पिंगला नाम या वेश्या मया पूर्वमुदाहृता
सूत उवाच
पिंगला नाम या वेश्या मया पूर्वमुदाहृता ॥
शिवभक्तार्चनात्पुण्यात्त्यक्त्वा पूर्वकलेवरम्
॥१॥चन्द्रांगदस्य सा भूयः सीमंतिन्यामजायत ॥
रूपौदार्यगुणोपेता नाम्ना वै कीर्तिमालिनी
॥२॥भद्रायुरपि तत्रैव राजपुत्रो वणिक्पतेः ॥
ववृधे सदने भानुः शुचाविव महातपाः
॥३॥तस्यापि वैश्यनाथस्य कुमारस्त्वेक उत्तमः ॥
स नाम्ना सुनयः प्रोक्तो राजसूनोः सखाऽभवत्
॥४॥तावुभौ परमस्निग्धौ राजवैश्यकुमारकौ ॥
चित्रक्रीडावुदारांगौ रत्नाभरणमंडितौ
॥५॥तस्य राजकुमारस्य ब्राह्मणैः स वणिक्पतिः ॥
संस्कारान्कारयामास स्वपुत्रस्यापि विस्तरात्
॥६॥काले कृतोपनयनौ गुरुशुश्रूषणे रतौ ॥
चक्रतुः सर्वविद्यानां संग्रहं विनयान्वितौ
॥७॥अथ राजकुमारस्य प्राप्ते षोडशहायने ॥
स एव ऋषभो योगी तस्य वेश्मन्युपाययौ
॥८॥सा राज्ञी स कुमारश्च शिवयोगिनमागतम् ॥
मुहुर्मुहुः प्रणम्योभौ पूजयामासतुर्मुदा
॥९॥ताभ्यां च पूजितः सोऽथ योगीशो हृष्टमानसः ॥
तं राजपुत्रमुद्दिश्य बभाषे करुणार्द्रधीः
॥१०॥शिवयोग्युवाच
कच्चित्ते कुशलं तात त्वन्मातुश्चाप्यनामयम् ॥
कच्चित्त्वं सर्वविद्यानामकार्षीश्च प्रतिग्रहम्
॥११॥कच्चिद्गुरूणां सततं शुश्रूषातत्परो भवान् ॥
कच्चित्स्मरसि मां तात तव प्राणप्रदं गुरुम्
॥१२॥एवं वदति योगीशे राज्ञी सा विनयान्विता ॥
स्वपुत्रं पादयोस्तस्य निपात्यैनमभाषत
॥१३॥एष पुत्रस्तव गुरो त्वमस्य प्राणदः पिता ॥
एष शिष्यस्तु संग्राह्यो भवता करुणात्मना
॥१४॥अतो बन्धुभिरुत्सृष्टमनाथं परिपालय ॥
अस्मै सम्यक्सतां मार्गमुपदेष्टुं त्वमर्हसि
॥१५॥इति प्रसादितो राज्ञ्या शिवयोगी महामतिः ॥
तस्मै राजकुमाराय सन्मार्गमुपदिष्टवान्
॥१६॥ऋषभ उवाच
श्रुतिस्मृतिपुराणेषु प्रोक्तो धर्मः सनातनः ॥
वर्णाश्रमानुरूपेण निषेव्यः सर्वदा जनैः
॥१७॥भज वत्स सतां मार्गं सदेव चरितं चर ॥
न देवाज्ञां विलंघेथा मा कार्षीर्देवहेलनम्
॥१८॥गोदेवगुरुविप्रेषु भक्तिमान्भव सर्वदा ॥
चांडालमपि संप्राप्तं सदा संभावयातिथिम्
॥१९॥सत्यं न त्यज सर्वत्र प्राप्तेऽपि प्राणसंकटे ॥
गोब्राह्मणानां रक्षार्थमसत्यं त्वं वद क्वचित्
॥२०॥परस्वेषु परस्त्रीषु देवब्राह्मण वस्तुषु ॥
तृष्णां त्यज महाबाहो दुर्लभेष्वपि वस्तुषु
॥२१॥सत्कथायां सदाचारे सद्व्रते च सदागमे ॥
धर्मादिसंग्रहे नित्यं तृष्णां कुरु महामते
