भस्ममाहात्म्यकथनम्
सूत उवाच
ऋषभस्यानुभावोयं वर्णितः शिवयोगिनः ॥
अथान्यस्यापि वक्ष्यामि प्रभावं शिवयोगिनः
॥१॥भस्मनश्चापि माहात्म्यं वर्णयामि समासतः ॥
कृतकृत्या भविष्यंति यच्छुत्वा पापिनो जनाः
॥२॥अस्त्येको वामदेवाख्यः शिवयोगी महा तपाः ॥
निर्द्वंद्वो निर्गुणः शांतो निःसंगः समदर्शनः
॥३॥आत्मारामो जितक्रोधो गृहदारविवर्जितः ॥
अतर्कितगतिर्मौनी संतुष्टो निष्प रिग्रहः
॥४॥भस्मोद्धूलितसर्वांगो जटामंडलमंडितः ॥
वल्कलाजिनसंवीतो भिक्षामात्रपरिग्रहः
॥५॥स एकदा चरंल्लोके सर्वानुग्रहतत्परः ॥
क्रौंचारण्यं महाघोरं प्रविवेश यदृच्छया
॥६॥तस्मिन्निर्मनुजेऽरण्ये तिष्ठत्येकोऽतिभीषणः ॥
क्षुत्तृषाकुलितो नित्यं यः कश्चिद्ब्रह्मराक्षसः
॥७॥तं प्रविष्टं शिवात्मानं स दृष्ट्वा ब्रह्मराक्षसः ॥
अभिदुद्राव वेगेन जग्धंु क्षुत्परिपीडितः
॥८॥व्यात्ताननं महाकायं भीमदंष्ट्रं भयानकम् ॥
तमायांतमभिप्रेक्ष्य योगीशो न चचाल सः
॥९॥अथाभिद्रुत्य तरसा स घोरो वनगोचरः ॥
दोर्भ्यां निष्पीड्य जग्राह निष्कंपं शिवयोगिनम्
॥१०॥तदंगस्पर्शनादेव सद्यो विध्वस्तकिल्बिषः ॥
स ब्रह्मराक्षसो घोरो विषण्णः स्मृतिमाययौ
॥११॥यथा चिंतामणिं स्पृष्ट्वा लोहं कांचनतां व्रजेत् ॥
यथा जंबूनदीं प्राप्य मृत्तिका स्वर्णतां व्रजेत्
॥१२॥यथा मानसमभ्येत्य वायसा यांति हंसताम् ॥
यथामृतं सकृत्पीत्वा नरो देवत्वमाप्नुयात्
॥१३॥तथैव हि महात्मानो दर्शनस्पर्शनादिभिः ॥
सद्यः पुनंत्यघोपेतान्सत्संगो दुर्लभो ह्यतः
॥१४॥यः पूर्वं क्षुत्पिपासार्तो घोरात्मा विपिने चरः ॥
स सद्यस्तृप्तिमायातः पूर्णानंदो बभूव ह
॥१५॥तद्गात्रलग्नसितभस्मकणानुविद्धः सद्यो विधूतघनपापतमःस्वभावः ॥
संप्राप्तपूर्वभव संस्मृतिरुग्रकार्यस्तत्पादपद्मयुगले प्रणतो बभाषे
॥१६॥राक्षस उवाच
प्रसीद मे महायोगिन्प्रसीद करुणानिधे ॥
प्रसीद भवतप्तानामानंदामृवारिधे
॥१७॥क्वाहं पापमतिर्घोरः सर्वप्राणिभयंकरः ॥
क्व ते महानुभावस्य दर्शनं करुणात्मनः
॥१८॥उद्धरोद्धर मां घोरे पतितं दुःखसागरे ॥
तव सन्निधिमात्रेण महानंदोऽभिवर्धते
॥१९॥वामदेव उवाच
कस्त्वं वनेचरो घोरो राक्षसोऽत्र किमास्थितः ॥
कथमेतां महाघोरां कष्टां गतिमवाप्तवान्
॥२०॥राक्षस उवाच
राक्षसोऽहमितः पूर्वं पंचविंशतिमे भवे ॥
गोप्ता यवनराष्ट्रस्य दुर्जयो नाम वीर्यवान्
॥२१॥सोऽहं दुरात्मा पापीयान्स्वैरचारी मदोत्कटः ॥
दंडधारी दुराचारः प्रचंडो निर्घृणः खलः
॥२२॥युवा बहुकलत्रोऽपि कामासक्तोऽजितेंद्रियः ॥
इमां पापीयसीं चेष्टां पुनरेकां गतोऽस्म्यहम्
॥२३॥प्रत्यहं नूतनामन्या नारीं भोक्तुमनाः सदा ॥
