मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय १३

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 13

भद्रायुविवाहकथनम्

सूत उवाच

दशार्णाधिपतेस्तस्य वज्रबाहोर्महाभुजः ॥

बभूव शत्रुर्बलवान्राजा मगधराट् ततः

॥१॥

स वै हेमरथो नाम बाहुशाली रणोत्कटः ॥

बलेन महतावृत्य दशार्णं न्यरुधद्बली

॥२॥

चमूपास्तस्य दुर्धर्षाः प्राप्य देशं दशार्णकम् ॥

व्यलुंपन्वसुरत्नानि गृहाणि ददहुः परे

॥३॥

केचिद्धनानि जगृहुः केचिद्बालान्स्त्रियोऽपरे ॥

गोधनान्यपरेऽगृह्णन्केचिद्धान्यपरिच्छदान् ॥

केचिदारामसस्यानि गृहोद्यानान्यनाशयत्

॥४॥

एवं विनाश्य तद्राज्यं स्त्रीगोधनजिघृक्षवः ॥

आवृत्य तस्य नगरीं वज्रबाहोस्तु मागधः

॥५॥

एवं पर्याकुलं वीक्ष्य राजा नगरमेव च ॥

युद्धाय निर्जगामाशु वज्रबाहुः ससै निकः

॥६॥

वज्रबाहुश्च भूपालस्तथा मंत्रिपुरःसराः ॥

युयुधुर्मागधैः सार्धं निजघ्नुः शत्रुवाहिनीम्

॥७॥

वज्रबाहुर्महेष्वासो दंशितो रथमास्थितः ॥

विकिरन्बाणवर्षाणि चकार कदनं महत्

॥८॥

दशार्णराजं युध्यंतं दृष्ट्वा युद्धे सुदुःसहम् ॥

तमेव तरसा वव्रुः सर्वे मागधसैनिकाः

॥९॥

कृत्वा तु सुचिरं युद्धं मागधा दृढविक्रमाः ॥

तत्सैन्यं नाशयामासुर्लेभिरे च जयश्रियम्

॥१०॥

केचित्तस्य रथं जघ्नुः केचित्तद्धनुराच्छिनम् ॥

सूतं तस्य जघानैकस्त्वपरः खड्गमाच्छिनत्

॥११॥

संछिन्नखड्गधन्वानं विरथं हतसारथिम् ॥

बलाद्गृहीत्वा बलिनो बबंधुर्नृपतिं रुषा

॥१२॥

तस्य मंत्रिगणं सर्वं तत्सैन्यं च विजित्य ते ॥

मागधास्तस्य नगरीं विविशुर्जयकाशिनः

॥१३॥

अश्वान्नरान्गजानुष्ट्रान्पशूंश्चैव धनानि च ॥

जगृहुर्युवतीः सर्वाश्चार्वंगीश्चैव कन्यकाः

॥१४॥

राज्ञो बबंधुर्महिषीर्दासीश्चैव सहस्रशः ॥

कोशं च रत्नसंपूर्णं जह्रुस्तेऽप्याततायिनः

॥१५॥

एवं विनाश्य नगरीं हृत्वा स्त्रीगोधनादिकम् ॥

वज्रबाहुं बलाद्बद्ध्वा रथे स्थाप्य विनिर्ययुः

॥१६॥

एवं कोलाहले जाते राष्ट्रनाशे च दारुणे ॥

राजपुत्रोऽथ भद्रायुस्तद्वार्तामशृणोद्बली

॥१७॥

पितरं शत्रुनिर्बद्धं पितृपत्नीस्तथा हृताः ॥

नष्टं दशार्णराष्ट्रं च श्रुत्वा चुक्रोश सिंहवत्

॥१८॥

स खड्गशंखावादाय वैश्यपुत्रसहायवान् ॥

दंशितो हयमारुह्य कुमारो विजिगीषया

॥१९॥

जवेनागत्य तं देशं मागधैरभिपूरितम् ॥

दह्यमानं क्रंदमानं हृतस्त्रीसुतगोधनम्

॥२०॥

दृष्ट्वा राजजनं सर्वं राज्यं शून्यं भयाकुलम् ॥

