मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय ७

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 7

प्रदोषमहिमावर्णनम्

सूत उवाच

इत्युक्ता मुनिना साध्वी सा विप्रवनिता पुनः ॥

तं प्रणम्याथ पप्रच्छ शिवपूजाविधेः क्रमम्

॥१॥

शांडिल्य उवाच

पक्षद्वये त्रयोदश्यां निराहारो भवेद्यदा ॥

घटीत्रयादस्तमयात्पूर्वं स्नानं समाचरेत्

॥२॥

शुक्लांबरधरो धीरो वाग्यतो नियमान्वितः ॥

कृतसंध्याजपविधिः शिवपूजां समारभेत्

॥३॥

देवस्य पुरतः सम्यगुपलिप्य नवांभसा ॥

विधाय मंडलं रम्यं धौतवस्त्रादिभिर्बुधः

॥४॥

वितानाद्यैरलंकृत्य फलपुष्पनवांकुरैः ॥

विचित्रपद्ममुद्धृत्य वर्णपंचकसंयुतम्

॥५॥

तत्रोपविश्य सुशुभे भक्तियुक्तः स्थिरासने ॥

सम्यक्संपादिताशेष पूजोपकरणः शुचिः

॥६॥

आगमोक्तेन मंत्रेण पीठमामंत्रयेत्सुधीः ॥

ततः कृत्वात्मशुद्धिं च भूतशुद्ध्यादिकं क्रमात्

॥७॥

प्राणायामत्रयं कृत्वा बीजवर्णैः सबिंदुकैः ॥

मातृका न्यस्य विधिवद्ध्यात्वा तां देवतां पराम्

॥८॥

समाप्य मातृका भूयो ध्यात्वा चैव परं शिवम् ॥

वामभागे गुरुं नत्वा दक्षिणे गणपं नमेत्

॥९॥

अंसोरुयुग्मे धर्मादीन्न्यस्य नाभौ च पार्श्वयोः ॥

अधर्मादीननंतादीन्हृदि पीठे मनुं न्यसेत्

॥१०॥

आधारशक्तिमारभ्य ज्ञानात्मानमनुक्रमात् ॥

उक्तक्रमेण विन्यस्य हृत्पद्मे साधुभाविते

॥११॥

नवशक्तिमये रम्ये ध्यायेद्देवमुमापतिम् ॥

चन्द्रकोटिप्रतीकाशं त्रिनेत्रं चन्द्रशेखरम्

॥१२॥

आपिंगलजटाजूटं रत्नमौलिविराजितम् ॥

नीलग्रीवमुदारांगं नागहारोपशोभितम्

॥१३॥

वरदाभयहस्तं च धारिणं च परश्वधम् ॥

दधानं नागवलयकेयूरांगदमुद्रिकम्

॥१४॥

व्याघ्रचर्मपरीधानं रत्नसिंहासने स्थितम् ॥

ध्यात्वा तद्वाम भागे च चिंतयेद्गिरिकन्यकाम्

॥१५॥

भास्वज्जपाप्रसूनाभामुदयार्कसमप्रभाम् ॥

विद्युत्पुंजनिभां तन्वीं मनोनयननंदिनीम्

॥१६॥

बालेंदु शेखरां स्निग्धां नीलकुंचितकुन्तलाम् ॥

भृंगसंघातरुचिरां नीलालकविराजिताम्

॥१७॥

मणिकुंडलविद्योतन्मुखमंडलविभ्रमाम् ॥

नवकुम्कुमपंकांक कपोलदलदर्पणाम्

॥१८॥

मधुरस्मितविभ्राजदरुणाधरपल्लवाम् ॥

कंबुकंठीं शिवामुद्यत्कुचपंकजकुड्मलाम्

॥१९॥

पाशांकुशाभयाभीष्टविल सत्सु चतुर्भुजाम् ॥

