एवं ब्रह्मर्षिणा प्रोक्तां वाणीं पीयूषसन्निभाम्
सूत उवाच
एवं ब्रह्मर्षिणा प्रोक्तां वाणीं पीयूषसन्निभाम् ॥
आकर्ण्य मुदितो राजा प्रांजलिः पुनरब्रवीत्
॥१॥राजोवाच
अहो सत्संगमः पुंसामशेषाघप्रशोधनः ॥
कामक्रोधनिहंता च इष्टदोग्धा जनस्य हि
॥२॥मम मायातमो नष्टं ज्ञानदृष्टिः प्रकाशिता ॥
तव दर्शनमात्रेण प्रायोहममरोत्तमः
॥३॥श्रुतं च पूर्वचरितं बालयोः सम्यगेतयोः ॥
भविष्यदपि पृच्छामि मत्पुत्राचरणं मुने
॥४॥अस्यायुः कति वर्षाणि भाग्यं वद च कीदृशम् ॥
विद्या कीर्तिश्च शक्तिश्च श्रद्धा भक्तिश्च कीदृशी
॥५॥एतत्सर्वमशेषेण मुने त्वं वक्तुमर्हसि ॥
तव शिष्योस्मि भृत्योस्मि शरणं त्वां गतोस्मयहम्
॥६॥पराशर उवाच
अत्रावाच्यं हि यत्किंचित्कथं शक्तोस्मि शंसितुम् ॥
यच्छ्रुत्वा धृतिमंतोपि विषादं प्राप्नुयुर्जनाः
॥७॥तथापि निर्व्यलीकेन भावेन परिपृच्छतः ॥
अवाच्यमपि वक्ष्यामि तव स्नेहान्महीपते
॥८॥अमुष्य त्वत्कुमारस्य वर्षाणि द्वादशात्ययुः ॥
इतः परं प्रपद्येत सप्तमे दिवसे मृतिम्
॥९॥इति तस्य वचः श्रुत्वा कालकूटमिवोदितम् ॥
मूर्च्छितः सहसा भूमौ पतितो नृपतिः शुचा
॥१०॥तमुत्थाप्य समाश्वास्य स मुनिः करुणार्द्रधीः ॥
उवाच मा भैर्नृपते पुनर्वक्ष्यामि ते हितम्
॥११॥सर्गात्पुरा निरालोकं यदेकं निष्कलं परम् ॥
चिदानंदमयं ज्योतिः स आद्यः केवलः शिवः
॥१२॥स एवादौ रजोरूपं सृष्ट्वा ब्रह्माणमात्मना ॥
सृष्टिकर्मनियुक्ताय तस्मै वेदांश्च दत्तवान्
॥१३॥पुनश्च दत्तवानीश आत्मतत्त्वैकसंग्रहम् ॥
सर्वोपनिषदां सारं रुद्राध्यायं च दत्तवान्
॥१४॥यदेकमव्ययं साक्षाद्ब्रह्मज्योतिः सनातनम् ॥
शिवात्मकं परं तत्त्वं रुद्राध्याये प्रतिष्ठितम्
॥१५॥स आत्मभूः सृजद्विश्वं चतुर्भिर्वदनैर्विराट् ॥
ससर्ज वेदांश्चतुरो लोकानां स्थितिहेतवे
॥१६॥तत्रायं यजुषां मध्ये ब्रह्मणो दक्षिणान्मुखात् ॥
अशेषोपनिषत्सारो रुद्राध्यायः समुद्गतः
॥१७॥स एष मुनिभिः सर्वैर्मरीच्यत्रिपुरोगमैः ॥
सह देवैर्धृतस्तेभ्यस्तच्छिष्या जगृहुश्च तम्
॥१८॥तच्छिष्यशिष्यैस्तत्पुत्रैस्तत्पुत्रैश्च क्रमागतैः ॥
धृतो रुद्रात्मकः सोऽयं वेदसारः प्रसादितः
॥१९॥एष एव परो मन्त्र एष एव परं तपः ॥
रुद्राध्यायजपः पुंसां परं कैवल्यसाधनम्
॥२०॥महापातकिनः प्रोक्ता उपपातकिनश्च ये ॥
रुद्राध्यायजपात्सद्यस्तेऽपि यांति परां गतिम्
॥२१॥भूयोपि ब्रह्मणा सृष्टाः सदसन्मिश्रयोनयः ॥
