मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय ९

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 9

प्रभाववर्णनम्

ऋषय ऊचुः

साधुसाधु महाभाग त्वया कथितमुत्तमम् ॥

आख्यानं पुनरन्यत्र विचित्रं वक्तुमर्हसि

॥१॥

सूत उवाच

विदर्भविषये पूर्वमासीदेको द्विजोत्तमः ॥

वेदमित्र इति ख्यातो वेद शास्त्रार्थवित्सुधीः

॥२॥

तस्यासीदपरो विप्रः सखा सारस्वताह्वयः ॥

तावुभौ परमस्निग्धावेकदेशनिवासिनौ

॥३॥

वेदमित्रस्य पुत्रोऽभूत्सुमेधा नाम सुव्रतः ॥

सारस्वतस्य तनयः सोमवानिति विश्रुतः

॥४॥

उभौ सवयसौ बालौ समवेषौ समस्थिती ॥

समं च कृतसंस्कारौ सम विद्यौ बभूवतुः

॥५॥

सांगानधीत्य तौ वेदांस्तर्कव्याकरणानि च ॥

इतिहासपुराणानि धर्मशास्त्राणि कृत्स्नशः

॥६॥

सर्वविद्याकुशलिनौ बाल्य एव मनीषिणौ ॥

प्रहर्षमतुलं पित्रोर्ददतुः सकलैर्गुणैः

॥७॥

तावेकदा स्वतनयौ तावुभौ ब्राह्मणोत्तमौ ॥

आहूयावोचतां प्रीत्या षोड शाब्दौ शुभाकृती

॥८॥

हे पुत्रकौ युवां बाल्ये कृतविद्यौ सुवर्चसौ ॥

वैवाहिकोयं समयो वर्तते युवयोः समम्

॥९॥

इमं प्रसाद्य राजानं विदर्भेशं स्वविद्यया ॥

ततः प्राप्य धनं भूरि कृतोद्वाहौ भविष्यथः

॥१०॥

एवमुक्तौ सुतौ ताभ्यां तावुभौ द्विजनंदनौ ॥

विदर्भराजमासाद्य समतोषयतां गुणैः

॥११॥

विद्यया परितुष्टाय तस्मै द्विजकुमारकौ ॥

विवाहार्थं कृतोद्योगौ धनहीनावशंसताम्

॥१२॥

तयोरपि मतं ज्ञात्वा स विदर्भमहीपतिः ॥

प्रहस्य किंचित्प्रोवाच लोकतत्त्वविवित्सया

॥१३॥

आस्ते निषधराजस्य राज्ञी सीमंतिनी सती ॥

सोमवारे महादेवं पूजयत्यंबिकायुतम्

॥१४॥

तस्मिन्दिने सपत्नीकान्द्विजाग्र्यान्वेदवित्तमान् ॥

संपूज्य परया भक्त्या धनं भूरि ददाति च

॥१५॥

अतोऽत्र युवयोरैको नारीविभ्रमवेषधृक् ॥

एकस्तस्या पतिर्भूत्वा जायेतां विप्रदंपती

॥१६॥

युवां वधूवरौ भूत्वा प्राप्य सीमंतिनीगृहम् ॥

भुक्त्वा भूरि धनं लब्ध्वा पुनर्यातं ममांमतिकम्

॥१७॥

इति राज्ञा समादिष्टौ भीतौ द्विजकुमारकौ ॥

प्रत्यूचतुरिदं कर्म कर्तुं नौ जायते भयम्

॥१८॥

देवतासु गुरौ पित्रोस्तथा राजकुलेषु च ॥

कौटिल्यमाचरन्मोहात्सद्यो नश्यति सान्वयः

॥१९॥

कथमंतर्गृहं राज्ञां छद्मना प्रविशेत्पुमान् ॥

गोप्यमानमपिच्छद्म कदाचित्ख्यातिमेष्यति

॥२०॥

ये गुणाः साधिताः पूर्वं शीलाचारश्रुतादिभिः ॥

सद्यस्ते नाशमायांति कौटिल्य पथगामिनः

॥२१॥

पापं निंदा भयं वैरं चत्वार्येतानि देहिनाम् ॥

छद्ममार्गप्रपन्नानां तिष्ठंत्येव हि सर्वदा

॥२२॥

अत आवां शुभाचारौ जातौ च शुचिनां कुले ॥

वृत्तं धूर्तजनश्लाघ्यं नाश्रयावः कदाचन

