मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय २

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 2

गोकर्णमहिमानुवर्णनम्

सूत उवाच

अथान्यदपि वक्ष्यामि माहात्म्यं त्रिपुरद्विषः ॥

श्रुतमात्रेण येनाशु च्छिद्यंते सर्वसंशयाः

॥१॥

अतः परतरं नास्ति किंचित्पापविशोधनम् ॥

सर्वानंदकरं श्रीमत्सर्वकामार्थसाधम्

॥२॥

दीर्घायुर्विजयारोग्यभुक्तिमुक्तिफलप्रदम् ॥

यदनन्येन भावेन महे शाराधनं परम्

॥३॥

आर्द्राणामपि शुष्काणामल्पानां महतामपि ॥

एतदेव विनिर्दिष्टं प्रायश्चितमथोत्तमम्

॥४॥

सर्वकालेऽप्यभेद्यानामघानां क्षयकारणम् ॥

महामुनिविनिर्दिष्टैः प्रायश्चित्तैरथोत्तमैः

॥५॥

इयमेव परं श्रेयः सर्वशास्त्रविनिश्चितम् ॥

यद्भक्त्या परमेशस्य पूजनं परमो दयम्

॥६॥

जानताऽजानता वापि येन केनापि हेतुना ॥

यत्किंचिपि देवाय कृतं कर्म विमुक्तिदम्

॥७॥

माघे कृष्णचतुर्द्दश्यामुपवासोऽति दुर्लभः ॥

तत्रापि दुर्लभं मन्ये रात्रौ जागरणं नृणाम्

॥८॥

अतीव दुर्लभं मन्ये शिवलिंगस्य दर्शनम् ॥

सुदुर्लभतरं मन्ये पूजनं परमेशितुः

॥९॥

भवकोटिशतोत्पन्नषुण्यराशिविपाकतः ॥

लभ्यते वा पुनस्तत्र बिल्वपत्रार्चनं विभोः

॥१०॥

वर्षाणामयुतं येन स्नातं गंगासरिज्जले ।

सकृद्बिल्वार्चनेनैव तत्फलं लभते नरः

॥११॥

यानियानि तु पुण्यानि लीनानीह युगेयुगे ॥

माघेऽसितचतुर्दश्यां तानि तिष्ठंति कृत्स्नशः

॥१२॥

एतामेव प्रशंसंति लोके ब्रह्मादयः सुराः ॥

मुनयश्च वशिष्ठाद्या माघेऽसितचतुर्दशीम्

॥१३॥

अत्रोपवासः केनापि कृतः क्रतुशताधिकैः ॥

रात्रौ जागरणं पुण्यं कल्पकोटितपोऽधिकम्

॥१४॥

एकेन बिल्वपत्रेण शिवलिंगार्चनं कृतम् ॥

त्रैलोक्ये तस्य पुण्यस्य को वा सादृश्यमिच्छति

॥१५॥

अत्रानुवर्ण्यते गाथा पुण्या परमशोभना ॥

गोपनीयापि कारुण्याद्गौतमेन प्रकाशिता

॥१६॥

इक्ष्वाकुवंशजः श्रीमान्राजा परम धार्मिकः ॥

आसीन्मित्रसहोनाम श्रेष्ठः सर्वधनुर्भृताम्

॥१७॥

स राजा सकलास्त्रज्ञः शास्त्रज्ञः श्रुतिपारगः ॥

वीरोऽत्यंतबलोत्साहो नित्योद्योगी दयानिधिः

॥१८॥

पुण्यानामिव संघातस्तेजसामिव पंजरः ॥

आश्चर्याणामिव क्षेत्रं यस्य मूर्तिर्विराजते

॥१९॥

हृदयं दययाक्रांतं श्रियाक्रांतं च तद्वपुः ॥

चरणौ यस्य सामंतचूडामणिमरीचिभिः

॥२०॥

एकदा मृगयाकेलिलोलुपः स महीपतिः ॥

विवेश गह्वरं घोरं बलेन महतावृतः

॥२१॥

तत्र विव्याध विशिखैः शार्दूलान्गवयान्मृगान् ॥

रुरून्वराहान्महिषान्मृगेंद्रानपि भूरिशः

॥२२॥

स रथी मृगयासक्तो गहनं दंशित श्चरन् ॥

कमपि ज्वलनाकारं निजघान निशाचरम्

॥२३॥

तस्यानुजः शुचाविष्टो दृष्ट्वा दूरे तिरोहितः ॥

