प्रदोषमाहात्म्यवर्णनम्
ऋषय ऊचुः
यदुक्तं भवता सूत महदाख्यानमद्भुतम् ॥
शम्भोर्माहात्म्यकथनमशेषाघहरं परम्
॥१॥भूयोपि श्रोतुमिच्छामस्तदेव सुसमाहिताः ॥
प्रदोषे भगवाञ्छंभुः पूजितस्तु महात्मभिः
॥२॥संप्रयच्छति कां सिद्धिमेतन्नो ब्रूहि सुव्रत ॥
श्रुतमप्यसकृत्सूत भूयस्तृष्णा प्रवर्धते
॥३॥सूत उवाच
साधु पृष्टं महाप्राज्ञा भवद्भिर्लोकविश्रुतैः ॥
अतोऽहं संप्रवक्ष्यामि शिवपूजाफलं महत्
॥४॥त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्त्तितः ॥
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः
॥५॥प्रदोषपूजामाहात्म्यं को नु वर्णयितुं क्षमः ॥
यत्र सर्वेऽपि विबुधास्तिष्ठंति गिरिशांतिके
॥६॥प्रदोषसमये देवः कैलासे रजतालये ॥
करोति नृत्यं विबुधैरभिष्टुतगुणोदयः
॥७॥अतः पूजा जपो होमस्तत्कथास्तद्गुणस्तवः ॥
कर्त्तव्यो नियतं मर्त्यैश्चतुर्वर्गफला र्थिभिः
॥८॥दारिद्यतिमिरांधानां मर्त्यानां भवभीरुणाम् ॥
भवसागरमग्नानां प्लवोऽयं पारदर्शनः
॥९॥दुःखशोकभयार्त्तानां क्लेशनिर्वाणमिच्छताम् ॥
प्रदोषे पार्वतीशस्य पूजनं मंगलायनम्
॥१०॥दुर्बुद्धिरपि नीचोपि मन्दभाग्यः शठोऽपि वा ॥
प्रदोषे पूज्य देवेशं विपद्भ्यः स प्रमुच्यते
॥११॥शत्रुभिर्हन्यमानोऽपि दश्यमानोपि पन्नगैः ॥
शैलैराक्रम्यमाणोऽपि पतितोऽपि महांबुधौ
॥१२॥आविद्धकालदण्डोऽपि नानारोगहतोऽपि वा ॥
न विनश्यति मर्त्योऽसौ प्रदोषे गिरिशार्चनात्
॥१३॥दारिद्र्यं मरणं दुःखमृणभारं नगोपमम् ॥
सद्यो विधूय संपद्भिः पूज्यते शिवपूजनात्
॥१४॥अत्र वक्ष्ये महापुण्यमितिहासं पुरातनम् ॥
यं श्रुत्वा मनुजाः सर्वे प्रयांति कृतकृत्यताम्
॥१५॥आसीद्विदर्भविषये नाम्ना सत्यरथो नृपः ॥
सर्वधर्मरतो धीरः सुशीलः सत्यसंगरः
॥१६॥तस्य पालयतो भूमिं धर्मेण मुनिपुंगवाः ॥
व्यतीयाय महान्कालः सुखेनैव महामतेः
॥१७॥अथ तस्य महीभर्तुर्बभूवुः शाल्वभूभुजः ॥
शत्रवश्चोद्धतबला दुर्मर्षणपुरोगमाः
॥१८॥कदाचिदथ ते शाल्वाः संनद्धबहुसैनिकाः ॥
विदर्भनगरीं प्राप्य रुरुधुर्विजिगीषवः
॥१९॥दृष्ट्वा निरुद्ध्यमानां तां विदर्भाधिपतिः पुरीम् ॥
योद्धुमभ्याययौ तूर्णं बलेन महता वृतः
॥२०॥तस्य तैरभवयुद्धं शाल्वैरपि बलोद्धतैः ॥
पाताले पन्नगेन्द्रस्य गन्धर्वैरिव दुर्मदैः
॥२१॥विदर्भनृपतिः सोऽथ कृत्वा युद्धं सुदारुणम् ॥
प्रनष्टोरुबलैः शाल्वैर्निहतो रणमूर्धनि
॥२२॥तस्मिन्महारथे वीरे निहते मंत्रिभिः सह ॥
दुद्रुवुः समरे भग्ना हतशेषाश्च सैनिकाः
॥२३॥अथ युद्धेभिविरते नदत्सु रिपुमंत्रिषु ॥
नगर्यां युद्ध्यमानायां जाते कोलाहले रवे
॥२४॥तस्य सत्यरथस्यैका विदर्भाधिपतेः सती ॥
भूरिशोकसमाविष्टा क्वचिद्यत्नाद्विनिर्ययौ
॥२५॥सा निशासमये यत्नादंतर्वत्नी नृपांगना ॥
निर्गता शोक संतप्ता प्रतीचीं प्रययौ दिशम्
॥२६॥अथ प्रभाते मार्गेण गच्छन्ती शनकैः सती ॥
अतीत्य दूरमध्वानं ददर्श विमलं सरः
॥२७॥तत्रागत्य वरारोहा तप्ता तापेन भूयसा ॥
विलसंतं सरस्तीरे छायावृक्षं समाश्रयत्