देवतिर्यङ्मनुष्याद्यास्ततः संपूरितं जगत्
॥२२॥तेषां कर्माणि सृष्टानि स्वजन्मानुगुणानि च ॥
लोकास्तेषु प्रवर्तंते भुंजते चैव तत्फलम्
॥२३॥लोकसृष्टिप्रवाहार्थं स्वयमेव प्रजापतिः ॥
धर्माधर्मौ ससर्जाग्रे स्ववक्षःपृष्ठभागतः
॥२४॥धर्ममेवानुतिष्ठंतः पुण्यं विंदंति तत्फलम् ॥
अधर्ममनुतिष्ठंतस्ते पापफलभोगिनः
॥२५॥पुण्यकर्मफल स्वर्गो नरकस्तद्विपर्ययः ॥
तयोर्द्वावधिपौ धात्रा कृतौ शतमखांतकौ
॥२६॥कामः क्रोधश्च लोभश्च मदमानादयः परे ॥
अधर्मस्य सुता आसन्सर्वे नरकनायकाः
॥२७॥गुरुतल्पः सुरापानं तथान्यः पुल्कसीगमः ॥
कामस्य तनया ह्येते प्रधानाः परिकीर्तिताः
॥२८॥क्रोधात्पितृवधो जातस्तथा मातृवधः परः ॥
ब्रह्महत्या च कन्यैका क्रोधस्य तनया अमी
॥२९॥देवस्वहरणश्चैव ब्रह्मस्वहरणस्तथा ॥
स्वर्णस्तेय इति त्वेते लोभस्य तनयाः स्मृताः
॥३०॥एतानाहूय चांडालान्यमः पातकनायकान् ॥
नरकस्य विवृद्ध्यर्थमाधिपत्यं चकार ह
॥३१॥ते यमेन समादिष्टा नव पातकनायकाः ॥
ते सर्वे संगता भूयो घोराः पातकनायकाः
॥३२॥नरकान्पालयामासुः स्वभृत्यैश्चोपपातकैः ॥
रुद्राध्याये भुवि प्राप्ते साक्षात्कैवल्यसाधने
॥३३॥भीताः प्रदुद्रुवुः सर्वे तेऽमी पातकनायकाः ॥
यमं विज्ञापयामासुः सहान्यैरुपपातकैः
॥३४॥जय देव महाराज वयं हि तव किंकराः ॥
नरकस्य विवृद्ध्यर्थं साधिकाराः कृतास्त्वया
॥३५॥अधुना वर्तितुं लोके न शक्ताः स्मो वयं प्रभो ॥
रुद्राध्यायानुभावेन निर्दग्धाश्चैव विद्रुताः
॥३६॥ग्रामेग्रामे नदीकूले पुण्येष्वायतनेषु च ॥
रुद्रजाप्ये तु पर्याप्ते कथं लोके चरेमहि
॥३७॥प्रायश्चित्तसहस्रं वै गणयामो न किंचन ॥
रुद्रजाप्याक्षराण्येव सोढुं बत न शक्नुमः
॥३८॥महापातकमुख्यानामस्माकं लोकघातिनाम् ॥
रुद्रजाप्यं भयं घोरं रुद्रजाप्यं महद्विषम्
॥३९॥अतो दुर्विषहं घोरमस्माक व्यसनं महत् ॥
रुद्रजाप्येन संप्राप्तमपनेतुं त्वमर्हसि
॥४०॥इति विज्ञापितः साक्षाद्यमः पातकनायकैः ॥
ब्रह्मणोंऽतिकमासाद्य तस्मै सर्वं न्यवेदयत्
॥४१॥देवदेव जगन्नाथ त्वामेव शरणं गतः ॥
त्वया नियुक्तो मर्त्यानां निग्रहे पापकारिणाम्
॥४२॥अधुना पापिनो मर्त्या न संति पृथिवीतले ॥
रुद्राध्यायेन निहतं पातकानां महत्कुलम्
॥४३॥पातकानां कुले नष्टे नरकाः शून्यतां गताः ॥
नरके शून्यतां याते मम राज्यं हि निष्फलम्
॥४४॥तस्मात्त्वयैव भगवन्नुपायः परिचिन्त्यताम् ॥
यथा मे न विहन्येत स्वामित्वं मर्त्यदेहिनाम्