आहृताः सर्वदेशेभ्यो नार्यो भृत्यैर्मदाज्ञया
॥२४॥भुक्त्वाभुक्त्वा परित्यक्तामेकामेकां दिनेदिने ॥
अन्तर्गृहेषु संस्थाप्य पुनरन्याः स्त्रियो धृताः
॥२५॥एवं स्वराष्ट्रात्परराष्ट्रतश्च देशाकरग्रामपुरव्रजेभ्यः ॥
आहृत्य नार्यो रमिता दिनेदिने भुक्वा पुनः कापि न भुज्यते मया
॥२६॥अथान्यैश्च न भुज्यंते मया भुक्तास्तथा स्त्रियः ॥
अन्तर्गृहेषु निहिताः शोचंते च दिवानिशम्
॥२७॥ब्रह्मविट्क्षत्रशूद्राणां यदा नार्यो मया हृताः ॥
मम राज्ये स्थिता विप्राः सह दारैः प्रदुद्रुवुः
॥२८॥सभर्तृकाश्च कन्याश्च विधवाश्च रजस्वलाः ॥
आहृत्य नार्यो रमिता मया कामहतात्मना
॥२९॥त्रिशतं द्विजनारीणां राजस्त्रीणां चतुःशतम् ॥
षट्शतं वैश्यनारीणां सहस्रं शूद्रयोषिताम्
॥३०॥शतं चांडालनद्गीर्णा पुलिंदीनां सहस्रकम् ॥
शैलूषीणां पंचशतं रजकीनां चतुःशतम्
॥३१॥असंख्या वारमुख्याश्च मया भुक्ता दुरात्मना ॥
तथापि मयि कामस्य न तृप्तिः समजायत
॥३२॥एवं दुर्विषयासक्तं मत्तं पानरतं सदा ॥
यौवनेपि महारोगा विविशुर्यक्ष्मकादयः
॥३३॥रोगार्दितोऽनपत्यश्च शत्रुभिश्चापि पीडितः ॥
त्यक्तोमात्यैश्च भृत्यैश्च मृतोऽहं स्वेन कर्मणा
॥३४॥आयुर्विनश्यत्ययशो विवर्धते भाग्यं क्षयं यात्यतिदुर्गतिं व्रजेत् ॥
स्वर्गाच्च्यवंते पितरः पुरातना धर्मव्यपेतस्य नरस्य निश्चितम्
॥३५॥अथाहं किंकरैर्याम्यैर्नीतो वैवस्वतालयम् ॥
ततोऽहं नरके घोरे तत्कुण्डे विनिपातितः
॥३६॥तत्राहं नरके घोरे वर्षाणामयुतत्रयम् ॥
रेतः पिबन्पीड्यमानो न्यवसं यमकिंकरैः
॥३७॥ततः पापावशेषेण पिशाचो निर्जने वने ॥
सहस्रशिश्नः संजातो नित्यं क्षुत्तृषयाकुलः
॥३८॥पैशाचीं गतिमाश्रित्य नीतं दिव्यं शरच्छतम् ॥
द्वितीयेहं भवे जातो व्याघ्रः प्राणिभयंकरः
॥३९॥तृतीयेऽजगरो घोरश्चतुर्थेऽहं भवे वृकः ॥
पंचमे विड्वराहश्च षष्ठेऽहं कृकलासकः
॥४०॥सप्तमेऽहं सारमेयः सृगालश्चाष्टमे भवे ॥
नवमे गवयो भीमो मृगोऽहं दशमे भवे
॥४१॥एकादशे मर्कटश्च गृध्रोऽहं द्वादशे भवे ॥
त्रयोदशेऽहं नकुलो वायसश्च चतु र्दशे
॥४२॥अच्छभल्लः पंचदशे षोडशे वनकुक्कुटः ॥
गर्दभोऽहं सप्तदशे मार्जारोष्टादशे भवे
॥४३॥एकोनविंशे मण्डूकः कूर्मो विंशतिमे भवे ॥
एकविंशे भवे मत्स्यो द्वाविंशे मूषकोऽभवम्
॥४४॥उलूकोहं त्रयोविंशे चतुर्विशे वनद्विपः ॥
पंचविंशे भवे चास्मिञ्जातोहं ब्रह्मराक्षसः
॥४५॥क्षुत्परीतो निराहारो वसाम्यत्र महावने ॥
इदानीमागतं दृष्ट्वा भवंतं जग्धुमुत्सुकः ॥
त्वद्देहस्पर्शमात्रेण जाता पूर्वभवस्मृतिः
॥४६॥गतजन्म सहस्राणि स्मराम्यद्य त्वदंतिके ॥
