सांत्वयितुं क्षमः

॥४४॥

एतस्मिन्समये तस्या दुःखशोकचिकित्सकः ॥

ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ

॥४५॥

स योगी वैश्यनाथेन सार्घहस्तेन पूजितः ॥

तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत्

॥४६॥

ऋषभ उवाच

अकस्मात्किमहो वत्से रोरवीषि विमूढधीः ॥

को जातः कतमो लोके को मृतो वद सांप्रतम्

॥४७॥

अमी देहादयो भावास्तोयफेनसधर्मकाः ॥

क्वचिद्भ्रांतिः क्वचिच्छांतिः स्थितिर्भवति वा पुनः

॥४८॥

अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते ॥

शोकस्यानवकाशत्वान्न शोचंति विपश्चितः

॥४९॥

गुणैर्भूतानि सृज्यंते भ्राम्यंते निजकर्मभिः ॥

कालेनाथ विकृष्यंते वासनायां च शेरते

॥५०॥

माययोत्पत्तिमायांति गुणाः सत्त्वादयस्त्रयः ॥

तैरेव देहा जायंते जातास्तल्लक्षणाश्रयाः

॥५१॥

देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् ॥

तिर्यक्त्वं तमसा जंतुर्वासनानुगतोवशः

॥५२॥

संसारे वर्तमानेस्मिञ्जंतुः कर्मानुबन्धनात् ॥

दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः

॥५३॥

अपि कल्पायुषां तेषां देवानां तु विपर्ययः ॥

अनेकामयबद्धानां का कथा नरदेहिनाम्

॥५४॥

केचिद्वदंति देहस्य कालमेव हि कारणम् ॥

कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम्

॥५५॥

कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः ॥

जातं दृष्ट्वा न हृष्यंति न शोचंति मृतं बुधाः

॥५६॥

अव्यक्ते जायते जंतुरव्यक्ते च प्रलीयते ॥

मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः

॥५७॥

यदा गर्भगतो देही विनाशः कल्पितस्तदा ॥

दैवाज्जीवति वा जातो म्रियते सहसैव वा

॥५८॥

गर्भस्था एव नश्यंति जातमात्रास्तथा परे ॥

क्वचिद्युवानो नश्यंति म्रियंते केपि वार्धके

॥५९॥

यादृशं प्राक्तनं कर्म तादृशं विंदते वपुः ॥

भुंक्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ

॥६०॥

मायानुभावेरितयोः पित्रोः सुरतसंभ्रमात् ॥

देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः

॥६१॥

आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् ॥

ललाटे लिखितं धात्रा वहञ्जंतुः प्रजायते

॥६२॥

कर्मणामविलंघ्यत्वात्कालस्याप्यनतिक्रमात् ॥

अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि

॥६३॥

क्व स्वप्ने नियतं स्थैर्यमिंद्रजाले क्व सत्यता ॥

क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे

॥६४॥

तव जन्मान्यतीतानि शतकोट्ययुतानि च ॥

अजानंत्याः परं तत्त्वं संप्राप्तोऽयं महाश्रमः

॥६५॥

कस्यकस्यासि तनया जननी कस्यकस्य वा ॥

कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी

॥६६॥

पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः ॥

मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम्

॥६७॥

शरीरांतरमप्येतन्निजदेहोद्भवं मलम् ॥

मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि

॥६८॥

यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः ॥

कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः

॥६९॥

तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः ॥

अतियाति परं मृत्युं न कश्चिदपि पंडितः

॥७०॥

एकस्याद्य मृतिर्जंतोः श्वश्चान्यस्य वरानने ॥

तस्मादनित्यावयवे न त्वं शोचितुमर्हसि

॥७१॥

नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् ॥

व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते

॥७२॥

अतो जन्मजरां जेतुं यदीच्छसि वरानने ॥

शरणं व्रज सर्वेशं मृत्युंजयमुमापतिम्

॥७३॥

तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् ॥

यावन्नो याति शरणं देही शिवपदांबुजम्

॥७४॥

अनुभूयेह दुःखानि संसारे भृशदारुणे ॥

मनो यदा वियुज्येत तदा ध्येयो महेश्वरः

॥७५॥

मनसा पिबतः पुंसः शिवध्यानरसामृतम् ॥

भूयस्तृष्णा न जायेत संसारविषयासवे

॥७६॥

विमुक्तं सर्वसंगैश्च मनो वैराग्ययंत्रितम् ॥

यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः

॥७७॥

तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् ॥

शोकमोहसमाविष्टं मा कुरुष्व शिवं भज

॥७८॥

सूत उवाच

इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना ॥

प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम्

॥७९॥

राज्ञ्युवाच

भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः ॥

महारोगातुराया मे का गतिर्मरणं विना

॥८०॥

अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना ॥

कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी

॥८१॥

सूत उवाच

इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः ॥

पूर्वोपकारं संस्मृत्य मृतस्यांतिकमाययौ

॥८२॥

स तदा भस्म संगृह्य शिवमन्त्राभिमंत्रितम् ॥

विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत्

॥८३॥

स बालः संगतः प्राणैः शनैरुन्मील्य लोचने ॥

प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकांक्षया

॥८४॥

मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः ॥

जना मुमुदिरे सर्वे नगरेषु पुरोगमाः

॥८५॥

अथानंदभरा राज्ञी विह्वलोन्मत्तलोचना ॥

जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना

॥८६॥

उपगुह्य तदा तन्वी परमानंदनिर्वृता ॥

न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात्

॥८७॥

पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः ॥

विषव्रणयुतं देहं भस्मनैव परामृशत्

॥८८॥

तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ ॥

देवानां सदृशं रूपं दधतुः कांतिभूषितम्

॥८९॥

संप्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् ॥

तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम्

॥९०॥

तां पादयोर्निपतितामृषभः प्रेमविह्वलः ॥

उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह

॥९१॥

अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः ॥

यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम्

॥९२॥

एष ते तनयः साध्वि भद्रायुरिति नामतः ॥

ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति

॥९३॥

अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते ॥

यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति

॥९४॥

सूत उवाच

इति तामृषभो योगी तं च राजकुमारकम् ॥

संजीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्

॥९५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्राय्वाख्याने ऋषभयोगिना भद्रायुजीवनं नाम दशमोऽध्यायः ॥ १० ॥