॥४५॥इति विज्ञापितो धाता यमेन परिखिद्यता ॥
रुद्रजाप्यविघातार्थमुपायं पर्यकल्पयत्
॥४६॥अश्रद्धां चैव दुर्मेधामविद्यायाः सुते उभे ॥
श्रद्धामेधाविघातिन्यौ मर्त्येषु पर्यचोदयत्
॥४७॥ताभ्यां विमोहिते लोके रुद्राध्यायपराङ्मुखे ॥
यमः स्वस्थानमासाद्य कृतार्थ इव सोऽभवत्
॥४८॥पूर्वजन्मकृतैः पापैर्जायंतेऽल्पायुषो जनाः ॥
तानि पापानि नश्यंति रुद्रं जप्तवतां नृणाम्
॥४९॥क्षीणेषु सर्वपापेषु दीर्घमायुर्बलं धृतिः ॥
आरोग्यं ज्ञानमैश्वर्यं वर्धते सर्वदेहिनाम्
॥५०॥रुद्राध्यायेन ये देवं स्नापयंति महेश्वरम् ॥
तज्जलैः कुर्वतः स्नानं ते मृत्युं संतरंति च
॥५१॥रुद्राध्यायाभिजप्तेन स्नानं कुर्वंति येंऽभसा ॥
तेषां मृत्युभयं नास्ति शिवलो के महीयते
॥५२॥शतरुद्राभिषेकेण शतायुर्जायते नरः ॥
अशेषपापनिर्मुक्तः शिवस्य दयितो भवेत्
॥५३॥एष रुद्रायुतस्नानं करोतु तव पुत्रकः ॥
दशवर्षसहस्राणि मोदते भुवि शक्रवत्
॥५४॥अव्याहतबलैश्वर्यो हतशत्रुर्निरामयः ॥
निर्धूताखिलपापौघः शास्ता राज्यमकंटकम्
॥५५॥विप्रा वेदविदः शांताः कृतिनः शंसितव्रताः ॥
ज्ञानयज्ञतपोनिष्ठाः शिवभक्तिपरायणाः
॥५६॥रुद्राध्याय जपं सम्यक्कुर्वंतु विमलाशयाः ॥
तेषां जपानुभावेन सद्यः श्रेयो भविष्यति
॥५७॥इत्युक्तवंतं नृपतिर्महामुनिं तमेव वव्रे प्रथमं क्रियागुरुम् ॥
अथापरांस्त्यक्तधनाशयान्मुनीनावाहयामास सहस्रशः क्षणात्
॥५८॥ते विप्राः शांतमनसः सहस्रपरिसंमिताः ॥
कलशानां शतं स्थाप्य पुण्य वृक्षरसैर्युतम्
॥५९॥रुद्राध्यायेन संस्नाप्य तमुर्वीपतिपुत्रकम् ॥
विधिवत्स्नापयामासुः संप्राप्ते सप्तमे दिने
॥६०॥स्नाप्यमानो मुनिजनैः स राजन्यकुमारकः ॥
अकस्मादेव संत्रस्तः क्षणं मूर्च्छामवाप ह
॥६१॥सहसैव प्रबुद्धोऽसौ मुनिभिः कृतरक्षणः ॥
प्रोवाच कश्चित्पुरुषो दंडहस्तः समागतः
॥६२॥मां प्रहर्तुं कृतमतिर्भीमदण्डो भयानकः ॥
सोऽपि चान्यैर्महावीरै पुरुषैरभिताडितः
॥६३॥बद्ध्वा पाशेन महता दूरं नीत इवाभवत् ॥
एतावदहमद्राक्षं भवद्भिः कृतरक्षणः
॥६४॥इत्युक्तवंतं नृपतेस्तनूजं द्विजसत्तमाः ॥
आशीर्भिः पूजयामासुर्भयं राज्ञे न्यवेदयन्
॥६५॥अथ सर्वानृषीञ्छ्रेष्ठान्दक्षिणाभिर्नृपोत्तमः ॥
पूजयित्वा वरान्नेन भोजयित्वा च भक्तितः
॥६६॥प्रतिगृह्याशिषस्तेषां मुनीनां ब्रह्मवादिनाम् ॥
भक्त्या बंधुजनैः सार्धं सभायां समुपाविशत्
॥६७॥तस्मिन्समागते वीरे मुनिभिः सह पार्थिवे ॥