॥२८॥तत्र दैववशाद्राज्ञी विजने तरुकुट्टिमे ॥
असूत तनयं साध्वी मूहूर्ते सद्गुणान्विते
॥२९॥अथ सा राजमहिषी पिपासाभिहता भृशम् ॥
सरोऽवतीर्णा चार्वंगी ग्रस्ता ग्राहेण भूयसा
॥३०॥जातमात्रः कुमारोऽपि विनष्टपितृमातृकः ॥
रुरोदोच्चैः सरस्तीरे क्षुत्पिपासार्दितोऽबलः
॥३१॥तस्मिन्नेवं क्रन्दमाने जातमात्रे कुमारके ॥
काचिदभ्याययौ शीघ्रं दिष्ट्या विप्रवरांगना
॥३२॥साप्येकहायनं बालमुद्वहन्ती निजात्मजम् ॥
अधना भर्तृरहिता याचमाना गृहेगृहे
॥३३॥एकात्मजा बंधुहीना याञ्चामार्गवशंगता ॥
उमानाम द्विजसतीददर्श नृपनंदनम्
॥३४॥सा दृष्ट्वा राजतनयं सूर्यबिंवमिव च्युतम् ॥
अनाथमेनं क्रंदंतं चिंतयामास भूरिशः
॥३५॥अहो सुमहदाश्चर्यमिदं दृष्टं मयाधुना ॥
अच्छिन्ननाभिसूत्रोऽयं शिशुर्माता क्व वा गता
॥३६॥पिता नास्ति न चान्योस्ति नास्ति बंधुजनोऽपि वा ॥
अनाथः कृपणो बालः शेते केवल भूतले
॥३७॥एष चांडालजो वापि शूद्रजो वैश्यजोपि वा ॥
विप्रात्मजो वा नृपजो ज्ञायते कथमर्भकः
॥३८॥शिशुमेनं समुद्धृत्य पुष्णाम्यौरसवद्ध्रुवम् ॥
किं त्वविज्ञातकुलजं नोत्सहे स्प्रष्टुमुत्तमम्
॥३९॥इति मीमांसमानायां तस्यां विप्रवरस्त्रियाम्
॥४०॥कश्चित्समाययौ भिक्षुः साक्षाद्देवः शिवः स्वयम् ॥
तामाह भिक्षुवर्योथ विप्रभामिनि मा खिदः
॥११॥रक्षैनं बालकं सुभ्रुर्विसृज्य हृदि संशयम् ॥
अनेन परमं श्रेयः प्राप्स्यसे ह्यचिरादेिह
॥४२॥एतावदुक्त्वा त्वरितो भिक्षुः कारुणिको ययौ ॥
अथ तस्मिन्गते भिक्षौ विश्रब्धा विप्रभामिनी
॥४३॥तमर्भकं समादाय निजमेव गृहं ययौ ॥
भिक्षुवाक्येन विश्रब्धा सा राज तनयं सती
॥४४॥आत्मपुत्रेण सदृशं कृपया पर्यपोषयत् ॥
एकचक्राह्वये रम्ये ग्रामे कृतनिकेतना
॥४९॥स्वपुत्रं राजपुत्रं च भिक्षान्नेन व्यवर्धयत् ॥
ब्राह्मणीतनयश्चैव स राजतनयस्तथा
॥१६॥ब्राह्मणैः कृतसंस्कारौ ववृधाते सुपूजितौ।
कृतोपनयनौ काले बालकौ नियमे स्थितौ
॥४७॥भिक्षार्थं चेरतुस्तत्र मात्रा सह दिनेदिने ॥
ताभ्यां कदाचिद्बालाभ्यां सा विप्रवनिता सह
॥४८॥भैक्ष्यं चरंती दैवेन प्रविष्टा देवतालयम् ॥
तत्र वृद्धैः समाकीर्णे मुनिभिर्देवतालये
॥१९॥तौ दृष्ट्वा बालकौ धीमाञ्छांडिल्यो मुनिरब्रवीत् ॥
अहो दैवबलं चित्रमहो कर्म दुरत्ययम्
॥५०॥एष बालोऽन्यजननीं श्रितो भैक्ष्येण जीवति ॥
इमामेव द्विजवधूं प्राप्य मातरमुत्तमाम्
॥५१॥सहैव द्विजपुत्रेण द्विजभावं समाश्रितः ॥
इति श्रुत्वा मुनेर्वाक्यं शांडिल्यस्य द्विजांगना
॥५२॥सा प्रणम्य सभामध्ये पर्यपृच्छत्सविस्मया ॥
ब्रह्मन्नेषोर्भको नीतो मया भिक्षोर्गिरा गृहम्
॥५३॥अविज्ञातकुलोद्यापि सुतवत्परिपोष्यते ॥
कस्मिन्कुले प्रसूतोऽयं का माता जनकोस्य कः
॥५४॥सर्वं विज्ञातुमिच्छामि भवतो ज्ञानचक्षुषः ॥
इति पृष्टो मुनिः सोथ ज्ञानदृष्टिर्द्विजस्त्रियां ॥
आचख्यौ तस्य बालस्य जन्म कर्म च पौर्विकम्
॥५६॥विदर्भराजपुत्रस्तु तत्पितुः समरे मृतिम् ॥
तन्मातुर्नक्रहरणं साकल्येन न्यवेदयत्
॥५७॥अथ सा विस्मिता नारी पुनः प्रपच्छ तं मुनिम् ॥