भ्रातरं निहतं दृष्ट्वा चिंतयामास चेतसा

॥२४॥

नन्वेष राजा दुर्द्धर्षो देवानां रक्षसामपि ॥

छद्मनैव प्रजेतव्यो मम शत्रुर्न चान्यथा

॥२५॥

इति व्यवसितः पापो राक्षसो मनुजाकृतिः ॥

आससाद नृपश्रेष्ठमुत्पात इव मूर्तिमान्

॥२६॥

तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम् ॥

चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः

॥२७॥

अथ तस्मिन्वने राजा किंचित्कालं विहृत्य सः ॥

निवृत्तो मृगयां हित्वा स्वपुरीं पुनराययौ

॥२८॥

तस्य राजेंद्रमुख्यस्य मदयंतीतिनामतः ॥

दमयन्ती नलस्येव विदिता वल्लभा सती

॥२९॥

एतस्मिन्समये राजा निमंत्र्य मुनिपुंगवम् ॥

वशिष्ठं गृहमानिन्ये संप्राप्ते पितृवासरे

॥३०॥

रक्षसा सूदरूपेण संमिश्रितनरामिषम् ॥

शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत्

॥३१॥

धिग्धिङ्नरामिषं राजं स्त्वयैतच्छद्मकारिणा ॥

खलेनोपहृतं मेऽद्य अतो रक्षो भविष्यसि

॥३२॥

रक्षःकृतमविज्ञाय शप्त्वैवं स गुरुस्ततः ॥

पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम्

॥३३॥

राजापि कोपितः प्राह यदिदं मे न चेष्टितम् ॥

न ज्ञातं च वृथा शप्तो गुरुं चैव शपाम्यहम्

॥३४॥

इत्यपोंजलिनादाय गुरुं शप्तुं समुद्यतः ॥

पतित्वा पादयोस्तस्य मदयन्ती न्यवारयत्

॥३५॥

ततो निवृत्तः शापाच्च तस्या वचनगौरवात् ॥

तत्याज पादयोरंभः पादौ कल्मषतां गतौ

॥३६॥

कल्मषांघ्रिरिति ख्यातस्ततः प्रभृति पार्थिवः ॥

बभूव गुरुशापेन राक्षसो वनगोचरः

॥३७॥

स बिभ्रद्राक्षसं रूपं घोरं कालां तकोपमम् ॥

चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः

॥३८॥

स कदाचिद्वने क्वापि रममाणौ किशोरकौ ॥

अपश्यदंतकाकारो नवोढौ मुनिदंपती

॥३९॥

राक्षसो मानुषाहारः किशोरमुनिनंदनम् ॥

जग्धुं जग्राह शापार्तो व्याघ्रो मृगशिशुं यथा

॥४०॥

रक्षोगृहीतं भर्तारं दृष्ट्वा भीताथ तत्प्रिया ॥

उवाच करुणं बाला क्रंदंती भृशवेपिता

॥४१॥

भोभो मामा कृथाः पापं सूर्यवंशयशोधर ॥

मदयंतीपतिस्त्वं हि राजेंद्रो न तु राक्षसः

॥४२॥

न खाद मम भर्त्तारं प्राणात्प्रियतमं प्रभो ॥

आर्त्तानां शरणार्त्तानां त्वमेव हि यतो गतिः

॥४३॥

पापानामिव संघातैः किं मे दुष्टैर्जडासुभिः ॥

देहेन चातिभारेण विना भर्त्रा महात्मना

॥४४॥

मलीमसेन पापेन पांचभौतेन किं सुखम् ॥

बालोयं वेदविच्छांतस्तपस्वी बहुशास्त्रवित्

॥४५॥

अतोऽस्य प्राणदानेन जगद्रक्षा त्वया कृता।

कृपां कुरु महाराज बालायां ब्राह्मणस्त्रियाम्

॥४६॥

अनाथकृपणार्तेषु सघृणाः खलु साधवः ॥

|| इत्थमभ्यर्थितः सोऽपि पुरुषादः स निर्घृणः

॥४७॥

चखाद शिर उत्कृत्य विप्रपुत्रं दुराशयः ॥

