नित्यानंदमयं शांतं निर्विकल्पं निरामयम्
सूत उवाच
नित्यानंदमयं शांतं निर्विकल्पं निरामयम् ॥
शिवतत्त्वमनाद्यंतं ये विदुस्ते परं गताः
॥१॥विरक्ताः कामभोगेभ्यो ये प्रकुर्वंत्यहैतुकीम् ॥
भक्तिं परां शिवे धीरास्तेषां मुक्तिर्न संसृतिः
॥२॥विषयानभिसंधाय ये कुर्वंति शिवे रतिम् ॥
विषयैर्नाभिभूयंते भुंजानास्तत्फलान्यपि
॥३॥येन केनापि भावेन शिवभक्तियुतो नरः ॥
न विनश्यति कालेन स याति परमां गतिम्
॥४॥आरुरुक्षुः परं स्थानं विषयासक्तमानसः ॥
पूजयेत्कर्मणा शंभुं भोगांते शिवमाप्नुयात्
॥५॥अशक्तः कश्चिदुत्स्रष्टुं प्रायो विषयवासनाम् ॥
अतः कर्ममयी पूजा कामधेनुः शरीरिणाम्
॥६॥मायामयेपि संसारे ये विहृत्य चिरं सुखम् ॥
मुक्तिमिच्छन्ति देहांते तेषां धर्मोयमीरितः
॥७॥शिवपूजा सदा लोके हेतुः स्वर्गापवर्गयोः ॥
सोमवारे विशेषेण प्रदोषादिगुणान्विते
॥८॥केवलेनापि ये कुर्युः सोमवारे शिवार्चनम् ॥
न तेषां विद्यते किंचिदिहामुत्र च दुर्लभम्
॥९॥उपोषितः शुचिर्भूत्वा सोमवारे जितेंद्रियः ॥
वैदिकैर्लौकिकैर्वापि विधिवत्पूजयेच्छिवम्
॥१०॥ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका ॥
विभर्तृका वा संपूज्य लभते वरमीप्सितम्
॥११॥अत्राहं कथयिष्यामि कथां श्रोतृमनोहराम् ॥
श्रुत्वा मुक्तिं प्रयांत्येव भर्तिर्भवति शांभवी
॥१२॥आर्यावर्ते नृपः कश्चिदासीद्धर्मभृतां वरः ॥
चित्रवर्मेति विख्यातो धर्मराजो दुरात्मनाम्
॥१३॥स गोप्ता धर्मसेतूनां शास्ता दुष्पथगामिनाम् ॥
यष्टा समस्तयज्ञानां त्राता शरणमिच्छताम्
॥१४॥कर्त्ता सकलपुण्यानां दाता सकलसंपदाम् ॥
जेता सपत्नवृंदानां भक्तः शिवमुकुन्दयोः
॥१५॥सोनुकूलासु पत्नीषु लब्ध्वा पुत्रान्महौजसः ॥
चिरेण प्रार्थितां लेभे कन्यामेकां वराननाम्
॥१६॥स लब्ध्वा तनयां दिष्ट्या हिमवानिव पार्वतीम् ॥
आत्मानं देवसदृशं मेने पूर्णमनोरथम्
॥१७॥स एकदा जातकलक्षणज्ञानाहूय साधून्द्विजमुख्यवृंदान् ॥
कुतूहलेनाभिनिविष्टचेताः पप्रच्छ कन्याजनने फलानि
॥१८॥अथ तत्राब्रवीदेको बहुज्ञो द्विजसत्तमः ॥
एषा सीमंतिनी नाम्ना कन्या तव महीपते
॥१९॥उमेव मांगल्यवती दमयंतीव रूपिणी ॥
भारतीव कलाभिज्ञा लक्ष्मीरिव महागुणा
॥२०॥सुप्रजा देवमातेव जानकीव धृतव्रता ॥
रविप्रभेव सत्कांतिश्चंद्रिकेव मनोरमा
॥२१॥दशवर्षसहस्राणि सह भर्त्रा प्रमोदते ॥
प्रसूय तनयानष्टौ परं सुखमवाप्स्यति
॥२२॥इत्युक्तवंतं नृपतिर्धनैः संपूज्य तं द्विजम् ॥
