मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय ५

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 5

गोपकुमारचरितवर्णनम्

सूत उवाच

शिवो गुरुः शिवो देवः शिवो बंधुः शरीरिणाम् ॥

शिव आत्मा शिवो जीवःशिवादन्यन्न किञ्चन

॥१॥

शिवमुद्दिश्य यत्किंचिद्दत्तं जप्तं हुतं कृतम् ॥

तदनंतफलं प्रोक्तं सर्वागमविनिश्चितम्

॥२॥

भक्त्या निवेदितं शंभोः पत्रं पुष्पं फलं जलम् ॥

अल्पादल्पतरं वापि तदानंत्याय कल्पते

॥३॥

विहाय सकलान्धर्मान्सकलागमनिश्चितान् ॥

शिवमेकं भजेद्यस्तु मुच्यते सर्वबन्धनात्

॥४॥

या प्रीतिरात्मनः पुत्रे या कलत्रे धनेपि सा ॥

कृता चेच्छिवपूजायां त्रायतीति किमद्भुतम्

॥५॥

तस्मात्केचिन्महात्मानः सकलान्विषयासवान् ॥

त्यजंति शिवपूजार्थे स्वदेहमपि दुस्त्यजम्

॥६॥

सा जिह्वा या शिवं स्तौति तन्मनो ध्यायते शिवम् ॥

तौ कर्णौ तत्कथालोलौ तौ हस्तौ तस्य पूजकौ

॥७॥

ते नेत्रे पश्यतः पूजां तच्छिरः प्रणतं शिवे ॥

तौ पादौ यौ शिवक्षेत्रं भक्त्या पर्यटतः सदा

॥८॥

यस्येन्द्रियाणि सर्वाणि वर्तंते शिवकर्मसु ॥

स निस्तरति संसारं भुक्तिं मुक्तिं च विंदति

॥९॥

शिवभक्तियुतो मर्त्यश्चांडालः पुल्कसोपि च ॥

नारी नरो वा षंढो वा सद्यो मुच्येत संसृतेः

॥१०॥

किं कुलेन किमाचारैः किंशीलेन गुणेन वा ॥

भक्तिलेशयुतः शंभोः स वंद्यः सर्वदेहिनाम्

॥११॥

उज्जयिन्यामभूद्राजा चन्द्रसेनसमाह्वयः ॥

जातो मानवरूपेण द्वितीय इव वासवः

॥१२॥

तस्मिन्पुरे महाकालं वसंतं परमेश्वरम् ॥

संपूजयत्यसौ भक्त्या चन्द्रसेनो नृपोत्तमः

॥१३॥

तस्याभवत्सखा राज्ञः शिवपारिषदाग्रणीः ॥

मणिभद्रो जिताभद्रः सर्वलोकनमस्कृतः

॥१४॥

तस्यै कदा महीभर्तुः प्रसन्नः शंकरानुगः ॥

चिन्तामणिं ददौ दिव्यं मणिभद्रो महामतिः

॥१५॥

स मणिः कौस्तुभ इव द्योतमानोर्कसन्निभः ॥

दृष्टः श्रुतो वा ध्यातो वा नृणां यच्छति चिंतितम्

॥१६॥

तस्य कांतिलवस्पृष्टं कांस्यं ताम्रमयस्त्रपु ॥

पाषाणादिकमन्यद्वा सद्यो भवति कांचनम्

॥१७॥

स तं चिन्तामणिं कंठे बिभ्रद्राजासनं गतः ॥

रराज राजा देवानां मध्ये भानुरिव स्वयम्

॥१८॥

सदा चिन्तामणिग्रीवं तं श्रुत्वा राजसत्तमम् ॥

प्रवृद्धतर्षा राजानः सर्वे क्षुब्धहृदोऽभवन्

॥१९॥

स्नेहात्केचिदयाचंत धार्ष्ट्यात्केचन दुर्मदाः ॥

दैवलब्धमजानंतो मणिं मत्सरिणो नृपाः

॥२०॥

सर्वेषां भूभृतां याञ्चा यदा व्यर्थीकृतामुना ॥

राजानः सर्वदेशानां संरंभं चक्रिरे तदा

॥२१॥

सौराष्ट्राः कैकयाः शाल्वाः कलिंगशकमद्रकाः ॥

पांचालावंतिसौवीरा मागधा मत्स्यसृंजयाः

॥२२॥

एते चान्ये च राजानः सहाश्वरथकुमजराः ॥

चन्द्रसेनं मृधे जेतुमुद्यमं चक्रुरोजसा

॥२३॥

ते तु सर्वे सुसंरब्धाः कंपयंतो वसुन्धराम् ॥

उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः

॥२४॥

संरुध्यमानो स्वपुरीं दृष्ट्वा राजभिरुद्धतैः ॥

चंद्रसेनो महाकालं तमेव शरणं ययौ

॥२५॥

निर्विकल्पो निराहारः स राजा दृढनिश्चयः ॥

अर्चयामास गौरीशं दिवा नक्त मनन्यधीः

॥२६॥

एतस्मिन्नंतरे गोपी काचित्तत्पुरवासिनी ॥

एकपुत्रा भर्तृहीना तत्रैवासीच्चिरंतना

॥२७॥

सा पंचहायनं बालं वहंती गत भर्तृका ॥

राज्ञा कृतां महापूजां ददर्श गिरिजापतेः