अथ साध्वी कृशा दीना विलप्य भृशदुःखिता

॥४८॥

आहृत्य भर्तुरस्थीनि चितां चक्रे तथोल्बणाम् ॥

भर्तारमनुगच्छंती संविशंती हुताशनम्

॥४९॥

राजानं राक्षसाकारं शापास्त्रेण जघान तम् ॥

रेरे पार्थिव पापात्मंस्त्वया मे भक्षितः पतिः

॥५०॥

अतः पतिव्रतायास्त्वं शापं भुंक्ष्व यथोल्बणम् ॥

अद्यप्रभृति नारीषु यदा त्वमपि संगतः ।

तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती

॥५१॥

सोऽपि राजा गुरोः शापमुपभुज्य कृतावधिम् ॥

पुनः स्वरूपमादाय स्वगृहं मुदितो ययौ

॥५२॥

ज्ञात्वा विप्रसतीशापं तत्पत्नी रतिलालसम् ॥

पतिं निवारयामास वैधव्यातिबिभ्यती

॥५३॥

अनपत्यः स निर्विण्णो राज्यभोगेषु पार्थिवः ॥

विसृज्य सकलं लक्ष्मीं ययौ भूयोऽपि काननम्

॥५४॥

सूर्यवंशप्रतिष्ठित्यै वशिष्ठो मुनिसत्तमः ॥

तस्यामुत्पादयामास मदयंत्यां सुतोत्तमम्

॥५५॥

विसृष्टराज्यो राजापि विचरन्सकलां महीम् ॥

आयांतीं पृष्ठतोऽपश्यत्पिशाचीं घोररूपिणीम्

॥५६॥

सा हि मूर्तिमती घोरा ब्रह्महत्या दुरत्यया ॥

यदासौ शापविभ्रष्टो मुनिपुत्रमभक्षयत्

॥५७॥

तेनात्मकर्मणा. यांतीं ब्रह्महत्यां स पृष्ठतः ॥

बुबुधे मुनिवर्याणामुपदेशेन भूपतिः

॥५८॥

तस्या निर्वेशमन्विच्छन्राजा निर्विण्णमानसः ॥

नानाक्षेत्राणि तीर्थानि चचार बहुवत्सरम्

॥५९॥

यदा सर्वेषु तीर्थेषु स्नात्वापि च मुहुर्मुहुः ॥

न निवृत्ता ब्रह्महत्या मिथिलामाययौ तदा ॥

बाह्योद्यानगतस्तस्याश्चिंतया परयार्दितः

॥६०॥

ददर्श मुनिमायांतं गौतमं विमलाशयम् ॥

हुताशनमिवाशेषतपस्विजनसेवितम्

॥६१॥

विवस्वंतमिवात्यंतं घनदोषतमोनुदम् ॥

शशांकमिव निःशंकमवदातगुणोदयम्

॥६२॥

महेश्वरमिव श्रीमद्द्विजराजकलाधरम् ॥

शांतं शिष्यगणोपेतं तपसामेकभाजनम्

॥६३॥

उपसृत्य स राजेंद्रः प्रणनाम मुहुर्मुहुः ॥

गौतमोऽपि मुनिश्रेष्ठो राजानं रविवंशजम्

॥६१॥

अभिनंद्य मुनिः प्रीत्या संस्मितं समभाषत

॥६९॥

गौतम उवाच

कच्चित्ते कुशलं राजन्कच्चित्ते पदमव्ययम्

॥६६॥

कुशलिन्यः प्रजाः कच्चिदवरोधजनोपि वा ॥

किमर्थमिह संप्राप्तो विसृज्य सकलां श्रियम्

॥६७॥

किं च ध्यायसि भो राजन्दीर्घमुष्णं च निःश्वसन्

॥६८॥

ll राजोवाच

सर्वे कुशलिनो ब्रह्मन्वयं त्वदनुकंपया।

राज्ञामुत्तमवंश्यानां ब्रह्मायत्ता हि संपदः ॥

किं नु मां बाधते त्वेषा पिशाची घोररूपिणी

॥६९॥

अलक्षिता मदपरैर्भर्त्सयंती पदेपदे ॥

यन्मया शापदग्धेन कृतमहो दुरत्ययम् ॥

न शांतिर्जायते तस्य प्रायश्चित्तसहस्रकैः

॥७०॥

इष्टाश्च विविधा यज्ञाः कोशसर्वस्वदक्षिणाः ॥

सरित्सरांसि स्नातानि यानि पूज्यानि भूतले ॥

निषेवितानि सर्वाणि क्षेत्राणि भ्रमता मया