अवाप परमां प्रीतिं तद्वागमृतसेवया
॥२३॥अथान्योऽपि द्विजः प्राह धैर्यवानमितद्युतिः ॥
एषा चतुर्दशे वर्षे वैधव्यं प्रतिपत्स्यति
॥२४॥इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ॥
मुहूर्तमभवद्राजा चिंताव्याकुलमानसः
॥२५॥अथ सर्वान्समुत्सृज्य ब्राह्मणान्ब्रह्मवत्सलः ॥
सर्वं दैवकृतं मत्त्वा निश्चिंतः पार्थिवोऽभवत्
॥२६॥सापि सीमंतिनी बाला क्रमेण गतशैशवा ॥
वैधव्यमात्मनो भावि शुश्रावात्मसखीमुखात्
॥२७॥परं निर्वेदमापन्ना चिंतयामास बालिका ॥
याज्ञवल्क्यमुनेः पत्नीं मैत्रेयीं पर्यपृच्छत
॥२८॥मातस्त्वच्चरणांभोजं प्रपन्नास्मि भयाकुला ॥
सौभाग्यवर्धनं कर्म मम शंसितुमर्हसि
॥२९॥इति प्रपन्नां नृपतेः कन्यां प्राह मुनेः सती ॥
शरणं व्रज तन्वंगि पार्वतीं शिवसंयुताम्
॥३०॥सोमवारे शिवं गौरीं पूजयस्व समाहिता ॥
उपोषिता वा सुस्नाता विरजाम्बरधारिणी
॥३१॥यतवाङ्निश्चलमनाः पूजां कृत्वा यथोचिताम् ॥
ब्राह्मणान्भोजयित्वाथ शिवं सम्यक्प्रसादयत्
॥३२॥पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ॥
सौभाग्यमखिलं सौख्यं गंधमाल्याक्षतार्पणात्
॥३३॥धूपदानेन सौगंध्यं कांतिर्दीपप्रदानतः ॥
नैवेद्यैश्च महाभोगो लक्ष्मीस्तांबूलदानतः
॥३४॥धर्मार्थकाममोक्षाश्च नमस्कारप्रदानतः ॥
अष्टैश्वर्यादिसिद्धीनां जप एव हि कारणम्
॥३५॥होमेन सर्वकामानां समृद्धिरुपजायते ॥
सर्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात्
॥३६॥इत्थमाराधय शिवं सोमवारे शिवामपि ॥
अत्यापदमपि प्राप्ता निस्तीर्णाभिभवा भवेः
॥३७॥घोराद्घोरं प्रपन्नापि महाक्लेशं भयानकम् ॥
शिवपूजाप्रभावेण तरिष्यसि महद्भयम्
॥३८॥इत्थं सीमंतिनीं सम्यगनुशास्य पुनः सती ॥
ययौ सापि वरारोहा राजपुत्री तथाऽकरोत्
॥३९॥दमयंत्यां नलस्यासीदिंद्रसेनाभिधः सुतः ॥
तस्य चंद्रांगदो नाम पुत्रोभू च्चंद्रसन्निभः
॥४०॥चित्रवर्मा नृपश्रेष्ठस्तमाहूय नृपात्मजम् ॥
कन्यां सीमंतिनीं तस्मै प्रायच्छद्गुर्वनुज्ञया
॥४१॥सोऽभून्महोत्सवस्तत्र तस्या उद्वाहकर्मणि ॥
यत्र सर्वमहीपानां समवायो महानभूत्
॥४२॥तस्याः पाणिग्रहं काले कृत्वा चंद्रांगदः कृती ॥
उवास कतिचिन्मासांस्तत्रैव श्वशुरालये
॥४३॥एकदा यमुनां तर्तुं स राजतनयो बली ॥
आरुरोह तरीं कैश्चिद्वयस्यैः सह लीलया
॥४४॥तस्मिंस्तरति कालिंदीं राजपुत्रे विधेर्वशात् ॥
ममज्ज सह कैवतैरावर्त्ताभिहता तरी
॥४५॥हा हेति शब्दः सुमहानासीत्तस्यास्तटद्वये ॥
पश्यतां सर्वसैन्यानां प्रलापो दिवम स्पृशत्
