मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय ३

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 3

शिवचतुर्दशीगोकर्णमाहात्म्यवर्णनम्

राजोवाच

किं दृष्टं भवता ब्रह्मन्नाश्चर्यं पथि कुत्र वा ॥

तन्ममाख्याहि येनाहं कृतकृत्यत्वमाप्नुयाम्

॥१॥

गौतम उवाच

गोकर्णादहमागच्छन्क्वापि देशे विशांपते ॥

जाते मध्याह्नसमये लब्ध वान्विमलं सरः

॥२॥

तत्रोपस्पृश्य सलिलं विनीय च पथिश्रमम् ॥

सुस्निग्धशीतलच्छायं न्यग्रोधं समुपाश्रयम्

॥३॥

अथाविदूरे चांडालीं वृद्धामंधां कृशाकृतिम् ॥

शुष्यन्मुखीं निराहारां बहुरोगनिपीडिताम्

॥४॥

कुष्ठव्रणपरीतांगीमुद्यत्कृमिकुलाकुलाम् ॥

पूयशोणितसंसक्तजरत्पटल सत्कटीम्

॥५॥

महायक्ष्मगलस्थेन कंठसंरोधविह्वलाम् ॥

विनष्टदंतामव्यक्तां विलुठंतीं मुहुर्मुहुः

॥६॥

चंडार्ककिरणस्पृष्टखरोष्णरजसाप्लुताम् ॥

विण्मूत्रपूयदिग्धांगीमसृग्गंधदुरासदाम्

॥७॥

कफरोगबहुश्वासश्लथन्नाडीबहुव्यथाम् ॥

विध्वस्तकेशावयवामपश्यं मरणोन्मुखीम्

॥८॥

तादृग्व्यथां च तां वीक्ष्य कृपयाहं परिप्लुतः ॥

प्रतीक्षन्मरणं तस्याः क्षणं तत्रैव संस्थितः

॥९॥

अथांतरिक्षपदवीं सिंचंतमिव रश्मिभिः ॥

दिव्यं विमानमानीतमद्राक्षं शिवकिंकरैः

॥१०॥

तस्मिन्रवींदुवह्नीनां तेजसामिव पंजरे ॥

विमाने सूर्यसंकाशानपश्यं शिवकिंकरान्

॥११॥

ते वै त्रिशूलखट्वांगटंकचर्मासिपाणयः ॥

चंद्रार्धभूषणाः सांद्रचंद्रकुंदोरुवर्चसः

॥१२॥

किरीटकुंडलभ्राजन्महाहिवलयोज्ज्वलाः ॥

शिवानुगा मया दृष्टा श्चत्वारः शुभलक्षणाः

॥१३॥

तानापतत आलोक्य विमानस्थान्सुविस्मितः ॥

उपसृत्यांतिके वेगादपृच्छं गगने स्थितान्

॥१४॥

नमोनमो वस्त्रिदशोत्तमेभ्यस्त्रिलोचनश्रीचरणानुगेभ्यः ॥

त्रिलोकरक्षाविधिमावहद्भ्यस्त्रिशूलचर्मासिगदाधरेभ्यः

॥१५॥

विदिता हि मया यूयं महेश्वरपदा नुगाः ॥

इयं वो लोकरक्षार्था गतिराहो विनोदजा

॥६॥

उत सर्वजनाघौघविजयाय कृतोद्यमाः ॥

ब्रूत कारुण्यतो मह्यं यस्माद्यूयमिहागताः

॥१७॥

शिवदूता ऊचुः

एषाग्रे दृश्यते वृद्धा चांडाली मरणोन्मुखी ॥

एतामानेतुमायाताः संदिष्टा प्रभुणा वयम्

॥१८॥

इत्युक्ते शिवदूतैस्तैरपृच्छं पुनरप्यहम् ॥

विस्मयाविष्टचित्तस्तान्कृतांजलिरवस्थितः

॥१९॥

अहो पापीयसी घोरा चांडाली कथमर्हति ॥