क्रोधाध्मातमनास्तूर्णं प्रविश्य रिपुवाहिनीम् ॥

आकर्णाकृष्टकोदंडो ववर्ष शरसंततीः

॥२१॥

ते हन्यमाना रिपवो राजपुत्रेण सायकैः ॥

तमभिद्रुत्य वेगेन शरैर्विव्यधुरुल्बणैः

॥२२॥

हन्यमानोऽस्त्रपूगेन रिपुभिर्युद्धदुर्मदैः ॥

न चचाल रणे धीरः शिववर्माभिरक्षितः

॥२३॥

सोऽस्त्रकर्षं प्रसह्याशु प्रविश्य गजलीलया ॥

जघानाशु रथान्नागान्पदातीनपि भूरिशः

॥२४॥

तत्रैकं रथिनं हत्वा ससूतं नृपनंदनः ॥

तमेव रथमास्थाय वैश्यनंदनसारथिः ॥

विचचार रणे धीरः सिंहो मृगकुलं यथा

॥२५॥

अथ सर्वे सुसंरब्धाः शूराः प्रोद्यतकार्मुकाः ॥

अभिसस्रुस्तमेवैकं चमूपा बलशालिनः

॥२६॥

तेषामापततामग्रे खड्गमुद्यम्य दारुणम् ॥

अभ्युद्ययौ महावीरान्दर्शयन्निव पौरुषम्

॥२७॥

करालांतकजिह्वाभं तस्य खड्गं महोज्ज्वलम् ॥

दृष्ट्वैव सहसा मम्रुश्च मूपास्तत्प्रभावतः

॥२८॥

येये पश्यंति तं खड्गं प्रस्फुरंतं रणांगणे ॥

ते सर्वे निधनं जग्मुर्वज्रं प्राप्येव कीटकः

॥२९॥

अथासौ सर्वसैन्यानां विनाशाय महाभुजः ॥

शंखं दध्मौ महारावं पूरयन्निव रोदसी

॥३०॥

तेन शंखनिनादेन विषाक्तेनैव भूयसा ॥

श्रुतमात्रेण रिपवो मूर्च्छिताः पतिता भुवि

॥३१॥

येऽश्वपृष्ठे रथे ये च ये च दंतिषु संस्थिताः ॥

ते विसंज्ञाः क्षणात्पेतुः शंखनादहतौजसः

॥३२॥

तान्भूमौ पतितान्सर्वान्नष्टसंज्ञा न्निरायुधान् ॥

विगणय्य शवप्रायाननावधीद्धर्मशास्त्रवित्

॥३३॥

आत्मनः पितरं बद्धं मोचयित्वा रणाजिरे ॥

तत्पत्नीः शत्रुवशगाः सर्वाः सद्यो व्यमोचयत्

॥३४॥

पत्नीश्च मंत्रिमुख्यानां तथान्येषां पुरौकसाम् ॥

स्त्रियो बालांश्च कन्याश्च गोधनादीन्यनेकशः

॥३५॥

मोचयित्वा रिपुभयात्तमाश्वासयदाकुलः ॥

अथारिसैन्येषु चरंस्तेषां जग्राह योषितः

॥३६॥

मरुन्मनोजवानश्वान्मातंगान्गिरिसन्निभान् ॥

स्यंदनानि च रौक्माणि दासीश्च रुचिराननाः

॥३७॥

युग्मम् ॥

सर्वमाहृत्य वेगेन गृहीत्वा तद्धनं बहु ॥

मागधेशं हेमरथं निर्बबंध पराजितम्

॥३८॥

तन्मंत्रिणश्च भूपांश्च तत्र मुख्यांश्च नायकान् ॥

गृहीत्वा तरसा बद्ध्वा पुरीं प्रावेशयद्द्रुतम्

॥३९॥

पूर्वं ये समरे भग्ना विवृत्ताः सर्वतोदिशम् ॥

ते मंत्रिमुख्या विश्वस्ता नायकाश्च समाययुः

॥४०॥

कुमारविक्रमं दृष्ट्वा सर्वे विस्मितमानसाः ॥

तं मेनिरे सुरश्रेष्ठं कारणादागतं भुवम्

॥४१॥

अहो नः सुमहाभाग्यमहो नस्तपसः फलम् ॥

केनाप्यनेन वीरेण मृताः संजीविताः खलु

॥४२॥

एष किं योगसिद्धो वा तपःसिद्धो ऽथवाऽमरः ॥