अनेकरत्नविलसत्कंकणांकितमुद्रिकाम्

॥२०॥

वलित्रयेण विलसद्धेमकांचीगुणान्विताम् ॥

रक्तमाल्यांबरधरां दिव्यचंदनच र्चिताम्

॥२१॥

दिक्पालवनितामौलिसन्नतांघ्रिसरोरुहाम् ॥

रत्नसिंहासनारूढां सर्पराजपरिच्छदाम्

॥२१॥

एवं ध्यात्वा महादेवं देवीं च गिरि कन्यकाम् ॥

न्यासक्रमेण संपूज्य देवं गंधादिभिः क्रमात्

॥२३॥

पंचभिर्ब्रह्मभिः कुर्यात्प्रोक्तस्थानेषु वा हृदि ॥

पृथक्पुष्पांजलिं देहे मूलेन च हदि त्रिधा

॥२४॥

पुनः स्वयं शिवो भूत्वा मूलमंत्रेण साधकः ॥

ततः संपूजयेद्देवं बाह्यपीठे पुनः क्रमात्

॥२५॥

संकल्पं प्रवदेत्तत्र पूजारंभे समाहितः ॥

कृतांजलिपुटो भूत्वा चिंतयेद्धृदि शंकरम्

॥२६॥

ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये ॥

अशेषाघविनाशाय प्रसीद मम शंकर

॥२७॥

दुःखशोकाग्निसंतप्तं संसारभयपीडितम् ॥

बहुरोगाकुलं दीनं त्राहि मां वृषवाहन

॥२८॥

आगच्छ देवदेवेश महादेवाभयंकर ॥

गृहाण सह पार्वत्या तव पूजां मया कृताम्

॥२९॥

इति संकल्प्य विधिवद्ब्राह्मपूजां समाचरेत् ॥

गुरुं गणपतिं चैव यजेत्सव्यापसव्ययोः

॥३०॥

क्षेत्रेशमीशकोणे तु यजेद्वास्तोष्पतिं क्रमात् ॥

वाग्देवीं च यजेत्तत्र ततः कात्यायनीं यजेत्

॥३१॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं च नमोंऽतकैः ॥

स्वरैरीशादिकोणेषु पीठपादाननुक्रमात् ॥

आभ्यां बिंदुविसर्गाभ्यामधर्मादीन्प्रपूजयेत्

॥३२॥

सत्त्वरूपैश्चतुर्दिक्षु मध्येऽनंतं सतारकम् ॥

सत्त्वादींस्त्रिगुणांस्तं तु रूपान्पीठेषु विन्यसेत्

॥३३॥

अत ऊर्ध्वच्छदे मायां सह लक्ष्म्या शिवेन च

॥३४॥

तदंते चांबुजं भूयः सकलं मंडलत्रयम् ॥

पत्रकेसरकिंजल्कव्याप्तं ताराक्षरैः क्रमात्

॥३५॥

पद्मत्रयं तथाभ्यर्च्य मध्ये मंडलमादरात् ॥

वामां ज्येष्ठां च रौद्रीं च भागाद्यैर्दिक्षु पूजयेत्

॥३६॥

वामाद्या नव शक्तीश्च नवस्वरयुता यजेत् ॥

हृदि बीजत्रयाद्येन पीठमंत्रेण चार्चयेत्

॥३७॥

आवृत्तैः प्रथमांगैश्च पंचभिर्मूर्त्तिशक्तिभिः ॥

त्रिशक्तिमूर्त्तिभिश्चान्यैर्निधिद्वयसमन्वितैः

॥३८॥

अनंताद्यैः परीताश्च मातृभिश्च वृषादिभिः ॥

सिद्धिभिश्चाणिमाद्याभिरिंद्राद्यैश्च सहायुधैः

॥३९॥

वृषभक्षेत्रचंडेशदुर्गाश्च स्कंदनंदिनौ ॥

गणेशः सैन्यपश्चैव स्वस्वलक्षणलक्षिताः