॥४६॥मज्जंतो मम्रिरे केचित्केचिद्ग्राहोदरं गताः ॥
राजपुत्रादयः केचिन्नादृश्यंत महाजले
॥४७॥तदुपश्रुत्य राजापि चित्रवर्मातिवि ह्वलः ॥
यमुनायास्तटं प्राप्य विचेष्टः समजायत
॥४८॥श्रुत्वाथ राजपत्न्यश्च वभूबुर्गतचेतनाः ॥
सा च सीमंतिनी श्रुत्वा पपाप डूवि मूर्च्छिता
॥४९॥तथान्ये मंत्रिमुख्याश्च नायकाः सपुरोहिताः ॥
विह्वलाः शोकसंतप्ता विलेपुर्मुक्तमूर्धजाः
॥५०॥इंद्रसेनोपि राजेद्रः पुत्रवार्त्तां सुदुःखितः ॥
आकर्ण्य सह पत्नीभिर्नष्टसंज्ञः पपात ह
॥५१॥तन्मंत्रिणश्च तत्पौरास्तथा तद्देशवासिनः ॥
आबालवृद्धवनिताश्चुक्रुशुः शोकविह्वलाः
॥५२॥शोकात्केचिदुरो जघ्नुः शिरो जघ्नुश्च केचन ॥
हा राजपुत्र हा तात क्वासि क्वासीति बभ्रमुः
॥५३॥एवं शोकाकुलं दीनमिंद्रसेनमहीपतेः ॥
नगरं सहसा क्षुब्धं चित्रवर्मपुरं तथा
॥५४॥अथ वृद्धैः समाश्वस्तश्चित्रवर्मा महीपतिः ॥
शनैर्नगरमागत्य सान्त्वयामास चात्मजाम्
॥५५॥स राजांभसिमग्नस्य जामातुस्तस्य बांधवैः ॥
आगतैः कारयामास साकल्यादौर्ध्वदैहिकम्
॥५६॥सा च सीमंतिनी साध्वी भर्तृलोकमतिः सती ॥
पित्रा निषिद्धा स्नेहेन वैधव्यं प्रत्यपद्यत
॥५७॥मुनेः पत्न्योऽपदिष्टं यत्सोमवारव्रतं शुभम् ॥
न तत्याज शुभाचारा वैधव्यं प्राप्तवत्यपि
॥५८॥एवं चतुर्दशे वर्षे दुःखं प्राप्य सुदारुणम् ॥
ध्यायन्ती शिवपादाब्जं वत्सरत्रयमत्यगात्
॥५९॥पुत्रशोकादिवोन्मत्तमिंद्रसेनं महीपतिम् ॥
प्रसह्य तस्य दायादाः सप्तांगं जह्रुरोजसा
॥६०॥हृतसिंहासनः शूरैर्दायादैः सोऽप्रजो नृपः ॥
निगृह्य काराभवने सपत्नीको निवेशितः
॥६१॥चंद्रागदोऽपि तत्पुत्रो निमग्नो यमुनाजले ॥
अधोधोमज्जमानोऽसौ ददर्शोरगकामिनीः
॥६२॥जलक्रीडासु सक्तास्ता दृष्ट्वा राजकुमार कम् ॥
विस्मितास्तमथो निन्युः पातालं पन्नगालयम्
॥६३॥स नीयमानस्तरसा पन्नगीभिर्नृपात्मजः ॥
तक्षकस्य पुरं रम्यं विवेश परमाद्भुतम्
॥६४॥सोऽपश्यद्राजतनयो महेंद्रभवनोपमम् ॥
महारत्नपरिभ्राजन्मयूखपरिदीपितम्
॥६५॥वज्रवैडूर्यपाचादिप्रासादशतसंकुलम् ॥
माणिक्य गोपुरद्वारं मुक्तादामभिरुज्ज्वलम्
॥६६॥चंद्रकांतस्थलं रम्यं हेमद्वारकपाटकम् ॥
अनेकशतसाहस्रमणिदीपविराजितम्
॥६७॥तत्रापश्यत्सभा मध्ये निषण्णं रत्नविष्टरे ॥
तक्षकं पन्नगाधीशं फणानेकशतोज्ज्वलम्
॥६८॥दिव्यांबरधरं दीप्तं रत्नकुण्डलराजितम् ॥
नानारत्नपरिक्षिप्तमुकुट द्युतिरंजितम्
॥६९॥फणामणिमयूखाढ्यैरसंख्यैः पन्नगोत्तमैः ॥
