अथाहं संप्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम्
सूत उवाच
अथाहं संप्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् ॥
उमामहेश्वरं नाम व्रतं सर्वार्थसिद्धिदम्
॥१॥आनर्त्त संभवः कश्चिन्नाम्ना वेदरथो द्विजः ॥
कलत्रपुत्रसंपन्नो विद्वानुत्तमवंशजः
॥२॥तस्यैवं वर्तमानस्य ब्राह्मणस्य गृहाश्रमे ॥
बभूव शारदानाम कन्या कमललोचना
॥३॥तां रूपलक्षणोपेतां बालां द्वादशहायनाम् ॥
ययाचे पद्मनाभाख्यो मृतदारश्च स द्विजः
॥४॥महाधनस्य शांतस्य सदा राजसखस्य च ॥
याञ्चाभंगभयात्तस्य तां कन्यां प्रददौ पिता
॥५॥मध्यंदिने कृतोद्वाहः स विप्रः श्वशुरालये ॥
संध्यामुपासितुं सायं सरस्तटमुपाययौ
॥६॥उपास्य संध्यां विधिवत्प्रत्यागच्छत्तमोवृते ॥
मार्गे दष्टो भुजंगेन ममार निजकर्मणा
॥७॥तस्मिन्मृते कृतोद्वाहे सहसा तस्य बांधवाः ॥
चुक्रुशुः शोकसंतप्तौ श्वशुरावस्य कन्यका
॥८॥निर्हृत्य तं बंधुजना जग्मुः स्वं स्वं निवेशनम् ॥
शारदा प्राप्तवैधव्या पितुरेवालये स्थिता
॥९॥भूताच्छादनभोज्येन भर्त्रा विरहिता सती ॥
निनाय कतिचिन्मासान्सा बाला पितृमंदिरे
॥१०॥एकदा नैध्रुवो नाम कश्चिद्वृद्धतरो मुनिः ॥
अन्धः शिष्यकरग्राही तन्मंदिरमुपाययौ
॥११॥तस्मिन्वृद्धे गृहं प्राप्ते क्वापि यातेषु बंधुषु ॥
साक्षादिवात्मनो दैवं सा बाला समुपागमत्
॥१२॥स्वागतं ते महाभाग पीठेस्मिन्नुपविश्यताम् ॥
नमस्ते मुनिनाथाय प्रियं ते करवाणि किम्
॥१३॥इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ॥
वीजयित्वा परिश्रांतं तं मुनिं पर्यतोषयत्
॥१४॥श्रांतं पीठे समावेश्य कृत्वाभ्यंगं स्वपाणिना ॥
कृतस्नानं च विधिवत्कृतदेवार्चनं मुनिम्
॥१५॥सुखासनोपविष्टं तं धूपमाल्यानुलेपनैः ॥
अर्चयित्वा वरान्नेन भोजयामास सादरम्
॥१६॥भुक्त्वा च सम्यक्छनकैस्तृप्तश्चानंदनिर्भरः ॥
चकारांधमुनिस्तस्यै सुप्रीतः परमाशिषम्
॥१७॥विहृत्य भर्त्रा सहसा च तेन लब्ध्वा सुतं सर्वगुणैर्वरिष्ठम् ॥
कीर्तिं च लोके महतीमवाप्य प्रसादयोग्या भव देवतानाम्
॥१८॥इत्यभिव्याहृतं तेन मुनिना गतचक्षुषा ॥
निशम्य विस्मिता बाला प्रत्युवाच कृतांजलिः
॥१९॥ब्रह्मंस्त्वद्वचनं सत्यं कदाचिन्न मृषा भवेत् ॥
तदेतन्मंदभाग्यायाः कथमेतत्फलिष्यति
॥२०॥शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ॥
विफला मंदभाग्यायामाशीर्ब्रह्मविदामपि
॥२१॥सैषाहं विधवा ब्रह्मन्दुष्कर्मफलभागिनी ॥
त्वदाशीर्वचनस्यास्य कथं यास्यामि पात्रताम्
॥२२॥मुनिरुवाच
त्वामनालक्ष्य यत्प्रोक्तमंधेनापि मयाऽधुना ॥
तदेतत्साधयिष्यामि कुरु मच्छासनं शुभे
॥२३॥उमामहेश्वरं नाम व्रतं यदि चरिष्यसि ॥
तेन व्रतानुभावेन सद्यः श्रेयोऽनुभोक्ष्यसे
॥२४॥शारदोवाच
त्वयोपदिष्टं यत्नेन चरिष्याम्यपि दुश्चरम् ॥
तद्व्रतं ब्रूहि मे ब्रह्मन्विधानं वद विस्तरात्
॥२५॥मुनिरुवाच
चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ॥