दिव्यं विमानमारोढुं शुनीवाध्वरमंडलम्

॥२०॥

आजन्मतोऽशुचिप्राया पापां पापा नुगामिनीम् ॥

कथमेनां दुराचारां शिवलोकं निनीषथ

॥२१॥

अस्या नास्ति शिवज्ञानं नास्ति घोरतरं तपः ॥

सत्यं नास्ति दया नास्ति कथमेनां निनीषथ

॥२२॥

पशुमांसकृताहारा वारुणीपूरितोदराम् ॥

जीवहिंसारतां नित्यं कथमेनां निनीषथ

॥२३॥

न च पंचाक्षरी जप्ता न कृतं शिवपूजनम् ॥

न ध्यातो भगवाञ्छंभुः कथमेनां निनीषथ

॥२४॥

नोपोषिता शिवतिथिर्न कृतं शिवपूजनम् ॥

भूतसौहृदं न जानाति न च बिल्वशिवार्पणम् ॥

नेष्टापूर्तादिकं वापि कथमेनां निनीषथ

॥२५॥

न च स्नातानि तीर्थानि न दानानि कृतानि च ॥

न च व्रतानि चीर्णानि कथमेनां निनीषथ

॥२६॥

ईक्षणे परिहर्त्तव्या किमु संभाषणादिषु ॥

सत्संगरहितां चंडां कथमेनां निनीषथ

॥२७॥

जन्मांतरार्जितं किंचिदस्याः सुकृतमस्ति वा ॥

तत्कथं कुष्ठरोगण कृमिभिः परिभूयते

॥२८॥

अहो ईश्वरचर्येयं दुर्विभाव्या शरीरिणाम् ॥

पापात्मानोऽपि नीयंते कारुण्यात्परमं पदम्

॥२९॥

इत्युक्तास्ते मया दूता देवदेवस्य शूलिनः ॥

प्रत्यूचुर्मामथ प्रीत्या सर्वसंशयभेदिनः

॥३०॥

शिवदूता ऊचुः

ब्रह्मन्सुमहदाश्चर्यं शृणु कौतूहलं यदि ॥

इमामुद्दिश्य चांडालीं यदुक्तं भवताधुना

॥३१॥

आसीदियं पूर्वभवे काचिद्ब्राह्मणकन्यका ॥

सुमित्रानाम संपूर्णसोमबिम्बसमानना

॥३२॥

उत्फुल्लमल्लिकादामसुकुमारांगलक्षणा ॥

कैकेयद्विजमुख्यस्य कस्यचित्तनया सती

॥३३॥

तां सर्वलक्षणोपेतां रतेर्मूर्तिमिवापराम् ॥

वर्द्धमानां पितुर्गेहे वीक्ष्यासन्विस्मिता जनाः

॥३४॥

दिनेदिने वर्धमाना बंधुभिर्लालिता भृशम् ॥

सा शनैर्यौवनं भेजे स्मरस्येव महाधनुः

॥३५॥

अथ सा बंधुवर्गैश्च समेतेन कुमारिका ॥

पित्रा प्रदत्ता कस्मैचिद्विधिना द्विजसूनवे

॥३६॥

सा भर्त्तारमनुप्राप्य नवयौवनशालिनी ॥

कंचित्कालं शुभाचारा रेमे बंधुभिरावृता

॥३७॥

अथ कालवशात्तस्याः पतिस्तीव्र रुजार्दितः ॥

रूपयौवनकांतोपि पंचत्वमगमन्मुने

॥३८॥

मृते भर्त्तरि दुःखेन विदग्धहदया सती ॥

उवास कतिचिन्मासान्सुशीला विजितें द्रिया

॥३९॥

अथ यौवनभारेण जृंभमाणेन नित्यशः ॥

बभूव हृदयं तस्याः कंदपर्परिकंपितम्

॥४०॥

सा गुप्ता बन्धुवर्गेण शासितापि महोत्तमैः ॥

न शशाक मनो रोद्धं मदनाकृष्टमंगना