निर्वेदश्च परो जातः प्रसन्नं हृदयं च मे
॥४७॥ईदृशोऽयं प्रभावस्ते कथं लब्धो महामते ॥
तपसा वापि तीव्रेण किमु तीर्थनिषेवणात्
॥४८॥योगेन देवशक्त्या वा मंत्रैर्वानंतशक्तिभिः ॥
तत्त्वतो ब्रूहि भगवंस्त्वामहं शरणं गतः
॥४९॥वामदेव उवाच
एष मद्गात्रलग्नस्य प्रभावो भस्मनो महान् ॥
यत्संपर्कात्तमोवृत्तेस्तवेयं मतिरुत्तमा
॥५०॥को वेद भस्मसामर्थ्यं महादेवा दृते परः ॥
दुर्विभाव्यं यथा शंभोर्माहात्म्यं भस्मनस्तथा
॥५१॥पुरा भवादृशः कश्चिद्ब्राह्मणो धर्मवर्जितः ॥
द्राविडेषु स्थितो मूढः कर्मणा शूद्रतां गतः
॥५२॥चौर्यवृत्तिर्नैष्कृतिको वृषलीरतिलालसः ॥
कदाचिज्जारतां प्राप्तः शूद्रेण निहतो निशि
॥५३॥तच्छवस्य बहिर्ग्रामा त्क्षिप्तस्य प्रेतकर्मणः ॥
चचार सारमेयोंऽगे भस्मपादो यदृच्छया
॥५४॥अथ तं नरके घोरे पतितं शिवकिंकराः ॥
निन्युर्विमानमारोप्य प्रसह्य यमकिंकरान्
॥५५॥शिवदूतान्समभ्येत्य यमोपि परिपृष्टवान् ॥
महापातककर्त्तारं कथमेनं निनीषथ
॥५६॥अथोचुः शिवदूतास्ते पश्यास्य शवविग्रहम् ॥
वक्षोललाटदोर्मूलान्यंकितानि सुभस्मना
॥५७॥अत एनं समानेतुमागताः शिवशासनात् ॥
नास्मान्निषेद्धुं शक्तोसि मास्त्वत्र तव संशयः
॥५८॥इत्याभाष्य यमं शंभोर्दूतास्तं ब्राह्मणं ततः ॥
पश्यतां सर्वलोकानां निन्युर्लोकमनामयम्
॥५९॥तस्मादशेषपापानां सद्यः संशोधनं परम् ॥
शंभोर्विभूषणं भस्म सततं ध्रियते मया
॥६०॥इत्थं निशम्य माहात्म्यं भस्मनो ब्रह्मराक्षसः ॥
विस्तरेण पुनः श्रोतु मौत्कंठ्यादित्यभाषत
॥६१॥साधुसाधु महायोगिन्धन्योस्मि तव दर्शनात् ॥
मां विमोचय धर्मात्मन्घोरादस्मात्कुजन्मनः
॥६२॥किंचिदस्तीह मे भाति मया पुण्यं पुराकृतम् ॥
अतोहं त्वत्प्रसादेन मुक्तोस्म्यद्य द्विजोत्तम
॥६३॥एकस्मै शिवभक्ताय तस्मिन्पार्थिवजन्मनि ॥
भूमिर्वृत्तिकरी दत्ता सस्यारामान्विता मया
॥९९॥यमेनापि तदैवोक्तं पंचविंशतिमे भवे ॥
कस्यचिद्योगिनः संगान्मोक्ष्यसे संसृतेरिति
॥६५॥तदद्य फलितं पुण्यं यत्किंचित्प्राग्भवार्जितम् ॥
अतो निर्मनुजारण्ये संप्राप्तस्तव संगमः
॥६६॥अतो मां घोरपाप्मानं संसरंतं कुजन्मनि ॥
समुद्धर कृपासिन्धो दत्त्वा भस्म समंत्रकम्
॥६७॥कथं धार्यमिदं भस्म को मंत्रः को विधिः शुभः ॥
कः कालः कश्च वा देशः सर्वं कथय मे गुरो
॥६८॥भवादृशा महात्मानः सदा लोकहिते रताः ॥
नात्मनो हितमिच्छंति कल्पवृक्षसधर्मिणः
॥६९॥सूत उवाच
इत्युक्तस्तेन योगीशो घोरेण वनचारिणा ॥
भूयोपि भस्ममाहात्म्यं वर्णयामास तत्त्ववित्
॥७०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यकथनं नाम पंचदशोऽध्यायः ॥ १५ ॥