व्रतारंभं प्रकुर्वीत यथावद्गुर्वनुज्ञया
॥२६॥अष्टम्यां च चतुर्दश्यामुभयोरपि पर्वणोः ॥
संकल्पं विधिवत्कृत्वा प्रातःस्नानं समाचरेत्
॥२७॥सन्तर्प्य पितृदेवादीन्गत्वा स्वभवनं प्रति ॥
मंडपं रचयेद्दिव्यं वितानाद्यैरलंकृतम्
॥२८॥फलपल्लवपुष्पाद्यैस्तोरणैश्च समन्वितम् ॥
पंचवर्णैश्च तन्मध्ये रजोभिः पद्ममुद्धरेत्
॥२९॥चतुर्दशदलैर्बाह्ये द्वाविंशद्भिस्तदंतरे ॥
तदंतरं षोडशभिरष्टभिश्च तदंतरे
॥३०॥एवं पद्मं समुद्धत्य पंचवर्णैर्मनोरमम् ॥
चतुरस्रं ततः कुर्यादंतर्वर्तुलमुत्तमम्
॥३१॥व्रीहितंडुलराशिं च तन्मध्ये च सकूर्चकम् ॥
कूर्चोपरि सुसंस्थाप्य कलशं वारिपूरितम्
॥३२॥कलशोपरि विन्यस्य वस्त्रं वर्णसमन्वितम् ॥
तस्योपरिष्टात्सौवर्ण्यौ प्रतिमे शिवयोः शुभे ॥
निधाय पूजयेद्भक्त्या यथाविभवविस्तरम्
॥३३॥पंचामृतैस्तु संस्नाप्य तथा शुद्धोदकेन च ॥
रुद्रैकादशकं जप्त्वा पंचाक्षरशताष्टकम्
॥३४॥अभिमंत्र्य पुनः स्थाप्य पीठं मध्ये तथार्चयेत् ॥
स्वयं शुद्धासनासीनो धौतशुक्लांबरः सुधीः
॥३५॥पीठमामंत्र्य मंत्रेण प्राणायामान्समाचरेत् ॥
संकल्पं प्रवदेत्तत्र शिवाग्रे विहितांजलिः
॥३६॥यानि पापानि घोराणि जन्मांतरशतेषु मे ॥
तेषां सर्वविनाशाय शिवपूजां समारभे
॥३७॥सौभाग्यविजयारोग्यधर्मैश्वर्याभिवृद्धये ॥
स्वर्गापवर्गसिद्ध्यर्थं करिष्ये शिवपूजनम्
॥३८॥इति संकल्पमुच्चार्य यथावत्सुसमाहितः ॥
अंगन्यासं ततः कृत्वा ध्यायेदीशं च पार्वतीम्
॥३९॥कुंदेंदुधवलाकारं नागाभरणभूषितम् ॥
वरदाभयहस्तं च बिभ्राणं परशुं मृगम्
॥४०॥सूर्यकोटिप्रतीकाशं जगदानंदकारणम् ॥
जाह्नवीजलसंपर्काद्दीर्घपिंगजटाधरम्
॥४१॥उरगेंद्रफणोद्भूतमहामुकुटमंडितम् ॥
शीतांशुखंडविलसत्कोटीरांगदभूषणम्
॥४२॥उन्मीलद्भालनयनं तथा सूर्येंदुलोचनम् ॥
नीलकंठं चतुर्बाहुं गजेंद्राजिनवाससम्
॥४३॥रत्नसिंहासनारूढं नागाभरणभूषितम् ॥
देवीं च दिव्यवसनां बालसूर्यायुतद्युतिम्
॥४४॥बालवेषां च तन्वंगीं बालशीतांशुशेखराम् ॥
पाशांकुशवराभीतिं बिभ्रतीं च चतुर्भुजाम्
॥४५॥प्रसादसुमुखीमंबां लीलारसविहारिणीम् ॥
लसत्कुरबकाशोकपुन्नागनवचंपकैः
॥४६॥कृतावतंसामुत्फुल्लमल्लिकोत्कलितालकाम् ॥
कांचीकलापपर्यस्तजघनाभोगशालिनीम्
॥४७॥उदारकिंकिणीश्रेणीनूपुराढ्यपदद्वयाम् ॥
गंडमंडलसंसक्तरत्नकुंडलशोभिताम्
॥४८॥बिंबाधरानुरक्तांशुलसद्दशन कुड्मलाम् ॥
महार्हरत्नग्रेवेयतारहारविराजिताम्
॥४९॥नवमाणिक्यरुचिरकंकणांगदमुद्रिकाम् ॥
रक्तांशुकपरीधानां रत्नमाल्यानुलेपनाम्
॥५०॥उद्यत्पीनकुचद्वंद्वनिंदितांभोजकुड्मलाम् ॥
लीलालोलासितापांगीं भक्तानुग्रहदायिनीम्
॥५१॥एवं ध्यात्वा तु हृत्पद्मे जगतः पितरौ शिवौ ॥
जप्त्वा तदात्मकं मंत्रं तदंते बहिरर्चयेत्
॥५२॥आवाह्य प्रतिमायुग्मे कल्पयेदासनादिकम् ॥
अर्घ्यं च दद्याच्छिवयोर्मंत्रेणानेन मंत्रवित्
॥५३॥नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ ॥
त्र्यंबकेश महादेव गृहाणार्घ्यं नमोऽस्तु ते