॥४१॥

सा तीव्रमन्मथाविष्टा रूपयौवनशालिनी ॥

विधवापि विशेषेण जारमार्गरताभवत्

॥४२॥

न ज्ञाता केनचिदपि जारिणीति विचक्षणा ॥

जुगूहात्मदुराचारं कंचित्कालमसत्तमा

॥४३॥

तां दोहदसमाक्रांतां घननीलमुखस्तनीम् ॥

कालेन बंधुवर्गोपि बुबोध विटदूषिताम्

॥४४॥

इति भीतो महाक्लेशाच्चिंता लेभे दुरत्ययाम् ॥

स्त्रियः कामेन नश्यंति ब्राह्मणा हीनसेवया

॥४५॥

राजानो ब्रह्मदंडेन यतयो भोगसंग्रहात् ॥

लीढं शुना तथैवान्नं सुरया वार्पितं पयः

॥४६॥

रूपं कुष्ठरुजाविष्टं कुलं नश्यति कुस्त्रिया ॥

इति सर्वे समालोच्य समेताः पतिसोदराः

॥४७॥

तत्यजुर्गोत्रतो दूरं गृहीत्वा सकचग्रहम् ॥

सघटोत्सर्गमुत्सृष्टा सा नारी सर्वबन्धुभिः ॥

४८ विचरंती च शूद्रेण रममाणा रतिप्रिया ॥

सा ययौ स्त्री बहिर्यामा दृष्टा शूद्रेण केनचित्

॥४९॥

स तां दृष्ट्वा वरारोहाँ पीनोन्नतपयोधराम् ॥

गृहं निनाय साम्ना च विधवां शूद्रनायकः ॥

सा नारी तस्य महिषी भूत्वा तेन दिवानिशम्

॥५०॥

रममाणा क्वचिद्देशे न्यवसद्गृहवल्लभा ॥

तत्र सा पिशिताहारा नित्यमापीतवारुणी

॥५१॥

लेभे सुतं च शूद्रेण रममाणा रतिप्रिया ॥

कदाचिद्भर्त्तरि क्वापि याते पीतसुरा तु सा

॥५२॥

इयेष पिशिताहारं मदिरामदविह्वला ॥

अथ मेषेषु बद्धेषु गोभिः सह बहिर्व्रजे

॥५३॥

ययौ कृपाणमादाय सा तमींधे निशामुखे ॥

अविमृश्य मदावेशान्मेषबुद्ध्यामिषप्रिया

॥५४॥

एकं जघानं गोवत्सं क्रोशंतं निशि दुर्भगा ॥

निहतं गृहमानीय ज्ञात्वा गोवत्समंगना

॥५५॥

भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा ॥

सा मुहूर्तमिति ध्यात्वा पिशितासवलालसा

॥५६॥

छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम् ॥

गोवत्सार्धशरीरेण कृताहाराथ सा पुनः

॥५७॥

तदर्धदेहं निक्षिप्य बहिश्चुक्रोश कैतवात् ॥

अहो व्याघ्रेण भग्नोऽयं जग्धो गोवत्सको व्रजे

॥५८॥

इति तस्याः समाक्रंदः सर्वगेहेषु शुश्रुवे ।

अथ सर्वे शूद्रजनाः समागम्यांतिके स्थिताः

॥५९॥

हतं गोवत्समालोक्य व्याघ्रेणेति शुचं ययुः ॥

गतेषु तेषु सर्वेषु व्युष्टायां च ततो निशि

॥६०॥

तद्भर्ता गृहमागत्य दृष्टवान्गृहविड्वरम् ।

एवं बहुतिथे काले गते सा शूद्ववल्लभा ॥

कालस्य वशमापन्ना जगाम यममंदिरम् ।