उपासितं प्रांजलिभिश्चित्ररत्नविभूषितैः
॥७०॥रूपयौवनमाधुर्यविलासगति शोभिना ॥
नागकन्यासहस्रेण समंतात्परिवारितम्
॥७१॥दिव्याभरणदीप्तांगं दिव्यचंदनचर्चितम् ॥
कालाग्निमिव दुर्धर्षं तेजसादित्यसन्निभम्
॥७२॥दृष्ट्वा राजसुतो धीरः प्रणिपत्य सभास्थले ॥
उत्थितः प्रांजलिस्तस्य तेजसाक्षिप्तलोचनः
॥७३॥नागराजोपि तं दृष्ट्वा राजपुत्रं मनोरमम् ॥
कोऽयं कस्मादिहायात इति पप्रच्छ पन्नगीः
॥७४॥ता ऊचुर्यमुनातोये दृष्टोऽस्माभिर्यदृच्छया ॥
अज्ञातकुलनामायमानीतस्तव सन्निधिम्
॥७५॥अथ पृष्टो राजपुत्रस्तक्षकेण महात्मना ॥
कस्यासि तनयः कस्त्वं को देशः कथमागतः
॥७६॥राजपुत्रो वचः श्रुत्वा तक्षकं वाक्यमब्रवीत्
॥७७॥राजपुत्र उवाच
अस्ति भूमंडले कश्चिद्देशो निषधसंज्ञकः ॥
तस्याधिपोऽभवद्राजा नलो नाम महा यशाः ॥
स पुण्यकीर्तिः क्षितिपो दमयन्तीपतिः शुभः
॥७८॥तस्मादपींद्रसेनाख्यस्तस्य पुत्रो महाबलः ॥
चंद्रांगदोस्मि नाम्नाहं नवोढः श्वशुरालये ॥
विहरन्यमुनातोये निमग्नो देवचोदितः
॥७९॥एताभिः पन्नगस्त्रीभिरानीतोस्मि तवांतिकम् ॥
दृष्ट्वाहं तव पादाब्जं पुण्यैर्जन्मांतरार्जितैः
॥८०॥अद्य धन्योऽस्मि धन्योऽस्मि कृतार्थो पितरौ मम ॥
यत्प्रेक्षितोऽहं कारुण्यात्त्वया संभाषितोपि च
॥८१॥सूत उवाच
इत्युदारमसंभ्रांतं वचः श्रुत्वातिपेशलम् ॥
तक्षकः पुनरौत्सुक्याद्बभाषे राजनंदनम्
॥८२॥तक्षक उवाच
भोभो नरेंद्रदायाद मा भैषीर्धीरतां व्रज ॥
सर्वदेवेषु को देवो युष्माभिः पूज्यते सदा
॥८३॥राजपुत्र उवाच
यो देवः सर्वेदेवेषु महादेवं इति स्मृतः ॥
पूज्यते स हि विश्वात्मा शिवोऽस्माभिरुमापतिः
॥८४॥यस्य तेजोंशलेशेन रजसा च प्रजापतिः ॥
कृतरूपोऽसृजद्विश्वं स नः पूज्यो महेश्वरः
॥८५॥यस्यांशात्सात्त्विकं दिव्यं बिभ्रद्विष्णुः सनातनः ॥
विश्वं बिभर्त्ति भूतात्मा शिवोऽस्माभिः स पूज्यते
॥८६॥यस्यांशात्तामसाज्जातो रुद्रः कालाग्निसन्निभः ॥
विश्वमेतद्धरत्यंते स पूज्योऽस्माभिरीश्वरः
॥८७॥यो विधाता विधातुश्च कारणस्यापि कारणम् ॥
तेजसां परमं तेजः स शिवो नः परा गतिः
॥८८॥योंतिकस्थोऽपि दूरस्थः पापोपहृतचेतसाम् ॥
अपरिच्छेद्य धामासौ शिवो नः परमा गतिः
॥८९॥योऽग्नौ तिष्ठति यो भूमौ यो वायौ सलिले च यः ॥
य आकाशे च विश्वात्मा स पूज्यो नः सदाशिवः ॥
यः साक्षी सर्वभूतानां य आत्मस्थो निरंजनः ॥
यस्येच्छावशगो लोकः सोऽस्माभिः पूज्यते शिवः
॥९१॥यमेकमाद्यं पुरुषं पुराणं वदंति भिन्नं गुणवैकृतेन ॥