अमानुषमिद कर्म यदनेन कृतं महत्

॥४३॥

नूनमस्य भवेन्माता सा गौरीति शिवः पिता ॥

अक्षौहिणीनां नवकं जिगायानंतशक्तिधृक्

॥४४॥

इत्याश्चर्ययुतैर्हृष्टैः प्रशंसद्भिः परस्परम् ॥

पृष्टोऽमात्यजनेनासावात्मानं प्राह तत्त्वतः

॥४५॥

समागतं स्वपितरं विस्मयाह्लादविप्लुतम् ॥

मुंचंतमानंदजलं ववंदे प्रेमविह्वलः

॥४६॥

स राजा निजपुत्रेण प्रणयादभिवंदितः ॥

आश्लिष्य गाढं तरसा बभाषे प्रेमकातरः

॥४७॥

कस्त्वं देवो मनुष्यो वा गन्धर्वो वा महामते ॥

का माता जनकः को वा को देशस्तव नाम किम्

॥४८॥

कस्मान्न शत्रुभिर्बद्धान्मृतानिव हतौजसः ॥

कारुण्यादिह संप्राप्य सपत्नीकान्मुमोच यः

॥४९॥

कुतो लब्धमिदं शौर्यं धैर्यं तेजो बलोन्नतिः ॥

जिगीषसीव लोकांस्त्रीन्सदेवासुरमानुषान्

॥५०॥

अपि जन्मसहस्रेण तवानृण्यं महौजसः ॥

कर्तुं नाहं समर्थोस्मि सहैभिर्दारबांधवैः

॥५१॥

इमान्पुत्रानिमाः पत्नीरिदं राज्यमिदं पुरम् ॥

सर्वं विहाय मच्चित्तं त्वय्येव प्रेमबंधनम्

॥५२॥

सर्वं कथय मे तात मत्प्राणपरिरक्षक ॥

एतासां मम पत्नीनां त्वदधीनं हि जीवितम्

॥५३॥

सूत उवाच

इति पृष्टः स भद्रायुः स्वपित्रा तमभाषत ॥

एष वैश्यसुतो राजन्सुनयो नाम मत्सखा

॥५४॥

अहमस्य गृहे रम्ये वसामि सहमातृकः ॥

भद्रायुर्नाम मद्वृत्तं पश्चाद्विज्ञापयामि ते

॥५५॥

पुरं प्रविश्य भद्रं ते सदारः ससुहृज्जनः ॥

त्यक्त्वा भयमरातिभ्यो विहरस्व यथासुखम्

॥५६॥

नैतान्मुंच रिपूंस्तावद्यावदागमनं मम ॥

अहमद्य गमिष्यामि शीघ्रमात्मनिवेशनम्

॥५७॥

इत्युक्त्वा नृपमामंत्र्य भद्रायुर्नृपनंदनः ॥

आजगाम स्वभवनं मात्रे सर्वं न्यवेदयत्

॥५८॥

सापि हृष्टा स्वतनयं परिरेभेऽश्रुलोचना ॥

स च वैश्यपतिः प्रेम्णा परिष्वज्याभ्यपूजयत्

॥५९॥

वज्रबाहुश्च राजेंद्रः प्रविष्टो निजमंदिरम् ॥

स्त्रीपुत्रामात्य सहितः प्रहर्षमतुलं ययौ

॥६०॥

तस्यां निशायां व्युष्टायामृषभो योगिनां वरः ॥

चंद्रांगदं समागत्य सीमंतिन्याः पतिं नृपम्

॥६१॥

भद्रायुषः समुत्पत्तिं तस्य कर्माप्यमानुषम् ॥

आवेद्य रहसि प्रेम्णा त्वत्सुतां कीर्तिमालिनीम्

॥६२॥

भद्रायुषे प्रयच्छेति बोधयित्वा च नैषधम् ॥

ऋषभो निर्जगामाथ देशकालार्थतत्त्ववित्

॥६३॥

विशेषकम् ॥

अथ चंद्रांगदो राजा मुहूर्त्ते मंगलोचिते ॥

भद्रायुषं समाहूय प्रायच्छत्कीर्त्तिमालिनीम्

॥६४॥

कृतोद्वाहः स राजेंद्रतनयः सह भार्यया ॥

हेमासनस्थः शुशुभे रोहिण्येव निशाकरः

॥६५॥