॥४०॥

अणिमा महिमा चैव गरिमा लघिमा तथा ॥

ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च

॥४१॥

अष्टैश्वर्याणि चोक्तानि तेजोरूपाणि केवलम् ॥

पंचभिर्ब्रह्मभिः पूर्वं हृल्लेखाद्यादिभिः क्रमात

॥४२॥

अंगैरुमाद्यैरिंद्राद्यैः पूजोक्ता मुनिभिस्तु तैः ॥

उमाचंडेश्वरादींश्च पूजयेदुत्तरादितः

॥४३॥

एवमावरणैर्युक्तं तेजोरूपं सदाशिवम् ॥

उमया सहितं देवमुपचारैः प्रपूजयेत्

॥४४॥

सुप्रतिष्ठितशंखस्य तीर्थैः पंचामृतैरपि ॥

अभिषिच्य महादेवं रुद्रसूक्तैः समाहितः

॥४५॥

कल्पयेद्विविधैर्मंत्रैरासनाद्युपचारकान् ॥

आसनं कल्पयेद्धैमं दिव्यवस्त्रसमन्वितम्

॥४६॥

अर्घ्यमष्टगुणोपेतं पाद्यशुद्धोदकेन च ॥

तेनैवाचमनं दद्यान्मधुपर्कं मधूत्तरम्

॥४७॥

पुनराचमनं दत्त्वा स्नानं मंत्रै प्रकल्पयेत् ॥

उपवीतं तथा वासो भूषणानि निवेदयेत् ॥

गंधमष्टांगसंयुक्तं सुपूतं विनिवेदयेत्

॥४८॥

ततश्च बिल्वमंदारकह्लारसरसीरुहम् ॥

धत्तूरकं कर्णिकारं शणपुष्पं च मल्लिकाम्

॥४९॥

कुशापामार्गतुलसीमाधवीचंपकादिकम् ॥

बृहतीकरवीराणि यथालब्धानि साधकः

॥५०॥

निवेदयेत्सुगंधीनि माल्यानि विविधानि च ॥

धूपं कालागरूत्पन्नं दीपं च विमलं शुभम्

॥५१॥

विशेषकम् ॥

अथ पायसनैवेद्यं सघृतं सोपदंशकम् ॥

मोदकापूपसंयुक्तं शर्करागुडसंयुतम्

॥५२॥

मधुनाक्तं दधियुतं जलपानसमन्वितम् ॥

तेनैव हविषा वह्नौ जुहुयान्मंत्रभाविते

॥५३॥

आगमोक्तेन विधिना गुरुवाक्यनियंत्रितः ॥

नैवेद्यं शंभवे भूयो दत्त्वा तांबूलमुत्तमम्

॥५४॥

धूपं नीराजनं रम्यं छत्रं दर्पणमुत्तमम् ॥

समर्पयित्वा विधिवन्मंत्रैर्वेदिकतांत्रिकैः

॥५५॥

यद्यशक्तः स्वयं निःस्वो यथाविभवमर्चयेत् ॥

भक्त्त्या दत्तेन गौरीशः पुष्पमात्रेण तुष्यति

॥५६॥

अथांगभूतान्सकलान्गणेशादीन्प्रपूजयेत् ॥

स्तवैर्नानाविधैः स्तुत्वा साष्टांगं प्रणमेद्बुधः

॥५७॥

ततः प्रदक्षिणीकृत्य वृषचंडेश्वरादिकान् ॥

पूजां समर्प्य विधिवत्प्रार्थयेद्गिरिजापतिम्

॥५८॥

जय देव जगन्नाथ जय शंकर शाश्वत ॥

जय सर्व सुराध्यक्ष जय सर्वसुरार्चित

॥५९॥

जय सर्वगुणातीत जय सर्ववरप्रद ॥

जय नित्य निराधार जय विश्वंभराव्यय

॥६०॥

जय विश्वैकवेद्येश जय नागेंद्रभूषण ॥

जय गौरीपते शंभो जय चंद्रार्धशेखर