॥२८॥

सा दृष्ट्वा सर्वमाश्चर्यं शिवपूजामहोदयम् ॥

प्रणिपत्य स्वशिबिरं पुनरेवाभ्यपद्यत

॥२९॥

एतत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ॥

कुतूहलेन विदधे शिवपूजां विरक्तिदाम्

॥३०॥

आनीय हृद्यं पाषाणं शून्ये तु शिबिरोत्तमे ॥

नातिदूरे स्वशिबिराच्छिवलिंगमकल्पयत्

॥३१॥

यानि कानि च पुष्पाणि हस्तलभ्यानि चात्मनः ॥

आनीय स्नाप्य तल्लिंगं पूजयामास भक्तितः

॥३२॥

गंधालंकारवासांसि धूपदीपाक्षतादिकम् ॥

विधाय कृत्रिमैर्दिव्यैर्नैवेद्यं चाप्यकल्पयत्

॥३३॥

भूयोभूयः समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ॥

नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः

॥३४॥

एवं पूजां प्रकुर्वाणं शिवस्यानन्यमानसम् ॥

सा पुत्रं प्रणयाद्गोपी भोजनाय समा ह्वयत्

॥३५॥

मात्राहूतोपि बहुशः स पूजासक्तमानसः ॥

बालोपि भोजनं नच्छत्तदा माता स्वयं ययौ

॥३६॥

तं विलोक्य शिवस्याग्रे निषण्णं मी लितेक्षणम् ॥

चकर्ष पाणिं संगृह्य कोपेन समताडयत्

॥३७॥

आकृष्टस्ताडितो वापि नागच्छत्स्वसुतो यदा ॥

तां पूजां नाशयामास क्षिप्त्वा लिंगं विदूरतः

॥३८॥

हाहेति रुदमानं तं निर्भर्त्स्य स्वसुतं तदा ॥

पुनर्विवेश स्वगृहं गोपी रोषसमन्विता

॥३९॥

मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ॥

देवदेवेति चुक्रोश निपपात स बालकः

॥४०॥

प्रनष्टसंज्ञः सहसा बाष्पपूरपरिप्लुतः ॥

लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत्

॥४१॥

ततो मणिस्तंभविराजमानं हिरण्मयद्वारकपाटतोरणम् ॥

महार्हनीलामलवज्रवेदिकं तदेव जातं शिबिरं शिवालयम्

॥४२॥

संतप्तहेम कलशैर्बहुभिर्विचित्रैः प्रोद्भासितस्फटिकसौधतलाभिरामम् ॥

रम्यं च तच्छिवपुरं वरपीठमध्ये लिंगं च रत्नसहितं स ददर्श बालः

॥४३॥

स दृष्ट्वा सहसोत्थाय भीतविस्मितमानसः ॥

निमग्न इव संतोषात्परमानंदसागरे

॥४४॥

विज्ञाय शिवपूजाया माहात्म्यं तत्प्रभावतः ॥

ननाम दंडवद्भूमौ स्वमातुरघशांतये

॥४५॥

देव क्षमस्व दुरितं मम मातुरुमापते ॥

मूढायास्त्वामजानंत्याः प्रसन्नो भव शंकर

॥४६॥

यद्यस्ति मयि यत्किंचित्पुण्यं त्वद्भक्तिसंभवम् ॥

तेनापि शिव मे माता तव कारुण्यमाप्नुयात्

॥४७॥

इति प्रसाद्य गिरिशं भूयोभूयः प्रणम्य च ॥

सूर्ये चास्तं गते बालो निर्जगाम शिवालयात्

॥४८॥

अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम् ॥

सद्यो हिरण्मयीभूतं विचित्रविभवोज्ज्वलम्

॥४९॥

सोंतः प्रविश्य भवनं मोदमानो निशामुखे ॥

महामणिगणाकीर्णं हेमराशिसमुज्ज्वलम्

॥५०॥

तत्रापश्यत्स्वजननीं स्मरंतीमकुतोभयाम् ॥

महार्हरत्न पर्यंके सितशय्यामधिश्रिताम्

॥५१॥

रत्नालंकारदीप्तांगीं दिव्यांबरविराजिनीम् ॥

दिव्यलक्षणसंपन्नां साक्षात्सुरवधूमिव

॥५२॥

जवेनोत्थापयामास संभ्रमोत्फुल्ललोचनः ॥

अंब जागृहि भद्रं ते पश्येदं महदद्भुतम्

॥५३॥

इति प्रबोधिता गोपी स्वपुत्रेण महात्मना ॥

ततोऽपश्यत्स्वजननी स्मयन्ती मुकुटोज्ज्वला

॥५४॥

ससंभ्रमं समुत्थाय तत्सर्वं प्रत्यवेक्षत ॥

अपूर्वमिव चात्मानमपूर्वमिव बालकम्

॥५५॥

अपूर्वं च स्वसदनं दृष्ट्वा सीत्सुखविह्वला ॥

श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः

॥५६॥