स राजा सकलान्भोगान्हित्वा युद्धे कथं मृतः
॥५८॥दारिद्र्यमस्य बालस्य कथं प्राप्तं महामुने ॥
दारिद्र्यं पुनरुद्धूय कथं राज्यमवाप्स्यति
॥५९॥अस्यापि मम पुत्रस्य भिक्षान्नेनैव जीवतः ।
दारिद्र्यशमनोपायमुपदेष्टुं त्वमर्हसि
॥६०॥शांडिल्य उवाच
अमुष्य बालस्य पिता स विदर्भमहीपतिः ॥
पूर्वजन्मनि पांड्येशो बभूव नृपसत्तमः
॥६१॥स राजा सर्वधर्मज्ञः पालयन्सकलां महीम् ॥
प्रदोषसमये शंभुं कदा चित्प्रत्यपूजयत्
॥६२॥तस्य पूजयतो भक्त्या देवं त्रिभुवनेश्वरम् ॥
आसीत्कलकलारावः सर्वत्र नगरे महान्
॥६३॥श्रुत्वा तमुत्कटं शब्दं राजा त्यक्तशिवार्चनः ॥
निर्ययौ राजभवनान्नगरक्षोभशंकया
॥६४॥एतस्मिन्नेव समये तस्यामात्यो महाबलः ॥
शत्रुं गृहीत्वा सामंतं राजांतिकमुपागमत्
॥६५॥अमात्येन समानीतं शत्रुं सामंतमुद्धतम् ॥
दृष्ट्वा क्रोधेन नृपतिः शिरच्छेदमकारयत्
॥६६॥स तथैव महीपालो विसृज्य शिवपूजनम् ॥
असमाप्तात्मनियमश्चकार निशि भोजनम्
॥६७॥तत्पुत्रोपि तथा चक्रे प्रदोषसमये शिवम् ॥
अनर्चयित्वा मूढात्मा भुक्त्वा सुष्वाप दुर्मदः
॥६८॥जन्मांतरे स नृपतिर्विदर्भक्षितिपोऽभवत् ॥
शिवार्चनांतरायेण परैर्भोगांतरे हतः
॥६९॥तत्पुत्रो यः पूर्वभवे सोस्मिञ्जन्मनि तत्सुतः ॥
भूत्वा दारिद्र्यमापन्नः शिवपूजाव्यतिक्रमात्
॥७०॥अस्य माता पूर्वभवे सपत्नीं छद्मनाहनत् ॥
तेन पापेन महता ग्राहेणास्मिन्भवे हता
॥७१॥एषा प्रवृत्तिरेतेषां भवत्यै समुदाहृता ॥
अनर्चितशिवा मर्त्याः प्राप्नुवंति दरिद्रताम्
॥७२॥सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ॥
संसारमुल्बणमसारमवाप्य जंतोः सारो यमीश्वरपदांबुरुहस्य सेवा
॥७३॥ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ॥
एतत्कथां श्रुतिपुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्राः
॥७४॥ये वै प्रदोषसमये परमेश्वरस्य कुर्वंत्यनन्यमनसोंऽघ्रिसरोजपूजाम् ॥
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके
॥७५॥कैलासशैलभवने त्रिजगजनित्रीं गौरीं निवेश्य कनकांचितरत्नपीठे ॥
नृत्यं विधातु मभिवाञ्छति शूलपाणौ देवाः प्रदोषसमयेऽनुभजंति सर्वे
॥७६॥वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ॥
विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थिताः सेवंते तमनु प्रदोषसमये देवं मृडानीपतिम्
॥७७॥गंधर्वयक्षपतगोरगसिद्ध साध्या विद्याधरामरवराप्सरसां गणाश्च ॥
येऽन्ये त्रिलोकनिलयाः सह भूतवर्गाः प्राप्ते प्रदोषसमये हरपार्थसंस्थाः
॥७८॥अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः ॥
तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथाः
॥७९॥एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ॥
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः
॥८०॥अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ॥
तद्दोष परिहारार्थं शरणं यातु शंकरम्
॥८१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