॥२२॥स्नाने जपे च होमे च स्वाध्याये पितृतर्पणे ॥
गोदेवातिथिपूजासु निरालस्यो भवानघ
॥२३॥क्रोधं द्वेषं भयं शाठ्यं पैशुन्य मसदाग्रहम् ॥
कौटिल्यं दंभमुद्वेगं यत्नेन परिवर्जय
॥२४॥क्षात्रधर्मरतोऽपि त्वं वृथा हिंसां परित्यज ॥
शुष्कवैरं वृथालापं परनिदां च वर्जय
॥२५॥मृगया द्यूतपानेषु स्त्रीषु स्त्रीविजितेषु च ॥
अत्याहारमतिक्रोधमतिनिद्रामतिश्रमम्
॥२६॥अत्यालापमतिक्रीडां सर्वदा परिवर्जय
॥२७॥अतिविद्यामतिश्रद्धामतिपुण्यमतिस्मृतिम् ॥
अत्युत्साहमतिख्यातिमतिधैर्यं च साधय
॥२८॥सकामो निजदारेषु सक्रोधो निज शत्रुषु ॥
सलोभः पुण्यनिचये साभ्यसूयो ह्यधर्मिषु
॥२९॥सद्वेषो भव पाखण्डे सरागः सज्जनेषु च ॥
दुर्बोधो भव दुर्मंत्रे बधिरः पिशुनोक्तिषु
॥३०॥धूर्त्तं चंडं शठं क्रूरं कितवं चपलं खलम् ॥
पतितं नास्तिकं जिह्मं दूरतः परिवर्जय
॥३१॥आत्मप्रशंसा मा कार्षीः परिज्ञातेंगितो भव ॥
धने सर्वकुटुंबे च नात्यासक्तः सदा भव
॥३२॥पत्न्याः पतिव्रतायाश्च जनन्याः श्वशुरस्य च ॥
सतां गुरोश्च वचने विश्वासं कुरु सर्वदा
॥३३॥आत्मरक्षापरो नित्यमप्रमत्तो दृढव्रतः ॥
विश्वासं नैव कुर्वीथाः स्वभृत्येष्वपि कुत्र चित्
॥३४॥विश्वस्तं मा वधीः कंचिदपि चोरं महामते ॥
अपापेषु न शंकेथाः सत्यान्न चलितो भव
॥३५॥अनाथं कृपणं वृद्धं स्त्रियं बालं निरागसम् ॥
परिरक्ष धनैः प्राणैर्बुद्ध्या शक्त्या बलेन च
॥३६॥अपि शत्रुं वधस्यार्हं मा वधीः शरणागतम् ॥
अप्यपात्रं सुपात्रं वा नीचो वापि महत्तमः
॥३७॥यो वा को वापि याचेत तस्मै देहि शिरोपि च ॥
अपि यत्नेन महता कीर्तिमेव सदार्जय
॥३८॥राज्ञां च विदुषां चैव कीर्तिरेव हि भूषणम् ॥
सत्कीर्तिप्रभवा लक्ष्मीः पुण्यं सत्कीर्तिसंभवम्
॥३९॥सत्कीर्त्या राजते लोकश्चंद्रश्चंद्रिकया न्यथा ॥
गजाश्वहेमनिचयं रत्नराशिं नगोपमम्
॥४०॥अकीर्त्योपहतं सर्वं तृणवन्मुंच सत्वरम् ॥
मातुः कोपं पितुः कोपं गुरोः कोपं धनव्य यम्
॥४१॥पुत्राणामपराधं च ब्राह्मणानां क्षमस्व भोः ॥
यथा द्विजप्रसादः स्यात्तथा तेषां हितं चर
॥४२॥राजानं संकटे मग्नमुद्धरेयुर्द्विजोत्तमा ॥
आयुर्यशो बलं सौख्यं धनं पुण्यं प्रजोन्नतिः
॥४३॥कर्मणा येन जायेत तत्सेव्यं भवता सदा ॥
देशं कालं च शक्तिं च कार्यं चा कार्यमेव च
॥४४॥सम्यग्विचार्य यत्नेन कुरु कार्यं च सर्वदा ॥
न कुर्याः कस्यचिद्बाधां परबाधां निवारय
॥४५॥चोरान्दुष्टांश्च बाधेथाः सुनीत्या शक्तिमत्तया ॥