क्षेत्रज्ञमेकेथ तुरीयमन्ये कूटस्थमन्ये स शिवो गतिर्नः
॥९२॥यं नास्पृशंश्चैत्यमचिंत्यतत्त्वं दुरंतधामानमतत्स्वरूपम् ॥
मनोवचोवृत्तय आत्मभाजां स एष पूज्यः परमः शिवो नः
॥९३॥यस्य प्रसादं प्रतिलभ्य संतो वांछंति नैंद्रं पदमुज्ज्वलं वा ॥
निस्तीर्णकर्मार्गलकालचक्राश्चरंत्यभीताः स शिवो गतिर्नः
॥९४॥यस्य स्मृतिः सकलपापरुजां विघातं सद्यः करोत्यपि चु पुल्कसजन्मभाजाम् ॥
यस्य स्वरूपमखिलं श्रुतिभिर्विमृग्यं तस्मै शिवाय सततं करवाम पूजाम्
॥९५॥यन्मूर्ध्नि लब्धनिलया सुरलोकसिंधुर्यस्यांगगाँ भगवती जगदंबिका च ॥
यत्कुंडले त्वहह तक्षकवासुकी द्वौ सोऽस्माकमेव गतिरर्धशशांकमौलिः
॥९६॥जयति निगमचूडाग्रेषु यस्यांघ्रिपद्मं जयति च हृदि नित्यं योगिनां यस्य मूर्तिः ॥
जयति सकलतत्त्वोद्भासनं यस्य मूर्तिः स विजितगुणसर्गः पूज्यतेऽस्माभिरीशः
॥९७॥सूत उवाच
इत्याकर्ण्य वचस्तस्य तक्षकः प्रीतमानसः ॥
जातभक्तिर्महादेवे राजपुत्रमभाषत
॥९८॥तक्षक उवाच
परितुष्टोऽस्मि भद्रं स्तात्तव राजेद्रनंदन ॥
बालोपि यत्परं तत्त्वं वेत्सि शैवं परात्परम्
॥९९॥एष रत्नमयो लोक एताश्चारुदृशोऽबलाः ॥
एते कल्पद्रुमाः सर्वे वाप्योमृतरसांभसः
॥१००॥नात्र मृत्युभयं घोरं न जरारोगपीडनम् ॥
यथेष्टं विहरात्रैव भुंक्ष्व भोगान्यथोचितान्
॥१०१॥इत्युक्तो नागराजेन स राजेंद्रकुमारकः ॥
प्रत्युवाच परं प्रीत्या कृतांजलिरुदारधीः
॥२॥कृतदारोऽस्म्यहं काले सुव्रता गृहिणी मम ॥
शिव पूजापरा नित्यं पितरावेकपुत्रकौ
॥३॥ते त्वद्य मां मृतं मत्त्वा शोकेन महतावृताः ॥
प्रायः प्राणैर्वियुज्यंते दैवात्प्राणान्वहंति वा
॥४॥अतो मया बहुतिथं नात्र स्थेयं कथंचन ॥
तमेव लोकं कृपया मां प्रापयितुमर्हसि
॥५॥इत्युक्तवंतं नरदेवपुत्रं दिव्यैर्वरान्नैः सुरपादपोत्थैः ॥
आप्याययित्वा वरगंधवासः स्रग्रत्नदिव्याभरणैर्विचित्रैः
॥६॥संतोषयित्वा विविधैश्च भोगैः पुनर्बभाषे भुजगाधिराजः ॥
यदायदा त्वं स्मरसि त्वदग्रे तदा तदाविष्क्रियते मयेति
॥७॥पुनश्च राजपुत्राय तक्षकोश्वं च कामगम् ॥
नानाद्वीपसमुद्रेषु लोकेषु च निरर्गलम्
॥८॥दत्तवान्रत्नाभरण दिव्याभरणवाससाम् ॥
वाहनाय ददावेकं राक्षसं पन्नगेश्वरः
॥९॥तत्सहायार्थमेकं च पन्नगेंद्रकुमारकम् ॥
नियुज्य तक्षकः प्रीत्या गच्छेति विससर्ज तम्
॥११०॥इति चंद्रांगदः सोऽथ संगृह्य विविधं धनम् ॥
अश्वं कामगमारुह्य ताभ्यां सह विनिर्ययौ
॥११॥स मूहूर्तादिवोन्मज्ज्य तस्मा देव सरिज्जलात् ॥