यमोपि धर्ममालोक्य तस्याः कर्म च पौर्विकम्

॥६२॥

निर्वत्र्य निरयावासाञ्चक्रे चंडालजातिकाम् ॥

सापि भ्रष्टा यमपुराच्चांडालीगर्भमाश्रिता

॥६३॥

ततो बभूव जात्यंधा प्रशांतांगारमेचका ॥

तत्पिता कोपि चांडालो देशे कुत्रचिदास्थितः

॥६४॥

तां तादृशीमपि सुतां कृपया पर्यपोषयत् ॥

अभोज्येन कदन्नेन शुना लीढेन पूतिना

॥६५॥

अपेयैश्च रसैर्मात्रा पोषिता सा दिनेदिने ॥

जात्यंधा सापि कालेन बाल्ये कुष्ठरुजार्दिता

॥६६॥

ऊढा न केनचिद्वापि चांडालेनातिदुर्भगा ॥

अतीतबाल्ये सा काले विध्वस्तपितृमातृका

॥६७॥

दुर्भगेति परित्यक्ता बंधुभिश्च सहोदरैः ॥

ततः क्षुधार्दिता दीना शोचन्ती विगतेक्षणा

॥६८॥

गृहीतयष्टिः कृच्छ्रेण संचचाल सलोष्टिका ॥

पत्तनेष्वपि सर्वेषु याचमाना दिनेदिने

॥६९॥

चांडालोच्छिष्टपिंडेन जठराग्निमतर्पयत् ॥

एवं कृच्छ्रेण महता नीत्वा सुबहुलं वयः

॥७०॥

जरया ग्रस्तसर्वांगी दुःखमाप दुरत्ययम् ॥

निरन्नपानवसना सा कदाचिन्महाजनान्

॥७१॥

आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽध्वगान् ॥

तस्यां तु देवयात्रायां देशदेशांतयायिनाम्

॥७२॥

विप्राणां साग्निहोत्राणां सस्त्रीकाणां महात्मनाम् ॥

राज्ञां च सावरोधानां सहस्तिरथवाजिनाम्

॥७३॥

सपरीवारघोषाणां यानच्छत्रादिशोभिनाम् ॥

तथान्येषां च विट्शूद्रसंकीर्णानां सहस्रशः

॥७४॥

हसतां गायतां क्वापि नृत्यतामथ धावताम् ॥

जिघ्रतां पिबतां कामाद्गच्छतां प्रतिगर्जताम्

॥७५॥

संप्रयाणे मनुष्याणां संभ्रमः सुमहानभूत् ॥

इति सर्वेषु गच्छत्सु गोकर्णं शिवमंदिरम्

॥७६॥

पश्यंति दिविजाः सर्वे विमानस्थाः सकौतुकाः ॥

अथेयमपि चांडाली वसनाशनतृष्णया

॥७७॥

महाजनान्याचयितुं चचाल च शनैःशनैः ॥

करावलंबेनान्यस्याः प्राग्जन्मार्जितकर्मणा ॥

दिनैः कतिपयैर्याती गोकर्णं क्षेत्रमाययौ

॥७८॥

ततो विदूरे मार्गस्य निषण्णा विवृतांजलिः ॥

याचमाना मुहुः पांथान्बभाषे कृपणं वचः

॥७९॥

प्राग्जन्मार्जितपापौघैः पीडितायाश्चिरं मम ॥

आहारमात्रदानेन दयां कुरुत भो जनाः

॥८०॥

त्रातारः परमार्तानां दातारः परमाशिषाम् ॥

कर्तारो बहुपुण्यानां दयां कुरुत भो जनाः ॥

र१ ॥

वसनाशनहीनायां स्वपितायां महीतले ॥

महापांसुनिमग्नायां दयां कुरुत भो जनाः

॥८२॥

महाशीतातपार्त्तायां पीडितायां महारुजा ॥