॥२३॥

राजोवाच

दैवतानां गुरूणां च पित्रोश्च पृथिवीपतेः ॥

शासनस्याप्यलंघ्यत्वात्प्रत्यादेशो न कर्हिचित्

॥२४॥

एतैर्यद्यत्समादिष्टं शुभं वा यदि वाऽशुभम् ॥

कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः

॥२५॥

अहो वयं हि राजानः प्रजा यूयं हि संमताः ॥

राजाज्ञया प्रवृत्तानां श्रेयः स्यादन्यथा भयम्

॥२६॥

अतो मच्छासनं कार्यं भव द्भ्यामविलंबितम् ॥

इत्युक्तौ नरदेवेन तौ तथेत्यूचतुर्भयात्

॥२७॥

सारस्वतस्य तनयं सामवन्तं नराधिपः ॥

स्त्रीरूपधारिणं चक्रे वस्त्राकल्पां जनादिभिः

॥२८॥

स कृत्रिमोद्भूतकलत्रभावः प्रयुक्तकर्णाभरणांगरागः ॥

स्निग्धाञ्जनाक्षः स्पृहणीयरूपो बभूव सद्यः प्रमदोत्तमाभः

॥२९॥

तावुभौ दंपती भूत्वा द्विजपुत्रौ नृपाज्ञया ॥

जग्मतुर्नैषधं देशं यद्वा तद्वा भवत्विति

॥३०॥

उपेत्य राजसदनं सोमवारे द्विजोत्तमैः ॥

सपत्नीकैः कृतातिथ्यौ धौतपादौ बभूवतुः

॥३१॥

सा राज्ञी ब्राह्मणान्सर्वानुपविष्टान्वरासने ॥

प्रत्येकमर्चयांचक्रे सपत्नीकान्द्विजोत्तमान्

॥३२॥

तौ च विप्रसुतौ दृष्ट्वा प्राप्तौ कृतकदंपती ॥

ज्ञात्वा किंचिद्विहस्याथ मेने गौरीमहेश्वरौ

॥३३॥

आवाह्य द्विजमुख्येषु देवदेवं सदाशिवम् ॥

पत्नीष्वावाहयामास सा देवीं जगदंबिकाम्

॥३४॥

गन्धैर्माल्यैः सुरभिभिर्धूपैर्नीराजनैरपि ॥

अर्चयित्वा द्विजश्रेष्ठान्नमश्चक्रे समाहिता

॥३५॥

हिरण्मयेषु पात्रेषु पायसं घृतसंयुतम् ॥

शर्करामधुसंयुक्तं शाकैर्जुष्टं मनोरमैः

॥३६॥

गंधशाल्योदनैर्हृद्यैर्मोदकापूपराशिभिः ॥

शष्क्रुलीभिश्च संयावैः कृसरैर्माषपक्वकैः

॥३७॥

तथान्यैरप्यसंख्यातैर्भक्ष्यैर्भोज्यैर्मनोरमैः ॥

सुगन्धैः स्वादुभिः सूपैः पानीयैरपि शीतलैः

॥३८॥

क्लृप्तमन्नं द्विजा -ग्र्येभ्यः सा भक्त्या पर्यवेषयत् ॥

दध्योदनं निरुपमं निवेद्य समतोषयत्

॥३९॥

भुक्तवत्सु द्विजाग्र्येषु स्वाचांतेषु नृपांगना ॥

प्रणम्य दत्त्वा तांबूलं दक्षिणां च यथार्हतः

॥४०॥

धेनूर्हिरण्यवासांसि रत्नस्रग्भूषणानि च ॥

दत्त्वा भूयो नमस्कृत्य विससर्ज द्विजोत्तमान्

॥४१॥

तयोर्द्वयोर्भूसुरवर्यपुत्रयोरेकस्त्तया हैमवतीधियार्चितः ॥

एको महादेवधियाभिपूजितः कृतप्रणामौ ययतुस्तदाज्ञया

॥४२॥

सा तु विस्मृतपुंभावा तस्मिन्नेव द्विजोत्तमे ॥

जातस्पृहा मदोत्सिक्ता कन्दर्पविवशाब्रवीत्

॥४३॥

अंयि नाथ विशालाक्ष सर्वावयवसुन्दर ॥

तिष्ठतिष्ठ क्व वा यासि मां न पश्यसि ते प्रियाम्

॥४४॥

इदमग्रे वनं रम्यं सुपुष्पितमहाद्रुमम् ॥

अस्मिन्विहर्तुमिच्छामि त्वया सह यथासुखम्

॥४५॥