॥७१॥

जप्तान्यखिलमंत्राणि ध्याताः सकलदेवताः ॥

महाव्रतानि चीर्णानि पर्णमूलफलाशिना

॥७२॥

तानि सर्वाणि कुर्वंति स्वस्थं मां न कदाचन ॥

अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्ष्यते

॥७३॥

यतस्त्वद्दर्शनादेव ममात्मानंदभागभूत् ॥

अन्विच्छँल्लभते क्वापि वर्षपूगैर्मनोरथम्

॥७४॥

इत्येवं जनवादोऽपि संप्राप्तो मयि सत्यताम् ॥

आजन्मसंचितानां तु पुण्यानामुदयोदये

॥७५॥

यद्भवान्भवभीतानां त्राता नयनगोचरः ॥

कस्माद्देशादिहायातो भवान्भवभयापहः

॥७६॥

दूरभ्रमणविश्रांतं शंके त्वामिह चागतम् ॥

दृष्ट्वाश्चर्यमिवात्यर्थं मुदितोसि मुखश्रिया

॥७७॥

आनंदयसि मे चेतः प्रेम्णा संभाषणादिव ॥

अद्य मे तव पादाब्जशरणस्य कृतैनसः ॥

शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम्

॥७८॥

इति तेन समादिष्टो गौतमः करुणानिधिः ॥

समादिदेश घोराणामघानां साधु निष्कृतिम्

॥७९॥

गौतम उवाच

साधु राजेंद्र धन्योऽसि महा घेभ्यो भयं त्यज

॥८०॥

शिवे त्रातरि भक्तानां क्व भयं शरणैषिणाम् ॥

शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम्

॥८१॥

महापातकसंहारि गोकर्णाख्यं मनोरमम् ॥

यत्र स्थितिर्न पापानां महद्भ्यो महतामपि

॥८२॥

स्मृतो ह्यशेषपापघ्नो यत्र संनिहितः शिवः ॥

यथा कैलासशिखरे यथा मंदारमूर्द्धनि

॥८३॥

निवासो निश्चितः शंभोस्तथा गोकर्णमण्डले ॥

नाग्निना न शशांकेन न ताराग्रहनायकैः

॥८४॥

तमो निस्तीर्यते सम्य ग्यथा सवितृदर्शनात् ॥

तथैव नेतरैस्तीर्थैर्न च क्षेत्रैर्मनोरमैः

॥८५॥

सद्यः पापविशुद्धिः स्याद्यथा गोकर्णदर्शनात् ॥

अपि पापशतं कृत्वा ब्रह्म हत्यादि मानवः

॥८६॥

सकृत्प्रविश्य गोकर्णं न बिभेति ह्यघात्क्वचित् ॥

तत्र सर्वे महात्मानस्तपसा शांतिमागताः

॥८७॥

इन्द्रोपेंद्रविरिंच्याद्यैः सेव्यते सिद्धिकांक्षिभिः ॥

तत्रैकेन दिनेनापि यत्कृतं व्रतमुत्तमम्

॥८८॥

तदन्यत्राब्दलक्षेण कृतं भवति तत्समम् ॥

यत्रेंद्रब्रह्मविष्ण्वादिदेवानां हितकाम्यया

॥८९॥

महाबलाभिधानेन देवः संनिहितः स्वयम् ॥

घोरेण तपसा लब्धं रावणाख्येन रक्षसा

॥९०॥

तल्लिंगं स्थापयामास गोकर्णे गणनायकः ॥

इन्द्रो ब्रह्मा मुकुन्दश्च विश्वेदेवा मरुद्गणाः

॥९१॥

आदित्या वसवो दस्रौ शशांकश्च दिवाकरः ॥

एते विमानगतयो देवास्ते सह पार्षदैः

॥९२॥

पूर्वद्वारं निषेवन्ते देवदेवस्य शूलिनः ॥

योन्यो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः

॥९३॥

पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः ॥

वरुणः सरितां नाथो गंगादिसरितां गणैः

॥९४॥

आसेवते महादेवं पश्चिमद्वारमाश्रितः ॥