अन्धायां मयि वृद्धायां दयां कुरुत भो जनाः

॥८३॥

चिरोपवासदीप्तायां जठराग्निविवर्धनैः ॥

संदह्यमानसर्वांग्यां दयां कुरुत भो जनाः

॥८४॥

अनुपार्जितपुण्यायां जन्मांतरशतेष्वपि ॥

पापायां मंदभाग्यायां दयां कुरुत भो जनाः

॥८५॥

एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृतेंऽजलौ ॥

एकः पुण्यतमः पांथः प्राक्षिपद्बिल्वमंजरीम्

॥८६॥

तामंचलौ निपतितां सा विमृश्य पुनः पुनः ॥

अभक्ष्येत्येव मत्वाथ दूरे प्राक्षिपदातुरा

॥८७॥

तस्याः करेण निर्मुक्ता रात्रौ सा बिल्वमंजरी ॥

पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके

॥८८॥

सैवं शिवचतुर्दश्यां रात्रौ पांथजनान्मुहुः ॥

याचमानापि यत्किंचिन्न लेभे दैवयोगतः

॥८९॥

तत्रोषितानया रात्रिर्भद्रकाल्यास्तु पृष्ठतः ॥

किंचिदुत्तरतः स्थानं तदर्धेनातिदूरतः

॥९०॥

ततः प्रभाते भ्रष्टाशा शोकेन महताप्लुता ॥

शनैर्निववृते दीना स्वदेशायैव केवला

॥९१॥

श्रांता चिरोपवासेन निपतन्ती पदेपदे ॥

क्रंदंती वहुरोगार्ता वेपमाना भृशातुरा

॥९२॥

दह्यमानार्कतापेन नग्नदेहा सयष्टिका ॥

अतीत्यैतावतीं भूमिं निपपात विचेतना

॥९३॥

अथ विश्वेश्वरः शंभुः करुणामृतवारिधिः ॥

एनामानयतेत्त्यस्मान्युयुजे सविमानकान्

॥९४॥

एषा प्रवृत्तिश्चांडाल्यास्तवेह परिकीर्त्तिता ॥

तथा संदर्शिता शंभोः कृपणेषु कृपालुता ॥

कर्मणः परिपाकोत्थां गतिं पश्य महामते ॥

अधमापि परं स्थानमारोहति निरामयम्

॥९६॥

यदेतया पूर्वभवे नान्नदानादिकं कृतम् ॥

क्षुत्पिपासादिभिः क्लेशैस्तस्मादिह निपीड्यते

॥९७॥

यदेषा मदवेगांधा चक्रे पापं महोल्बणम् ॥

कर्मणा तेन जात्यंधा बभूवात्रैव जन्मनि

॥९८॥

अपि विज्ञाय गोवत्सं यदेषाऽभक्षयत्पुरा ॥

कर्मणा तेन चांडाली बभूवेह विगर्हिता

॥९९॥

यदेषार्यपथं हित्वा जारमार्गरता पुरा ॥

तेन पापेन केनापि दुर्वृत्ता दुर्भगापि वा

॥१००॥

यदाश्लिष्य मदाविष्टा जारेण विधवा पुरा ॥

तेन पापेन महता बहुकुष्ठव्रणान्विता

॥१०१॥

कामार्त्ता यदियं स्वैरं शूद्रेण रमिता पुरा ॥

महासृक्पूयकृमिभिः पीड्यते तेन पाप्मना

॥२॥

सुव्रतानि न चीर्णानि नेष्टापूतार्दिकं कृतम् ॥

सर्वभोगविहीनेयं दूयते तेन पाप्मना

॥३॥

यदेतया पूर्वभवे सुरा पीता विमूढया ॥