स्नाने जपे च होमे च दैवे पित्र्ये च कर्मणि
॥४६॥अत्वरो भव निद्रायां भोजने भव सत्वरः ॥
दाक्षिण्ययुक्तमशठं सत्यं जनमनोहरम्
॥४७॥अल्पाक्षरमनंतार्थं वाक्यं ब्रूहि महामते ॥
अभीतो भव सर्वत्र विपक्षेषु विपत्सु च
॥४८॥भीतो भव ब्रह्मकुले न पापे गुरुशासने ॥
ज्ञातिबंधुषु विप्रेषु भार्यासु तनयेषु च
॥४९॥समभावेन वर्तेथास्तथा भोजनपंक्तिषु ॥
सतां हितोपदेशेषु तथा पुण्य कथासु च
॥५०॥विद्यागोष्ठीषु धर्म्यासु क्वचिन्मा भूः पराङ्मुखः ॥
शुचौ पुण्यजलस्यांते प्रख्याते ब्रह्मसंकुले
॥५१॥महादेशे शिवमये वस्तव्यं भवता सदा ॥
कुलटा गणिका यत्र यत्र तिष्ठति कामुकः
॥५२॥दुर्देशे नीचसंबाधे कदाचिदपि मा वस ॥
एकमेवाश्रितोपि त्वं शिवं त्रिभुवनेश्वरम्
॥५३॥सर्वान्देवानुपासीथास्तद्दिनानि च मानयन् ॥
सदा शुचिः सदा दक्षः सदा शांतः सदा स्थिरः
॥५४॥सदा विजित षड्वर्गः सदैकांतो भवानघ ॥
विप्रान्वेदविदः शांतान्यतींश्च नियतोज्वलान्
॥५५॥युग्मम् ॥
पुण्यवृक्षान्पुण्यनदीः पुण्यतीर्थं महत्सरः ॥
धेनुं च वृषभं रत्नं युवतीं च पतिव्रताम्
॥५६॥आत्मनो गृहदेवांश्च सहसैव नमस्कुरु ॥
उत्थाय समये ब्राह्मे स्वाचम्य विमलाशयः
॥५७॥नमस्कृत्यात्मगुरुवे ध्यात्वा देवमुमापतिम् ॥
नारायणं च लक्ष्मीशं ब्रह्माणं च विनायकम्
॥५८॥स्कन्दं कात्यायनीं देवीं महालक्ष्मीं सरस्वतीम् ॥
इन्द्रादीनथ लोकेशान्पुण्यश्लोकानृषीनपि
॥५९॥चिंतयित्वाथ मार्त्तंडमुद्यंतं प्रणमेत्सदा ॥
गंधं पुष्पं च तांबूलं शाकं पक्वफलादिकम्
॥६०॥शिवाय दत्त्वोपभुंक्ष्व भक्ष्यं भोज्यं प्रियं नवम् ॥
यद्दत्तं यत्कृतं जप्तं यत्स्नातं यद्धुतं स्मृतम्
॥६१॥यच्च तप्तं तपः सर्वं तच्छिवाय निवेदय ॥
भुंजानश्च पठन्वापि शयानो विहरन्नपि ॥
पश्यञ्छृण्न्ववदन्गृह्णञ्छिवमेवानुचिंतय
॥६२॥रुद्राक्षकंकणलसत्करदंडयुग्मो मालांतरालधृतभस्म सितत्रिपुंडूः ॥
पंचाक्षरं परिपठन्परमंत्रराजं ध्यायन्सदा पशुपतेश्चरणं रमेथाः
॥६३॥इति संक्षेपतो वत्स कथितो धर्मसंग्रहः ॥
अन्येषु च पुराणेषु विस्तरेण प्रकीर्तितः
॥६४॥अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ॥
जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते
॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे भद्रायुं प्रति ऋषभोपदेशवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