॥५४॥नमस्ते देवदेवेशि प्रपन्नभयहारिणि ॥
अंबिके वरदे देवि गृहाणार्घ्यं शिवप्रिये
॥५५॥इति त्रिवारमुच्चार्य दद्यादर्घ्यं समाहितः ॥
गन्धपुष्पाक्षतान्सम्यग्धूपदीपान्प्रकल्पयेत्
॥५६॥नैवेद्यं पायसान्नेन घृताक्तं परिकल्पयेत् ॥
जुहुयान्मूलमंत्रेण हविरष्टोत्तरं शतम्
॥५७॥तत उद्वास्य नैवेद्यं धूपनीराजनादिकम् ॥
कृत्वा निवेद्य तांबूलं नमस्कुर्यात्समाहितः
॥५८॥अथाभ्यर्च्योपचारेण भोजयेद्विप्रदंपती
॥५९॥एवं सायंतनीं पूजां कृत्वा विप्रानुमोदितः ॥
भुंजीत वाग्यतो रात्रौ हविष्यं क्षीरभावितम्
॥६०॥एवं संवत्सरं कुर्याद्व्रतं पक्षद्वये बुधः ॥
ततः संवत्सरे पूर्णे व्रतोद्यापनमाचरेत्
॥६१॥शतरुद्राभिजप्तेन स्नापयेत्प्रतिमे जलैः ॥
आगमोक्तेन मन्त्रेण संपूज्य गिरिजाशिवौ
॥६२॥सवस्त्रं ससुवर्ण च कलशं प्रति मान्वितम् ॥
दत्त्वाचार्याय महते सदाचाररताय च ॥
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्याभिपूज्य च
॥६३॥दद्याच्च दक्षिणां तेभ्यो गोहिरण्यांबरादिकम् ॥
भुंजीत तदनुज्ञातः सहेष्टजनबंधुभिः
॥६४॥एवं यः कुरुते भक्त्या व्रतं त्रैलोक्यविश्रुतम् ॥
त्रिःसप्तकुलमुद्धृत्य भुक्त्वा भोगान्यथेप्सि तान्
॥६५॥इन्द्रादिलोकपालानां स्थानेषु रमते धुवम् ॥
ब्रह्मलोके च रमते विष्णुलोके च शाश्वते
॥६६॥शिवलोकमथ प्राप्य तत्र कल्पशतं पुनः ॥
भुक्त्वा भोगान्सुविपुलाञ्छिवमेव प्रपद्यते
॥६७॥महाव्रतमिदं प्रोक्तं त्वमपि श्रद्धया चर ॥
अत्यंतदुर्लभं वापि लप्स्यसे च मनोरथम्
॥६८॥इत्यादिष्टा मुनींद्रेण सा बाला मुदिता भृशम् ॥
प्रत्यग्रहीत्सुविश्रब्धा तद्वाक्यं सुमनोहरम्
॥६९॥अथ तस्याः समायाताः पितृमातृ सहोदराः ॥
तं मुनिं सुखमासीनं ददृशुः कृतभोजनम्
॥७०॥सहसागत्य ते सर्वे नमश्चक्रुर्महात्मने ॥
प्रसीद नः प्रसीदेति गृणतः पर्यपूज यन्
॥७१॥श्रुत्वा च ते तया साध्व्या पूजितं परमं मुनिम् ॥
अनुग्रहवतं तस्यै श्रुत्वा हर्षं परं ययुः
॥७२॥ते कृतांजलयः सर्वे तमूचुर्मुनि पुंगवम्
॥७३॥अद्य धन्या वयं सर्वे तवागमनमात्रतः ॥
पावितं नः कुलं सर्वं गृहं च सफलीकृतम्
॥७४॥इयं च शारदा नाम कन्या वैधव्यमागता ॥
केनापि कर्मयोगेन दुर्विलंघ्येन भूयसा
॥७५॥सैषाद्य तव पादाब्जं प्रपन्ना शरणं सती ॥
इमां समुद्धरासह्यात्सुघोराद्दुःख सागरात्
॥७६॥त्वयापि तावदत्रैव स्थातव्यं नो गृहांतिके ॥
अस्मद्गृहमठेऽप्यस्मिन्स्नानपूजाजपोचिते
॥७७॥एषा बालापि भगवन्कुर्वंती त्वत्पदार्चनम् ॥
व्रतं त्वत्सन्निधावेव चरिष्यति महामुने
॥७८॥यावत्समाप्तिमायाति व्रतमस्यास्त्वदंतिके ॥
उषित्वा तावदत्रैव कृतार्थान्कुरु नो गुरो
॥७९॥एवमभ्यर्थितः सर्वैस्तस्या भ्रातृजनादिभिः ॥
तथेति स मुनिश्रेष्ठस्तत्रोवास मठे शुभे
॥८०॥सापि तेनोपदिष्टेन मार्गेण गिरिजाशिवौ ॥
अर्चयंती व्रतं सम्यक्चचार विमला सती
॥८१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे उमामहेश्वरव्रताचरणं नामाष्टादशोऽध्यायः ॥ १८ ॥