आजगाम महायोगी देवर्षिर्नारदः स्वयम्
॥६८॥तमागतं प्रेक्ष्य गुरुं मुनीनां सार्धं सदस्यैरखिलैर्मुनींद्रैः ॥
प्रणम्य भक्त्या विनिवेश्य पीठे कृतोपचारं नृपतिर्बभाषे
॥६९॥राजोवाच
दृष्टं किमस्ति ते ब्रह्मस्त्रिलोक्यां किंचिदद्भुतम् ॥
तन्नो ब्रूहि वयं सर्वे त्वद्वाक्यामृतलालसाः
॥७०॥नारद उवाच
अद्य चित्रं महद्दृष्टं व्योम्नोवतरता मया ॥
तच्छृणुष्व महाराज सहैभिर्मुनिपुंगवैः
॥७१॥अद्य मृत्युरिहायातो निहंतुं तव पुत्रकम् ॥
दंडहस्तो दुराधर्षो लोकमुद्बाधयन्सदा
॥७२॥ईश्वरोपि विदित्वैनं त्वत्पुत्रं हंतुमागतम् ॥
सहैव पार्षदैः कंचिद्वीरभद्रमचोदयत्
॥७३॥स आगत्य हठान्मृत्युं त्वत्पुत्रं हंतुमागतम् ॥
गृहीत्वा सुदृढं बद्ध्वा दंडेनाभ्यहनद्रुषा
॥७४॥तं नीयमानं जगदीशसन्निधिं शीघ्रं विदित्वा भगवान्यमः स्वयम् ॥
कृतांजलिर्देव जयेत्युदीरयन्प्रणम्य मूर्ध्ना निजगाद शूलिनम्
॥७५॥यम उवाच
देवदेव महारुद्र वीरभद्र नमोऽस्तु ते ॥
निरागसि कथं मृत्यौ कोपस्तव समुत्थितः
॥७६॥निजकर्मानुबंधेन राजपुत्रं गतायुषम् ॥
प्रहर्तुमुद्यते मृत्यौ कोपराधो वद प्रभो
॥७७॥वीरभद्र उवाच
दशवर्षसहस्रायुः स राजतनयः कथम् ॥
विपत्तिमंतरायाति रुद्रस्नानहताशुभः
॥७८॥अस्ति चेत्तव संदेहो मद्वाक्येऽप्यनिवारिते ॥
चित्रगुप्तं समाहूय प्रष्टव्योऽद्यैव मा चिरम्
॥७९॥नारद उवाच
अथाहूतश्चित्रगुप्तो यमेन सहसागतः ॥
आयुःप्रमाण त्वत्सूनोः परिपृष्टः स चाब्रवीत्
॥८०॥द्वादशाब्दं च तस्यायुरित्युक्त्वाथ विमृश्य च ॥
पुनर्लेख्यगतं प्राह स वर्षायुतजीवितम्
॥८१॥अथ भीतो यमो राजा वीरभद्रं प्रणम्य च ॥
कथंचिन्मोचयामास मृत्युं दुर्वारबंधनात्
॥८२॥वीरभद्रेण मुक्तोऽथ यमोऽगान्निजमंदिरम् ॥
वीरभद्रश्च कैलासमहं प्राप्तस्तवांतिकम्
॥८३॥अतस्तव कुमारोऽयं रुद्रजाप्यानुभावतः ॥
मृत्योर्भयं समुत्तीर्य सुखी जातोऽयुतं समाः
॥८४॥इत्युक्त्वा नृपमामंत्र्य नारदे त्रिदिवं गते ॥
विप्राः सर्वे प्रमुदिताः स्वस्वजग्मुरथाश्रमम्
॥८५॥इत्थं काश्मीरनृपती रुद्राध्यायप्रभावतः ॥
निस्तीर्याशेषदुः खानि कृतार्थोभूत्सपुत्रकः
॥८६॥ये कीर्तयंति मनुजाः परमेश्वरस्य माहात्म्यमेतदथ कर्णपुटैः पिबंति ॥
ते जन्मकोटिकृतपापगणैर्विमुक्ताः शांताः प्रयांति परमं पदमिंदुमौलेः
॥८७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखंडे रुद्राध्यायमहिमवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