महायक्ष्मार्तिहृच्छूलैः पीड्यते तेन पाप्मना

॥४॥

अत्रैव सर्वमर्त्येषु पापचिह्नानि कृत्स्नशः ॥

लक्ष्यते मुनिशार्दूल सविवेकैर्महात्मभिः

॥५॥

अत्र ये बहुरोगार्त्ता ये पुत्रधनवर्जिताः

॥६॥

ये च दुर्लक्षणक्लिष्टा याचका विगतह्रियः ॥

वासोन्नपानशयनभूषणाभ्यंजनादिभिः

॥७॥

हीना विरूपा निर्विद्या विकलांगाः कुभोजनाः ॥

ये दुर्भाग्या निंदिताश्च ये चान्ये परसेवकाः

॥८॥

एते पूर्वभवे सर्वे सुमहत्पापकारिणः ॥

एवं विमृश्य यत्नेन दृष्ट्वा लोकजनस्थितिम्

॥९॥

बुधो न कुरुते पापं यदि कुर्यात्स आत्महा ॥

देहोऽयं मानुषो जंतोर्बहुकर्मैकभाजनम्

॥११०॥

सदा सत्कर्म सेवेत दुष्कर्म सततं त्यजेत् ॥

पुण्यं सुखार्थी कुर्वीत दुःखार्थी पापमाचरेत्

॥११॥

द्वयोरेकतरे लोके गृहीते कुशलो जनः ॥

इमं मानुषमाश्रित्य देहं परमदुर्लभम्

॥१२॥

य आत्महितवान्कश्चिद्देवमेकं समाश्रयेत् ॥

अथ पापानि सर्वाणि कुर्वन्नपि सदा नरः

॥१३॥

शिवमेकमतिर्ध्यायेत्स संतरति पातकम् ॥

मृता पूर्वभवे त्वेषा यदा प्राप्ता यमालये

॥१४॥

तदा वितर्कः सुमहानासीद्यमसभासदाम् ॥

यद्यपि ब्राह्मणी त्वेषा सत्कुलाचारदूषिता

॥१५॥

अतोऽस्माभिरिहानीता निरयं यातु वा न वा ॥

अनया साधितो बाल्ये पुण्यलेशोऽस्ति वा न वा

॥१६॥

अथापि सुविमृश्यैवं धार्यो दंडोऽत्र नान्यथा ॥

बहुजन्मसहस्रेषु कृतपुण्यविपाकतः

॥१७॥

नृणां ब्रह्मकुले जन्म लभ्यते हि कथंचन ॥

अतोस्याः पूर्वपूर्वेषु कृताघं नास्ति जन्मसु

॥१८॥

अन्यथा सत्कुले जन्म कथमेषा प्रपद्यते ॥

अत्रैव जन्मन्यनया कृतमंहो दुरत्ययम्

॥१९॥

अथापि नरकावासं प्रायशो नेयमर्हति ॥

किंतु गोवत्सकं हत्वा विमृश्यागतसाध्वसा

॥१२०॥

एषा शिवशिवेत्याह प्राग्जन्मार्जितकर्मणा ॥

यदेषा पापविच्छित्त्यै सकृदप्युरुमंगलम्

॥२१॥

शिवनाम वदेद्भक्त्या तर्हि गच्छेत्परं पदम् ॥

एकजन्मकृतस्यास्य दारुणस्यापि यत्फलम्

॥२२॥

क्रमेणानुभवत्वेषा भूत्वा चांडालजातिका ॥

अस्मादन्यतमः को वा नरकोऽस्ति नृणा मिह

॥२३॥

अनेकक्लेशसंघातैर्यन्मुहुः परिपीडनम् ॥

दुष्कुले जन्म दारिद्र्यं महाव्याधिर्विमूढता

॥२४॥

एकैक एव नरकः सर्वे वा चाथ किं पुनः ॥

प्राग्जन्मपुण्यभारेण यन्नाम विवशाऽब्रवीत्

॥२५॥

तेनैषान्यभवे भूरि पुण्यमंते करिष्यति ॥