विजहार तटे रम्ये दिव्यमारुह्य वाजिनम्
॥१२॥अथास्मिन्समये तन्वी सा च सीमंतिनी सती ॥
स्नातुं समाययौ तत्र सखी भिः परिवारिता
॥१३॥सा ददर्श नदीतीरे विहरंतं नृपात्मजम् ॥
रक्षसा नररूपेण नागपुत्रेण चान्वितम्
॥१४॥दिव्यरत्नसमाकीर्णं दिव्य माल्यावतंसकम् ॥
देहेन दिव्यगंधेन व्याक्षिप्तदशयोजनम्
॥१५॥तमपूर्वाकृतिं वीक्ष्य दिव्याश्वमधिसंस्थितम् ॥
जडोन्मत्तेव भीतेव तस्थौ तन्न्यस्तलोचना
॥१६॥तां च राजेंद्रपुत्रोऽसौ दृष्टपूर्वामिति स्मरन् ॥
निर्मुक्तकंठाभरणां कंठसूत्रविवर्जिताम्
॥१७॥असंयोजितधम्मिल्लामंगरागविवर्जिताम् ॥
त्यक्तनीलांजनापांगीं कृशांगीं शोकदूषिताम्
॥१८॥दृष्ट्वाऽवतीर्य तुरगादुपविष्टः सरित्तटे ॥
तामाहूय वरारोहामुपवेश्येदम ब्रवीत्
॥१९॥का त्वं कस्य कलत्रं वा कस्यासि तनया सती ॥
किमिदं तेंगने बाल्ये दुःसहं शोकलक्षणम्
॥१२०॥इति स्नेहेन संपृष्टा सा वधूरश्रुलोचना ॥
लज्जिता स्वयमाख्यातुं तत्सखी सर्वमब्रवीत्
॥२१॥इयं सीमंतिनी नाम्ना स्नुषा निषधभूपतेः ॥
चंद्रांगदस्य महिषी तनया चित्रवर्मणः
॥२२॥अस्याः पतिर्दैवयोगान्निमग्नोऽस्मिन्महाजले ॥
तेनेयं प्राप्तवैधव्या बाला दुःखेन शोषिता
॥२३॥एवं वर्षत्रयं नीतं शोकेनातिबलीयसा ॥
अद्येंदुवारे संप्राप्ते स्नातुमत्र समागता
॥२४॥श्वशुरोऽस्याश्च राजेंद्रो हृतराज्यश्च शत्रु भिः ॥
बलाद्गृहीतो बद्धश्च सभार्यस्तद्वशे स्थितः
॥२५॥तथाप्येषा शुभाचारा सोमवारे महेश्वरम् ॥
सांबिकं परया भक्त्या पूजयत्यमलाशया
॥२६॥सूत उवाच
इत्थं सखीमुखेनैव सर्वमावेद्य सुव्रता ॥
ततः सीमंतिनी प्राह स्वयमेव नृपात्मजम्
॥२७॥कस्त्वं कंदर्पसंकाशः काविमौ तव पार्श्वगौ ॥
देवो नरेंद्रः सिद्धो वा गंधर्वो वाथ किन्नरः
॥२८॥किमर्थं मम वृत्तांतं स्नेहवानिव पृच्छसि ॥
किं मां वेत्सि महाबाहो दृष्टवान्किमु कुत्रचित्
॥२९॥दृष्टपूर्व इवाभासि मया च स्वजनो यथा ॥
सर्वं कथय तत्त्वेन सत्यसारा हि साधवः
॥१३०॥सूत उवाच
एतावदुक्त्वा नरदेवपुत्री सबाष्पकंठं सुचिरं रुरोद ॥
मुमोह भूमौ पतिता सखीभिर्वृता न किंचित्कथितुं शशाक
॥३१॥श्रुत्वा चंद्रांगदः सर्वं प्रियायाः शोककारणम् ॥
मुहूर्त्तमभवतूष्णीं स्वयं शोकसमाकुलः
॥३२॥अथाश्वास्य प्रियां तन्वीं विविधैर्वाक्यनैपुणैः ॥
सिद्धा नाम वयं देवाः कामगा इति सोऽब्रवीत्
॥३३॥ततो बलादिवाकृष्य पाणिग्रहणशंकिताम् ॥
पुलकांचितसर्वांगीं तां कर्णे त्विदमब्रवीत्
॥३४॥क्वापि लोके मया दृष्टस्तव भर्त्ता वरानने ॥