॥६१॥

जय कोट्यर्कसंकाश जयानंतगुणाश्रय

॥६२॥

जय रुद्र विरूपाक्ष जयाचिंत्य निरंजन ॥

जय नाथ कृपासिंधो जय भक्तार्तिभञ्जन ॥

जय दुस्तरसंसारसागरोत्तारण प्रभो

॥६३॥

प्रसीद मे महादेव संसारार्त्तस्य खिद्यतः ॥

सर्वपापभयं हृत्वा रक्ष मां परमेश्वर

॥६४॥

महादारिद्र्यमग्नस्य महापापहतस्य च ॥

महाशोकविनष्टस्य महारोगातुरस्य च

॥६५॥

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ॥

ग्रहैः प्रपीड्यमानस्य प्रसीद मम शंकर

॥६६॥

दरिद्रः प्रार्थयेदेवं पूजांते गिरिजापतिम् ॥

अर्थाढ्यो वापि राजा वा प्रार्थयेद्देवमीश्वरम्

॥६७॥

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ॥

ममास्तु नित्यमानन्दः प्रसादात्तव शंकर

॥६८॥

शत्रवः संक्षयं यांतु प्रसीदन्तु मम ग्रहाः ॥

नश्यन्तु दस्यवो राष्ट्रे जनाः संतु निरापदः

॥६९॥

दुर्भिक्षमारीसंतापाः शमं यांतु महीतले ॥

सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः

॥७०॥

एवमाराधयेद्देवं प्रदोषे गिरिजापतिम् ॥

ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत्

॥७१॥

सर्वपापक्षयकरी सर्वदारिद्र्यनाशिनी ॥

शिवपूजा मया ख्याता सर्वाभीष्टवरप्रदा

॥७२॥

महापातकसंघातमधिकं चोपपातकम् ॥

शिवद्रव्यापहरणादन्यत्सर्वं निवारयेत्

॥७३॥

ब्रह्महत्यादिपापानां पुराणेषु स्मृतिष्वपि ॥

प्रायश्चित्तानि दृष्टानि न शिवद्रव्यहारिणाम्

॥७४॥

बहुनात्र किमुक्तेन श्लोकार्धेन ब्रवीम्यहम् ॥

ब्रह्महत्याशतं वापि शिवपूजा विनाशयेत्

॥७५॥

मया कथितमेतत्ते प्रदोषे शिवपूजनम् ॥

रहस्यं सर्वजंतूनामत्र नास्त्येव संशयः

॥७६॥

एताभ्यामपि बालाभ्यामेवं पूजा विधीयताम् ॥

अतः संवत्सरादेव परां सिद्धिमवाप्स्यथ

॥७७॥

इति शांडिल्यवचनमाकर्ण्य द्विजभामिनी ॥

ताभ्यां तु सह बालाभ्यां प्रणनाम मुनेः पदम्

॥७८॥

विप्रस्त्र्युवाच

अहमद्य कृतार्थास्मि तव दर्शनमात्रतः ॥

एतौ कुमारौ भगवंस्त्वामेव शरणं गतौ

॥७९॥

एष मे तनयो ब्रह्मञ्छुचिव्रत इतीरितः ॥

एष राजसुतो नाम्ना धर्मगुप्तः कृतो मया

॥८०॥

एतावहं च भगवन्भवच्चरणकिंकराः ॥

समुद्धरास्मिन्पतितान्घोरे दारिद्र्यसागरे

॥८१॥

इति प्रपन्नां शरणं द्विजांगनामाश्वास्य वाक्यैरमृतोपमानैः ॥