तेन पुण्येन महता निस्तीर्याघौघया तनाः

॥२६॥

नीता तत्पुरुषैरंते प्रयास्यति परं पदम् ॥

एतादृशानां मर्त्यानां शास्तारो न वयं क्वचित् ॥

विचार्य स्वयमेवेशो यद्युक्तं तत्करोतु सः

॥२७॥

एवं वैवस्वतपुरे सर्वैर्यमपुरोगमैः ॥

विमृश्य चित्रगुप्ताद्यैरियं मुक्ताऽपतद्भुवि

॥२८॥

आदौ यदेषा शिवनाम नारी प्रमादतो वाप्य सती जगाद ॥

तेनेह भूयः सुकृतेन शंभोर्बिल्वांकुराराधनपुण्यमाप

॥२९॥

श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ॥

कृत्वा जागरणं ह्येषा चक्रे बिल्वार्पणं निशि

॥१३०॥

अकामतः कृतस्यास्य पुण्यस्यैव च यत्फलम् ॥

अद्यैव भोक्ष्यते सेयं पश्यतस्तव नो मृषा

॥३१॥

गौतम उवाच

इत्युक्त्वा शिवदूतास्ते तस्याश्चांडालयोनितः ॥

जीवलेशं समाकृष्य युयुजुर्दिव्यतेजसा

॥३२॥

तां दिव्यदेहसंक्रांतां तेजोराशिसमुज्ज्वलाम् ॥

विमाने स्थापयामासुः प्रीतास्ते शिवकिंकराः

॥३३॥

अथ सा परमोदाररूपलावण्यशालिनी ॥

दिव्यभूषणदीप्तांगी दिव्यांबरविधारिणी

॥३४॥

देहेन दिव्यगंधेन दिव्यतेजोविकाशिना ॥

दिव्यमाल्यावतंसेन विरराज विमानगा

॥३५॥

रत्नच्छत्रपताकाद्यैर्गीतवादित्रनिस्वनैः ॥

मध्ये सा शिवदूतानां मोदमाना वरानना

॥३६॥

अनुभूतानि जन्मानि स्मृत्वास्मृत्वा पुनःपुनः ॥

भीता त्रस्ता दृढा श्चर्यं दृष्ट्वा स्वप्नमिवोत्थिता

॥३७॥

काहं केऽमी महासिद्धाः कोयं लोको मनोरमः ॥

क्व गतं मे वपुः कष्टं चंडचांडालगोत्रजम्

॥३८॥

अहो सुमहदाश्चर्यं दृष्टं मायाविलासजम् ॥

यन्मे भवसहस्रेषु भ्रातंभ्रांतं पुनःपुनः

॥३९॥

अहो ईश्वरपूजाया माहात्म्यं विस्मयावहम् ॥

पत्रमात्रेण संतुष्टो यो ददाति निजं पदम्

॥१४०॥

इति तां जातनिर्वेदां स्मरन्तीं भगवत्पदम् ॥

दिव्यं विमानमारोप्य ते महेश्वरकिंकराः

॥४१॥

आलोकयत्सु सर्वेषु लोकेशेषु सविस्मयम् ॥

आमंत्र्य तामथानिन्युः परमेश्वरसन्निधिम्

॥४२॥

राजन्सुमहदाश्चर्यमाख्यातं गिरिजा पतेः ॥

माहात्म्यं भक्तिलेशस्य सर्वाघौघविनाशनम्

॥४३॥

राजोवाच

भगवन्परमेशस्य कीदृशो लोक उत्तमः ॥

तस्य मे लक्षणं ब्रूहि यद्यस्ति मयि ते दया

॥४४॥

गौतम उवाच

ब्रह्मादिसुरनाथानां लोकेष्वपि सुदुर्लभः ॥

य आनंदः सदा यत्र स लोकः पारमेश्वरः

॥४५॥

सर्वातिगमनं यत्र ज्योतिर्यत्र प्रतिष्ठितम् ॥