त्वद्व्रताचरणात्प्रीतः सद्य एवागमिष्यति
॥३५॥अपनेष्यति ते शोकं द्वित्रैरेव दिनैर्ध्रुवम् ॥
एतच्छंसितुमायातस्तव भर्त्तुः सखाऽस्म्यहम्
॥३६॥अत्र कार्यो न संदेहः शपामि शिवपादयोः ॥
तावत्त्वद्धृदये स्थेयं न प्रकाश्यं च कुत्रचित्
॥३७॥सा तु तद्वचनं श्रुत्वा सुधाधाराशताधिकम् ॥
संभ्रमोद्भ्रांतनयना तमेव मुहुरैक्षत
॥३८॥प्रेमबंधानुगुणितं वाक्यं चाह रसायनम् ॥
विभ्रमोदारसहितं मधुरापांगवीक्षणम्
॥३९॥स्वपाणिस्पर्शनोद्भिन्नपुलकांचितविग्रहम् ॥
पूर्व दृष्टानि चांगेषु लक्षणानि स्वरादिषु ॥
वयःप्रमाणं वर्णं च परीक्ष्यैनमतर्कयत्
॥१४०॥एष एव पतिर्मे स्याद्ध्रुवं नान्यो भविष्यति ॥
अस्मिन्नेव प्रसक्तं मे हृदयं प्रेमकातरम्
॥१४१॥परलोकादिहायातः कथमेवं स्वरूपधृक् ॥
दुर्भाग्यायाः कथं मे स्याद्भर्तुर्नष्टस्य दर्शनम्
॥१४२॥स्वप्नोयं किमु न स्वप्नो भ्रमोऽयं किं तु न भ्रमः ॥
एष धूर्तोऽथवा कश्चिद्यक्षो गंधर्व एव वा
॥१४३॥मुनिपल्या यदुक्तं मे परमापद्गतापि च ॥
व्रतमेतत्कुरुष्वेति तस्य वा फलमेव वा
॥४४॥यो वर्षायुत सौभाग्यं ममेत्याह द्विजोत्तमः ॥
नूनं तस्य वचः सत्यं को विद्यादीश्वरं विना
॥४५॥निमित्तानि च दृश्यंते मंगलानि दिनेदिने ॥
प्रसन्ने पार्वतीनाथे किमसाध्यं शरीरिणाम्
॥४६॥इत्थं विमृश्य बहुधा तां पुनर्मुक्तसंशयाम् ॥
लज्जानम्रमुखीं कर्णे शशंसात्मप्रयोजनम्
॥४७॥इमं वृत्तांतमाख्यातुं तत्पित्रोः शोकतप्तयोः ॥
गच्छामः स्वस्ति ते भद्रे सद्यः पतिमवाप्स्यसि
॥४८॥इत्युक्त्वाश्वं समारुह्य जगाम नृपनंदनः ॥
ताभ्यां सह निजं राष्ट्रं प्रत्यपद्यत तत्क्षणात्
॥४९॥स पुरोपवनाभ्याशे स्थित्वा तं फणि पुत्रकम् ॥
विससर्जात्मदायादान्नृपासनगतान्प्रति
॥१५०॥स गत्वोवाच ताञ्छीघ्रमिंद्रसेनो विमुच्यताम् ॥
चंद्रांगदस्तस्य सुतः प्राप्तोऽयं पन्नगाल यात्
॥१५१॥नृपासनं विमुंचंतु भवंतो न विचार्यताम् ॥
नो चेच्चंद्रागदस्याशु बाणाः प्राणान्हरंति वः
॥१५२॥स मग्नो यमुनातोये गत्वा तक्षकमंदिरम् ॥
लब्ध्वा च तस्य साहाय्यं पुनर्लोकादिहागतः
॥१५३॥इत्याख्यातमशेषेण तद्वृत्तांतं निशम्य ते ॥
साधुसाध्विति संभ्रांताः शशंसुः परिपंथिनः
॥५४॥अथेंद्रसेनाय निवेद्य सत्वरं नष्टस्य पुत्रस्य पुनः समागमम् ॥
प्रसाद्य तं प्राप्तनरेश्वरासनं दायादमुख्यास्तु भयं प्रपेदिरे
॥५५॥अथ पौरजनाः सर्वे पुरोद्याने नृपात्मजम् ॥
दृष्ट्वा राज्ञे द्रुतं प्रोचुर्लेभिरे च महाधनम्
॥५६॥आकर्ण्य पुत्रमायांतं राजानंदजलाप्लुतः ॥