उपादिदेशाथ तयोः कुमारयोर्मुनिः शिवाराधनमंत्र विद्याम्

॥८२॥

अथोपदिष्टौ मुनिना कुमारौ ब्राह्मणी च सा ॥

तं प्रणम्य समामंत्र्य जग्मुस्ते शिवमंदिरात्

॥८३॥

ततः प्रभृति तौ बालौ मुनिवर्योपदेशतः ॥

प्रदोषे पार्वतीशस्य पूजां चक्रतुरंजसा

॥८४॥

एवं पूजयतोर्देवं द्विजराजकुमारयोः ॥

सुखेनैव व्यतीयाय तयोर्मासचतुष्टयम्

॥८५॥

कदाचिद्राजपुत्रेण विनासौ द्विजनंदनः ॥

स्नातुं गतो नदीतीरे चचार बहुलीलया

॥८६॥

तत्र निर्झरनिर्घातनिर्भिन्ने वप्र कुट्टिमे ॥

निधानकलशं स्थूलं प्रस्फुरंतं ददर्श ह

॥८७॥

तं दृष्ट्वा सहसागत्य हर्षकौतुकविह्वलः ॥

दैवोपपन्नं मन्वानो गृहीत्वा शिरसा ययौ

॥८८॥

ससंभ्रमं समानीय निधाय कलशं बलात् ॥

निधाय भवनस्यांते मातरं समभाषत

॥८९॥

मातर्मातरिमं पश्य प्रसादं गिरिजापतेः ॥

निधानं कुम्भरूपेण दर्शितं करुणात्मना

॥९०॥

अथ सा विस्मिता साध्वी समाहूय नृपात्मजम् ॥

स्वपुत्रं प्रतिनंद्याह मानयन्ती शिवार्चनम्

॥९१॥

शृणुतां मे वचः पुत्रौ निधानकलशीमिमाम् ॥

समं विभज्य गृह्णीतं मम शासनगौरवात्

॥९२॥

इति मातुर्वचः श्रुत्वा तुतोष द्विज नंदनः ॥

प्रत्याह राजपुत्रस्तां विस्रब्धः शंकरार्चने

॥९३॥

मातस्तव सुतस्यैव सुकृतेन समागतम् ॥

नाहं ग्रहीतुमिच्छामि विभक्तं धनसंच यम्

॥९४॥

आत्मनः सुकृताल्लब्धं स्वयमेव भुनक्त्वसौ ॥

स एव भगवानीशः करिष्यति कृपां मयि

॥९५॥

एवमर्चयतोः शंभुं भूयोपि परया मुदा ॥

संवत्सरो व्यतीयाय तस्मिन्नेव गृहे तयोः

॥९६॥

अथैकदा राजसूनुः सह तेन द्विजन्मना ॥

वसंतसमये प्राप्ते विजहार वनां तरे

॥९७॥

अथ दूरं गतौ क्वापि वने द्विजनृपात्मजौ ॥

गन्धर्वकन्याः क्रीडंती शतशस्तावपश्यताम्

॥९८॥

ताः सर्वाश्चारुसर्वांग्यो विहरंत्यो मनोहरम् ॥

दृष्ट्वा द्विजात्मजो दूरादुवाच नृपनंदनम्

॥९९॥

इतः पुरो न गंतव्यं विहरंत्यग्रतः स्त्रियः ॥

स्त्रीसंन्निधानं विबुधास्त्यजंति विमलाशयाः

॥१००॥

एताः कैतवकारिण्यो धनयौवनदुर्मदाः ।

मोहयन्त्यो जनं दृष्ट्वा वाचानुनयकोविदाः

॥१॥

अतः परित्यजेत्त्स्त्रीणां सन्निधिं सहभाषणम् ।

निज़धर्मरतो विद्वन्ब्रह्मचारी विशेषतः

॥३॥

अतोहं नोत्सहे गन्तुं क्रीडास्थानं मृगीदृशाम् ॥

इत्युक्त्वा द्विजपुत्रस्तु निवृत्तो दूरतः स्थितः