क्वापि नास्ति तमोयोगः स लोकः पारमेश्वरः

॥४६॥

गुणवृत्ति विनिस्तीर्य संप्राप्ता यत्र योगिनः ॥

न पतेयुः पुनः सर्वे स लोकः पारमेश्वरः

॥४७॥

यत्र वासं न कुर्वंति क्रोधलोभमदादयः ॥

यत्रावस्था न जन्माद्याः स लोकः पारमेश्वरः

॥४८॥

सर्वेषां निगमानां च यदेकं क्षेत्रमुच्यते ॥

यस्मान्नास्ति परं वित्तं तत्पदं पारमेश्वरम्

॥४९॥

प्रत्याहारासन ध्यानप्राणसंयमनादिभिः ॥

यत्र योगपथैः प्राप्तुं यतते योगिनः सदा

॥१५०॥

यत्र देवः सदानंदनिर्मलज्ञानरूपया ॥

अस्ति देव्या सह क्रीडञ्स लोकः पारमेश्वरः

॥५१॥

जन्मानेकसहस्रेषु संभृतैः पुण्यराशिभिः ॥

आरूढाः पुरुषा नार्यः क्रीडन्ते यत्र संगताः

॥५२॥

तेजो राशौ समालीना दुर्विभाव्ये मनोरमे ॥

अहोरात्रादिसंस्थानं न विंदंति कदाचन

॥५३॥

स लोकः परमेशस्य दुर्लभो हि कुयोगिनः ॥

एतद्भक्ति सुपूर्णा ये तैरेव प्रतिपद्यते

॥५४॥

ये तत्कथाश्रवणकीर्तनजातहर्षा ये सर्वभूतसुहृदः प्रशमैकनिष्ठाः ॥

संसारचक्रमतिवाह्य निरस्तमोहास्ते शांकरं पदमवाप्य सुखं रमन्ते

॥५५॥

तथा त्वमपि राजेंद्र गोकर्णं गिरिशालयम् ॥

गत्वा प्रशमिताघौघः कृतकृत्यत्वमाप्नुहि

॥५६॥

तत्र सर्वेषु कालेषु स्नात्वाभ्यर्च्य महाबलम् ॥

कृत्वा शिवचतुर्दश्यामुपवासं समाहितः

॥५७॥

कृत्वा जागरणं रात्रौ बिल्वैरभ्यर्च्य शंकरम् ॥

सर्वपापविनिर्मुक्तः शिवलोकमवाप्स्यसि

॥५८॥

एष ते विमलो राजन्नुपदेशो मया कृतः ॥

स्वस्ति तेऽस्तु गमिष्यामि मिथिलाधिपतेः पुरीम्

॥५९॥

इत्यामन्त्र्य मुनिः प्रीत्या गौतमो मिथिलां ययौ ॥

सोऽपि हृष्टमना राजा गोकर्णं प्रत्यपद्यत

॥१६०॥

तत्र दृष्ट्वा महादेवं स्नात्वाभ्यर्च्य महाबलम् ॥

निर्धूताशेषपापौघो लेभे शम्भोः परं पदम्

॥६१॥

य इमां शृणुयान्नित्यं कथां शैवीं मनोहराम् ॥

श्रावयेद्वा जनो भक्त्या स याति परमां गतिम्

॥६२॥

श्रद्दधानः सकृद्वापि य इमां शृणुयात्कथाम् ॥

त्रिःसप्तकुलजैः सार्धं शिवलोकमवाप्नुयात्

॥६३॥

इति कथितमशेषं श्रेयसामादिबीजं भवशतदुरितघ्नं ध्वस्तमोहांधकारम् ॥

चरितममरगेयं मन्मथारेरुदारं सततमपि निषेव्यं स्वस्तिमद्भिश्च लोकैः

॥१६४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शिवचतुर्दशीगोकर्णमाहात्म्यवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