न व्यजानादिमं लोकं राज्ञी च परया मुदा
॥५७॥अथ नागरिकाः सर्वे मंत्रिवृद्धाः पुरोधसः ॥
प्रत्युद्गम्य परिष्वज्य तमानिन्युर्नृपांति कम्
॥५८॥अथोत्सवेन महता प्रविश्य निजमंदिरम् ॥
राजपुत्रः स्वपितरौ ववंदे बाष्पमुत्सृजन्
॥५९॥तं पादमूले पतितं स्वपुत्रं विवेद नासौ पृथिवीपतिः क्षणम् ॥
प्रबोधितोऽमात्यजनैः कथंचिदुत्थाय क्लिन्नेन हृदालिलिंग
॥१६०॥क्रमेण मातॄरभिवंद्य ताभिः प्रवर्धिताशीः प्रणयाकु लाभिः ॥
आलिंगितः पौरजनानशेषान्संभावयामास स राजसूनुः
॥६१॥तेषां मध्ये समासीनः स्ववृत्तांतमशेषतः ॥
पित्रे निवेदयामास तक्षकस्य च मित्रताम्
॥६२॥दत्तं भुजंगराजेन रत्नादिधनसंचयम् ॥
दिव्यं तद्राक्षसानीतं पित्रे सर्वं न्यवेदयत्
॥६३॥राजपुत्रस्य चरितं दृष्ट्वा श्रुत्वा च विह्वलः ॥
मेने स्नुषायाः सौभाग्यं महेशाराधनार्जितम्
॥६४॥सौमांगल्यमयीं वार्तामिमां निषधभूपतिः ॥
चारैर्निवेदयामास चित्रवर्ममहीपतेः
॥६५॥श्रुत्वाऽमृतमयीं वार्त्तां स समुत्थाय संभ्रमात् ॥
तेभ्यो दत्त्वा धनं भूरि ननर्तानंदविह्वलः
॥६६॥अथाहूय स्वतनयां परिष्वज्याश्रुलोचनः ॥
भूषणैर्भूषयामास त्यक्तवैधव्यलक्षणाम्
॥६७॥अथोत्सवो महानासीद्राष्ट्रग्रामपुरादिषु ॥
सीमंतिन्याः शुभाचारं शशंसुः सर्वतो जनाः
॥६८॥चित्रवर्माथ नृपतिः समाहूयेंद्रसेनजम् ॥
पुनर्विवाहविधिना सुतां तस्मै न्यवेदयत्
॥६९॥चन्द्रांगदोऽपि रत्नाद्यैरानीतैस्तक्षकालयात् ॥
स्वां पत्नीं भूषयां चक्रे मर्त्यानामतिदुर्लभैः
॥१७०॥अंगरागेण दिव्येन तप्तकांचनशोभिना ॥
शुशुभे सा सुगंधेन दशयोजनगामिना
॥७१॥अम्लानमालया शश्वत्पद्मकिंजल्कवर्णया ॥
कल्पद्रुमोत्थया बाला भूषिता शुशुभे सती
॥७२॥एवं चंद्रांगदः पत्नीमवाप्य समये शुभे ॥
ययौ स्वनगरीं भूयः श्वशुरेणानुमोदितः
॥७३॥इन्द्रसेनोऽपि राजेंद्रो राज्ये स्थाप्य निजात्मजम् ॥
तपसा शिवमाराध्य लेभे संयमिनां गतिम्
॥७४॥दशवर्ष सहस्राणि सीमंतिन्या स्वभार्यया ॥
सार्धं चन्द्रांगदो राजा बुभुजे विषयान्बहून्
॥७५॥प्रासूत तनयानष्टौ कन्यामेकां वराननाम् ॥
रेमे सीमंतिनी भर्त्रा पूजयती महेश्वरम् ॥
दिनेदिने च सौभाग्यं प्राप्तं चैवेन्दुवासरात्
॥७६॥सूत उवाच
विचित्रमिदमाख्यानं मया समनुवर्णितम् ॥
भूयोऽपि वक्ष्ये माहात्म्यं सोमवारव्रतोदितम्
॥१७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां ब्रह्मोत्तरखण्डे सोमवारव्रतवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