॥३॥

अथासौ राजपुत्रस्तु कौतुकाविष्टमानसः ॥

तासां विहारपदवीमेक एवाभयो ययौ

॥१॥

तत्र गंधर्वकन्यानां मध्ये त्वेका वरानना ॥

दृष्ट्वाऽऽयांतं राजपुत्रं चिंतयामास चेतसा

॥९॥

अहो कोयमुदारांगो युवा सर्वांगसुन्दरः ॥

मत्तमातंग गमनो लावण्यामृतवारिधिः

॥६॥

लीलालोलविशालाक्षी मधुरस्मितपेशलः ॥

मदनोपमरूपश्रीः सुकुमारांगलक्षणः

॥७॥

इत्याश्चर्ययुता बाला दूराद्दृष्ट्वा नृपात्मजम् ॥

सर्वाः सखीः समालोक्य वचनं चेदमब्रवीत्

॥८॥

इतो विदूरे हे सख्यो वनमस्त्येकमुत्तमम् ॥

विचित्रचंपकाशोकपुन्नागबकुलैर्युतम्

॥९॥

तत्र गत्वा वनं सर्वाः संचीय कुसुमोत्करम् ॥

भवत्यः पुनरायांतु तावत्तिष्ठाम्यहं त्विह

॥११०॥

इत्यादिष्टः सखीवर्गो जगाम विपिनांतरम् ॥

सापि गंधर्वजा तस्थौ न्यस्तदृष्टिर्नृपात्मजे

॥११॥

तां समालोक्य तन्वंगीं नवयौवनशालिनीम् ॥

बालां स्वरूपसंपत्त्या परैिभूततिलोत्तमाम्

॥१२॥

राजपुत्रः समागम्य कौतुकोत्फुल्ललोचनः ॥

अवाप दैवयोगेन मदनस्य शरव्यथाम्

॥१३॥

गन्धर्वतनया सापि प्राप्ताय नृपसूनवे ॥

उत्थाय तरसा तस्मै प्रददौ पल्लवासनम्

॥१४॥

कृतोपचारमासीनं तमासाद्य सुमध्यमा ॥

पप्रच्छ तद्रूपगुणैर्ध्वस्तधैर्याकुलेंद्रिया ॥

कस्त्वं कमलपत्राक्ष कस्माद्देशादिहागतः ॥

कस्य पुत्र इति प्रेम्णा पृष्टः सर्वं न्यवेदयत्

॥१६॥

विदर्भ राजतनयं विध्वस्तपितृमातृकम् ॥

शत्रुभिश्च हृतस्थानमात्मानं परराष्ट्रगम्

॥१७॥

सर्वमावेद्य भूयस्तां पप्रच्छ नृपनंदनः ॥

का त्वं वामोरु किं चात्र कार्यं ते कस्य चात्मजा

॥१८॥

किमवध्यायसि हृदा किं वा वक्तुमिहेच्छसि ॥

इत्युक्ता सा पुनः प्राह शृणु राजेंद्रसत्तम

॥१९॥

अस्त्येको द्रविकोनाम गंधर्वाणां कुलाग्रणीः ॥

तस्याहमस्मि तनया नाम्ना चांशुमती स्मृता

॥१२०॥

त्वामायांतं विलोक्याहं त्वत्संभाषण लालसा ॥

त्यक्त्वा सखीजनं सर्वमेकैवास्मि महामते

॥२१॥

सर्वसंगीतविद्यासु न मत्तोऽन्यास्ति काचन ॥

मम योगेन तुष्यंति सर्वा अपि सुरस्त्रियः

॥२२॥

साहं सर्वकलाभिज्ञा ज्ञातसर्वजनेंगिता ॥

तवाहमीप्सितं वेद्मि मयि ते संगतं मनः

॥२३॥

तथा ममापि चौत्सुक्यं दैवेन प्रतिपादितम् ॥

आवयोः स्नेहभेदोऽत्र नाभिभूयादितः परम्

॥२४॥