राज्ञे विज्ञापयामास यो भजत्यनिशं शिवम् ॥

स राजा सहसागत्य समाप्त नियमो निशि

॥५७॥

ददर्श गोपिकासूनोः प्रभावं शिवतोषजम् ॥

हिरण्मयं शिवस्थानं लिंगं मणिमयं तथा

॥५८॥

गोपवध्वाश्च सदनं माणि क्यवरकोज्ज्वलम् ॥

दृष्ट्वा महीपतिः सर्वं सामात्यः सपुरोहितः

॥५९॥

मुहूर्तं विस्मितधृतिः परमानंदनिर्भरः ॥

प्रेम्णा वाष्पजलं मुंचन्परिरेभे तम र्भकम्

॥६०॥

एवमत्यद्भुताकाराच्छिवमाहात्म्यकीर्त्तनात् ॥

पौराणां संभ्रमाच्चैव सा रात्रिः क्षणतामगात्

॥६१॥

अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ॥

राजानश्चारवक्त्रेभ्यः शुश्रुवुः परमाद्भुतम्

॥६२॥

ते त्यक्तवैराः सहसा राजानश्चकिता भृशम् ॥

न्यस्तशस्त्रा निविविशुश्चंद्रसेनानुमोदिताः

॥६३॥

तां प्रविश्य पुरीं रम्यां महाकालं प्रणम्य च ॥

तद्गोपवनितागेहमाजग्मुः सर्वभूभृतः

॥६४॥

ते तत्र चंद्रसेनेन प्रत्युद्गम्याभि पूजिताः ॥

महार्हविष्टरगताः प्रीत्यानंदन्सुविस्मिताः

॥६५॥

गोपसूनोः प्रसादाय प्रादुर्भूतं शिवालयम् ॥

लिंगं च वीक्ष्य सुमहच्छिवे चक्रुः परां मतिम्

॥६६॥

तस्मै गोपकुमाराय प्रीतास्ते सर्वभूभुजः ॥

वासोहिरण्यरत्नानि गोमहिष्यादिकं धनम्

॥६७॥

गजानश्वान्रथान्रौक्माञ्छत्र यानपरिच्छदान् ॥

दासान्दासीरनेकाश्च ददुः शिवकृपार्थिनः

॥६८॥

येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ॥

तेषां तमेव राजानं चक्रिरे सर्व पार्थिवाः

॥६९॥

अथास्मिन्नंतरे सर्वैस्त्रिदशैरभिपूजितः ॥

प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः

॥७०॥

तस्याभिगमनादेव राजानो जातसंभ्रमाः ॥

प्रत्युत्थाय नमश्चक्रुर्भक्तिनम्रात्ममूर्त्तयः

॥७१॥

तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ॥

गोपात्मजं समाश्लिष्य राज्ञो वीक्ष्येदमववीत्

॥७२॥

सर्वे शृणुत भद्रं वो राजानो ये च देहिनः ॥

शिवपूजामृते नान्या गतिरस्ति शरीरिणाम

॥७३॥

एष गोपसुतो दिष्ट्या प्रदोषे मंदवा सरे ॥

अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान्

॥७४॥

मंदवारे प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ॥

तत्रापि दुर्लभतरः कृष्णपक्षे समागते

॥७५॥

एष पुण्यतमो लोके गोपानां कीर्तिवर्धनः ॥

अस्य वंशेऽष्टमो भावी नंदोनाम महायशाः ॥

प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारा यणः स्वयम्

॥७६॥

अद्यप्रभृति लोकेस्मिन्नेष गोपालनंदनः ॥

नाम्ना श्रीकर इत्युच्चैर्लोके ख्यातिं गमिष्यति

॥७७॥

सूत उवाच

एवमुक्त्वांजनीसूनुस्तस्मै गोपकसूनवे ॥

उपदिश्य शिवाचारं तत्रैवांतरधीयत

॥७८॥

ते च सर्वे महीपालाः संहृष्टाः प्रतिपूजिताः ॥

चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम्

॥७९॥

श्रीकरोऽपि महातेजा उपदिष्टो हनूमता ॥

ब्राह्मणैः सह धर्मज्ञैश्चक्रे शम्भोः समर्हणम्

॥८०॥

कालेन श्रीकरः सोऽपि चंद्रसेनश्च भूपतिः ॥

समाराध्य शिवं भक्त्या प्रापतुः परमं पदम्

॥८१॥

इदं रहस्यं परमं पवित्रं यशस्करं पुण्यमहर्द्धिवर्धनम् ॥

आख्यानमाख्यातमघौघनाशनं गौरीशपादांबुजभक्तिवर्धनम्

॥८२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तर खण्डे गोपकुमारचरितवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