वज्रबाहुं तत्पितरं समाहूय स नैषधः ॥

पुरं प्रवेश्य सामात्यः प्रत्युद्गम्याभ्यपूजयत्

॥६६॥

तत्रापश्यत्कृतोद्वाहं भद्रायुषमरिंदमम् ॥

पादयोः पतितं प्रेम्णा हर्षात्तं परिषस्वजे

॥६७॥

एष मे प्राणदो वीर एष शत्रुनिषूदनः ॥

अथाप्यज्ञातवंशोऽयं मयानंतपराक्रमः

॥६८॥

एष ते नृप जामाता चंद्रांगद महाबलः ॥

अस्य वंशमथोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः

॥६९॥

इत्थं दशार्णराजेन प्रार्थितो निषधाधिपः ॥

विविक्त उपसंगम्य प्रहसन्निदमब्रवीत्

॥७०॥

एष ते तनयो राजञ्छैशवे रोगपीडितः ॥

त्वया वने परित्यक्तः सह मात्रा रुजार्तया

॥७१॥

परिभ्रमंती विपिने सा नारी शिशुनामुना ॥

दैवाद्वैश्यगृहं प्राप्ता तेन वैश्येन रक्षिता

॥७२॥

अथासौ बहुरोगार्तो मृतस्तव कुमारकः ॥

केनापि योगिराजेन मृतः संजीवितः पुनः

॥७३॥

ऋषभाख्यस्य तस्यैव प्रभावाच्छिवयोगिनः ॥

रूपं च देवसदृशं प्राप्तौ मातृकुमारकौ

॥७४॥

तेन दत्तेन खड्गेन शंखेन रिपुघातिना ॥

जिगाय समरे शत्रूञ्छिववर्माभिरक्षितः

॥७५॥

द्विषट्सहस्रनागानां बलमेको बिभर्त्यसौ ॥

सर्वविद्यासु निष्णातो मम जामातृतां गतः

॥७६॥

अत एनं समादाय मातरं चास्य सुव्रताम् ॥

गच्छस्व नगरीं राजन्प्राप्स्यसि श्रेय उत्तमम्

॥७७॥

इति चंद्रांगदः सर्वमाख्यायांतर्गृहे स्थिताम् ॥

तस्याग्र पत्नीमाहूय दर्शयामास भूषिताम्

॥७८॥

इत्यादि सर्वमाकर्ण्य दृष्ट्वा च स महीपतिः ॥

व्रीडितो नितरां मौढ्यात्स्वकृतं कर्म गर्हयन् ॥

७९ !।

प्राप्तश्च परमानन्दं तयोर्दर्शनकौतुकात् ॥

पुलकांकितसर्वांगस्तावुभौ परिषस्वजे

॥८०॥

युग्मम् ॥

एवं निषधराजेन पूजितश्चाभिनन्दितः ॥

स भोजयित्वा तं सम्यक्स्वयं च सह मंत्रिभिः

॥८१॥

तामात्मनोग्रमहिषीं पुत्रं तमपि तां स्नुषाम् ॥

आदाय सपरीवारो वज्रबाहुः पुरीं ययौ

॥८२॥

स संभ्रमेण महता भद्रायुः पितृमंदिरम् ॥

संप्राप्य परमानंदं चक्रे सर्वपुरौकसाम्

॥८३॥

कालेन दिवमारूढे पितरि प्राप्तयौवनः ॥

भद्रायुः पृथिवीं सर्वां शशासाद्भुतविक्रमः

॥८४॥

मागधेशं हेमरथं मोचयामास बंधनात् ॥

संधाय मैत्रीं परमां ब्रह्मर्षीणां च सन्निधौ

॥८५॥

इत्थं त्रिलोकमहितां शिवयोगिपूजां कृत्वा पुरातनभवेऽपि स राजसूनुः ॥

निस्तीर्य दुःसहविपद्गणमाप्तराज्यश्चंद्रांगदस्य सुतया सह साधु रेमे

॥८६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे भद्रायुविवाहकथनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