इति संभाष्य तेनाशु प्रेम्णा गन्धर्वनंदिनी ॥

मुक्ताहारं ददौ तस्मै स्वकुचांतरभूषणम्

॥२५॥

तमादायाद्भुतं हारं स तस्याः प्रणयाकुलः ॥

गाढहर्षभरोत्सिक्तामिदमाह नृपात्मजः

॥२६॥

सत्यमुक्तं त्वया भीरु तथाप्येकं वदाम्यहम् ॥

त्यक्तराज्यस्य निःस्वस्य कथं मे भवसि प्रिया

॥२७॥

सा त्वं पितृमती बाला विलंघ्य पितृशासनम् ॥

स्वच्छंदा चरणं कर्तुं मूढेव कथमर्हसि

॥२८॥

इति तस्य वचः श्रुत्वा तं प्रत्याह शुचिस्मिता ॥

अस्तु नाम तथैवाहं करिष्ये पश्य कौतुकम्

॥२९॥

गच्छ स्वभवनं कांत परश्वः प्रातरेव तु ॥

आगच्छ पुनरत्रैव कार्यमस्ति च नो मृषा

॥१३०॥

इत्युक्त्वा तं नृपसुतं सा संगतसखीजना ॥

अपाक्रामत चार्वंगी स चापि नृपनन्दनः

॥३१॥

स समभ्येत्य हर्षेण द्विजपुत्रस्य सन्निधिम् ॥

सर्वमाख्याय तेनैव सार्धं स्वभवनं ययौ

॥३२॥

तां च विप्रसतीं भूयो हर्षयित्वा नृपात्मजः ॥

परश्वो द्विजपुत्रेण सार्धं तेन वनं ययौ

॥३३॥

स तया पूर्वनिर्दिष्टं स्थानं प्राप्य नृपात्मजः ॥

गन्धर्वराजमद्राक्षीत्स्वदुहित्रा समन्वितम्

॥३४॥

स गंधर्वपतिः प्राप्तावभिनंद्य कुमारकौ ॥

उपवेश्यासने रम्ये राजपुत्रमभाषत

॥३५॥

गंधर्व उवाच

राजेंद्रपुत्र पूर्वेद्युः कैलासं गतवानहम् ॥

तत्रापश्यं महादेवं पार्वत्या सहितं प्रभुम्

॥३६॥

आहूय मां स देवेशः सर्वेषां त्रिदिवौकसाम् ॥

सन्निधावाह भगवान्करुणामृतवारिधिः

॥३७॥

धर्मगुप्ताह्वयः कश्चिद्राजपुत्रोऽस्ति भूतले ॥

अकिञ्चनो भ्रष्टराज्यो हृतदेशश्च शत्रुभिः

॥३८॥

स बालो गुरुवाक्येन मदर्च्चायां रतः सदा ॥

अद्य तत्पितरः सर्वे मां प्राप्तास्तत्प्रभावतः

॥३९॥

तस्य त्वमपि साहाय्यं कुरु गन्धर्वसत्तम ॥

अथासौ निजराज्यस्थो हतशत्रुर्भविष्यति

॥१४०॥

इत्याज्ञप्तो महेशेन संप्राप्तो निजमदिरम् ॥

अनया मद्दुहित्रा च बहुशोऽभ्यर्थितस्तथा

॥४१॥

ज्ञात्वेमं सकलं शंभोर्नियोगं करुणात्मनः ॥

आदायेमां दुहितरं प्राप्तोऽस्मीदं वनांतरम्

॥४२॥

अत एनां प्रयच्छामि कन्यामंशुमतीं तव ॥

हत्वा शत्रून्स्वराष्टे त्वां स्थापयामि शिवाज्ञया

॥४३॥

तस्मिन्पुरे त्वमनया भुक्त्वा भोगान्यथेप्सितान् ॥

दशवर्षसहस्रान्ते गन्तासि गिरिशालयम् ॥

तत्रापि मम कन्येयं त्वामेव प्रतिपत्स्यते ॥

अनेनैव स्वदेहेन दिव्येन शिवसन्निधौ