तथा वायुः कुबेरश्च देवेशी भद्रकर्णिका

॥९५॥

मातृभिश्चंडिकाद्याभिरुत्तरद्वारमाश्रिता ॥

विश्वावसुश्चित्ररथश्चित्रसेनो महाबलः

॥९६॥

सह गन्धर्ववर्गैश्च पूजयंति महाबलम् ॥

रंभा घृताची मेना च पूर्वचित्तिस्तिलोत्तमा

॥९७॥

नृत्यंति पुरतः शम्भोरुर्वश्याद्याः सुरस्त्रियः ॥

वशिष्ठः कश्यपः कण्वो विश्वामित्रो महा तपाः

॥९८॥

जैमिनिश्च भरद्वाजो जाबालिः क्रतुरंगिराः ॥

एते वयं च राजेंद्र सर्वे ब्रह्मर्षयोऽमलाः

॥९९॥

देवं महाबलं भक्त्या समंतात्पर्यु पास्महे ॥

मरीचिना सहात्रिश्च दक्षाद्याश्च मुनीश्वराः

॥१००॥

सनकाद्या महात्मान उपविष्टा उपासते ॥

तथैव मुनयः साध्या अजिनांबर धारिणः

॥१॥

दंडिनो व्रतमुण्डाश्च स्नातका ब्रह्मचारिणः ॥

त्वगस्थिमात्रावयवास्तपसा दग्धकिल्बिषाः

॥२॥

सेवन्ते परया भक्त्या देवदेवं पिनाकिनम् ॥

तथा देवाः सगन्धर्वाः पितरः सिद्धचारणाः

॥३॥

विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः ॥

नागाः पिशाचा वेताला दैतेयाश्च महाबलाः

॥४॥

नानाविभवसंपन्ना नानाभूषणवाहनाः ॥

विमानैः सूर्यसंकाशैरग्निवर्णैः शशिप्रभैः

॥५॥

विद्युत्पुंजनिभैरन्यैः समं तात्परिवारितम् ॥

प्रस्तुवंति प्रगायंति पठंति प्रणमंति च

॥६॥

प्रनृत्यंति प्रहृष्यंति गोकर्णे पृथिवीपते ॥

लभंतेऽभीप्सितान्कामान्रमंते च यथा सुखम्

॥७॥

गोकर्णसदृशं क्षेत्रं नास्ति ब्रह्मांडगोलके ॥

तत्र घोरं तपस्तप्तमगस्त्येन महात्मना

॥८॥

तथा सनत्कुमारेण प्रियव्रतसुतैरपि ॥

अग्निना देववर्येण कन्दर्पेण च पार्थिव

॥९॥

तथा देव्या भद्रकाल्या शिशुमारेण धीमता ॥

दुर्मुखेन फणींद्रेण मणिनागाह्वयेन च

॥११०॥

इलावर्तादिभिर्नागैर्गरुडेन बलीयसा ॥

रक्षसा रावणेनापि कुम्भकर्णाह्वयेन तु

॥११॥

विभीषणेन पुण्येन तपस्तप्तं महात्मना ॥

एते चान्ये च गीर्वाणाः सिद्धदानवमानवाः

॥१२॥

गोकर्णे देवदेवेशं शिवमाराध्य भक्तितः ॥

स्वनामांकानि लिंगानि स्थापयित्वा सहस्रशः

॥१३॥

लेभिरे परमां सिद्धिं तथा तीर्थानि चक्रिरे ॥

अत्र स्थानानि सर्वेषां देवानां संति पार्थिव

॥१४॥

विष्णोश्च देवदेवस्य ब्रह्मणः परमेष्ठिनः ॥

कार्त्तिकेयस्य वीरस्य गजवक्त्रस्य चानघ

॥१५॥

धर्मस्य क्षेत्रपालस्य दुर्गायाश्च महामते ॥

गोकर्णे शिवलिंगानि विद्यंते कोटिकोटिशः

॥१६॥

असंख्यातानि तीर्थानि तिष्ठंति च पदेपदे ॥

बहुनात्र किमुक्तेन गोकर्णस्थानि पार्थिव

॥१७॥

सर्वाण्यश्मानि लिंगानि तीर्थान्यंभांसि सर्वशः ॥

गोकर्णे शिवलिंगानां तीर्थानामपि भूरिशः

॥१८॥

गीयते महिमा राजन्पुराणेषु महर्षिभिः ॥

गोकर्णे कोटितीर्थं च तीर्थानां मुख्यतां गतम्

॥१९॥

सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ॥

कृते महाबलः श्वेतस्त्रेतायामतिलोहितः

॥१२०॥

द्वापरे पीत वर्णश्च कलौ श्यामो भविष्यति ॥

आक्रांतं सप्तपातालं कुर्वन्नपि महाबलः

॥२१॥

प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति ॥

पश्चिमांबुधितीरस्थं गोकर्णक्षेत्रमुत्तमम्

॥२२॥

ब्रह्महत्यादिपापानि दहतीति किमद्भुतम् ॥

ये चात्र ब्रह्महंतारो ये च भूतद्रुहः शठाः

॥२३॥

ये सर्वगुणहीनाश्च परदाररताश्च ये ॥

ये दुर्वृत्ता दुराचारा दुःशीलाः कृपणाश्च ये

॥२४॥

लुब्धाः क्रूराः खला मूढाः स्ते नाश्चैवातिकामिनः ॥

ते सर्वे प्राप्य गोकर्णं स्नात्वा तीर्थजलेषु च

॥१२५॥

देवं महाबलं दृष्ट्वा प्रयाताः शांकरं पदम् ॥

तत्र पुण्यासु तिथिषु पुण्य र्क्षे पुण्यवासरे

॥२६॥

येऽर्चयंति महेशानं ते रुद्राः स्युर्न संशयः ॥

यदा कदाचिद्गोकर्णं यो वा को वापि मानवः

॥२७॥

प्रविश्य पूजयेदीशं स गच्छेद्ब्रह्मणः पदम् ॥

रवींदुसौम्यवारेषु यदा दर्शो भविष्यति

॥२८॥

तदा जलनिधौ स्नानं दानं च पितृतर्पणम् ॥

शिवपूजा जपो होमो व्रतचर्या द्विजार्चनम्

॥२९॥

यत्किंचिद्वा कृतं कर्म तदनंतफलप्रदम् ॥

व्यतीपातादियोगेषु रविसंक्रमणेषु च

॥१३०॥

महाप्रदोषवेलासु शिव पूजा विमुक्तिदा ॥

अथैकां ते प्रवक्ष्यामि तिथिं पार्थिव मुक्तिदाम्

॥३१॥

यस्यां किल महाव्याधो लेभे शंभोः परं पदम् ॥

माघमासे महापुण्या या सा कृष्णचतुर्दशी

॥३२॥

शिवलिंगं बिल्वपत्रं दुर्लभं हि चतुष्टयम् ॥

अहो बलवती माया यया शैवी महातिथिः

॥३३॥

नोपोष्यते जनैर्मूढैर्महामूकैरिव त्रयी ॥

उपवासो जागरणं सन्निधिः परमेशितुः

॥३४॥

गोकर्णं शिवलोकस्य नृणां सोपानपद्धतिः ॥

शृणु राजन्नहमपि गोकर्णा दधुनागतः

॥१३५॥

उपास्यैनां शिवतिथिं विलोक्य च महोत्सवम् ॥

अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः

॥३६॥

आगताः सर्वदेशेभ्यश्चातुर्वर्णा महाजनाः ॥

स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः

॥३७॥

आगत्य दृष्ट्वा देवेशं लेभिरे कृतकृत्यताम् ॥

अथाहमप्यमी शिष्या ऋषयश्च तथाऽपरे

॥३८॥

राजर्षयश्च राजेंद्र सनकाद्याः सुरर्षयः ॥

स्नात्वा सर्वेषु तीर्थेषु समुपास्य महाबलम्

॥३९॥

लब्ध्वा च जन्मसाफल्यं प्रयाताः सर्वतोदिशम् ॥

अमुनाद्य नरेंद्रेण जनकेन यियक्षुणा

॥१४०॥

निमंत्रितोऽहं संप्राप्तो गोकर्णाच्छिवमंदिरात् ॥

प्रत्यागमं किमप्यंग दृष्ट्वाश्चर्यमहं पथि ॥

महानंदेन मनसा कृतार्थोऽस्मि महीपते

॥१४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खंडे गोकर्णमहिमानुवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