॥४५॥

इति गन्धर्वराजस्तमाभाष्य नृपनन्दनम् ॥

तस्मिन्वने स्वदुहितुः पाणिग्रहमकारयत्

॥४६॥

पारिबर्हमदात्तस्मै रत्नभारान्महोज्ज्वलान् ॥

चूडामणिं चन्द्रनिभं मुक्ताहारांश्च भासुरान्

॥४७॥

दिव्यालंकारवासांसि कार्त्तस्वरपरिच्छदान् ॥

गजानामयुतं भूयो नियुतं नीलवाजिनाम्

॥४८॥

स्यन्दनानां सहस्राणि सौवर्णानि महांति च ॥

पुनरेकं रथं दिव्यं धनुश्चेन्द्रायुधोपमम्

॥४९॥

अस्त्राणां च सहस्राणि तूणी चाक्षय्यसायकौ ॥

अभेद्यं वर्म सौवर्णं शक्तिं च रिपुमर्दिनीम्

॥१५०॥

दुहितुः परिचर्यार्थं दासीपञ्चसहस्रकम् ॥

ददौ प्रीतमनास्तस्मै धनानि विविधानि च

॥५१॥

गंधर्वसैन्यमत्युग्रं चतुरंगसममन्वितम् ॥

पुनश्च तत्सहायार्थे गन्धर्वाधिपतिर्ददौ

॥५२॥

इत्थं राजेन्द्रतनयः संप्राप्तः श्रियमुत्तमाम् ॥

अभीष्टजायासहितो मुमुदे निजसंपदा

॥५३॥

कारयित्वा स्वदुहितुर्विवाहं समयोचितम् ॥

ययौ विमानमारुह्य गंधर्वाधिपतिर्दिवम्

॥५४॥

धर्मगुप्तः कृतोद्वाहः सह गंधर्वसेनया ॥

पुनः स्वनगरं प्राप्य जघान रिपुवाहिनीम्

॥५५॥

दुर्धर्षणं रणे हत्वा शक्त्या गंधर्वसेनया ॥

निः शेषितारातिबलः प्रविवेश निजं पुरम्

॥५६॥

ततोभिषिक्तः सचिवैर्ब्राह्मणैश्च महोत्तमैः ॥

रत्नसिंहासनारूढश्चक्रे राज्यमकण्टकम्

॥५७॥

या विप्रवनिता पूर्वं तमपुष्णात्स्वपुत्रवत् ॥

सैव माताभवत्तस्य स भ्राता द्विजनन्दनः

॥५८॥

गंधर्वतनया जाया विदर्भनगरेश्वरः ॥

आराध्य देवं गिरिशं धर्मगुप्तो नृपोऽभवत्

॥५९॥

एवमन्ये समाराध्य प्रदोषे गिरिजापतिम् ॥

लभंतेभीप्सितान्कामान्देहांते तु परां गतिम्

॥१६०॥

सूत उवाच

एतन्महाव्रतं पुण्यं प्रदोषे शंकरार्चनम् ॥

धर्मार्थकाममोक्षाणां यदेतत्साधनं परम्

॥६१॥

य एतच्छृणुयात्पुण्यं माहात्म्यं परमाद्भुतम् ॥

प्रदोषे शिवपूजांते कथयेद्वा समाहितः

॥६२॥

भवेन्न तस्य दारिद्र्यं जन्मान्तरशतेष्वपि ॥

ज्ञानैश्वर्यसमायुक्तः सोन्ते शिवपुरं व्रजेत्

॥६३॥

ये प्राप्य दुर्लभतरं मनुजाः शरीरं कुर्वंति हंत परमेश्वरपादपूजाम् ॥

धन्यास्त एव निजपुण्यजितत्रिलोकास्तेषां पदांबुजरजो भुवनं पुनाति

॥१६४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे प्रदोषमहिमावर्णनं नाम सप्तमो ऽध्यायः ॥ ७ ॥