इत्थं तयोक्तमाकर्ण्य पुरोऽगच्छद्द्विजात्मजः ॥

विचिंत्य परिहासोक्तिं गच्छति स्म यथा पुरा

॥४६॥

पुनरप्याह सा बाला तिष्ठतिष्ठ क्व यास्यसि ॥

दुरुत्सहस्मरावेशां परिभोक्तुमुपेत्य माम्

॥४७॥

परिष्वजस्व मां कांतां पाययस्व तवाधरम् ॥

नाहं गंतुं समर्थास्मि स्मरबाणप्रपीडिता

॥४८॥

इत्थमश्रुतपूर्वां तां निशम्य परिशंकितः ॥

आयांतीं पृष्ठतो वीक्ष्य सहसा विस्मयं गतः

॥४९॥

कैषा पद्मपलाशाक्षी पीनोन्नतपयोधरा ॥

कृशोदरी बृहच्छ्रोणी नवपल्लवकोमला

॥५०॥

स एव मे सखा किन्नु जात एव वरांगना ॥

पृच्छाम्येनमतः सर्वमिति संचिन्त्य सोऽब्रवीत्

॥५१॥

किमपूर्व इवाभाषि सखे रूपगुणादिभिः ॥

अपूर्वं भाषसे वाक्यं कामिनीव समाकुला

॥५२॥

यस्त्वं वेदपुराणज्ञो ब्रह्मचारी जितेंद्रियः ॥

सारस्वतात्मजः शांतः कथमेवं प्रभाषसे

॥५३॥

इत्युक्ता सा पुनः प्राह नाहमस्मि पुमान्प्रभो ॥

नाम्ना सामवती बाला तवास्मि रतिदायिनी

॥५४॥

यदि ते संशयः कांत ममांगानि विलोकय ॥

इत्युक्तः सहसा मार्गे रहस्येनां व्यलोकयत्

॥५५॥

तामकृत्रिमधम्मिल्लां जवनस्तनशोभिनीम् ॥

सुरूपां वीक्ष्य कामेन किंचिद्व्याकुलतामगात्

॥५६॥

पुनः संस्तभ्य यत्नेन चेतसो विकृतिं बुधः ॥

मुहूर्तं विस्मयाविष्टो न किंचित्प्रत्यभाषत

॥५७॥

सामवत्युवाच

गतस्ते संशयः कश्चित्तर्ह्यागच्छ भजस्व माम् ॥

पश्येदं विपिनं कांत परस्त्रीसुरतोचितम्

॥५८॥

सुमेधा उवाच

मैवं कथय मर्यादां मा हिंसीर्मदमत्तवत् ॥

आवां विज्ञातशास्त्रार्थौ त्वमेवं भाषसे कथम्

॥५९॥

अधीतस्य च शास्त्रस्य विवेकस्य कुलस्य च ॥

किमेष सदृशो धर्मो जारधर्मनिषेवणम्

॥६०॥

न त्वं स्त्री पुरुषो विद्वाञ्जानीह्यात्मानमात्मना ॥

अयं स्वयंकृतोऽनर्थ आवाभ्यां यद्विचेष्टितम्

॥६१॥

वंचयित्वात्मपितरौ धूर्त्तराजानुशासनात् ॥

कृत्वा चानुचितं कर्म तस्यैतद्भुज्यते फलम्

॥६२॥

सर्वं त्वनुचितं कर्म नृणां श्रेयोविनाशनम् ॥

यस्त्वं विप्रात्मजो विद्वान्गतः स्त्रीत्वं विगर्हितम्

॥६३॥

मार्गं त्यक्त्वा गतोऽरण्यं नरो विध्येत कण्टकैः ॥

बलार्द्धिस्येत वा हिंस्रैर्यदा त्यक्तसमा गमः

॥६४॥

एवं विवेकमाश्रित्य तूष्णीमेहि स्वयं गृहम् ॥

देवद्विजप्रसादेन स्त्रीत्वं तव विलीयते

॥६५॥

अथवा दैवयोगेन स्त्रीत्वमेव भवेत्तव ॥

पित्रा दत्ता मया साकं रंस्यसे वरवर्णिनि

॥६६॥

अहो चित्रमहो दुःखमहो पापबलं महत् ॥

अहो राज्ञः प्रभावोयं शिवाराधनसंभृतः

॥६७॥

इत्युक्ताप्यसकृत्तेन सा वधूरतिविह्वला ॥

बलेन तं समालिंग्य चुचुंबाधरपल्लवम्

॥६८॥

धर्षितोपि तया धीरः सुमेधा नूतनस्त्रियम् ॥

यत्नादानीय सदनं कृत्स्नं तत्र न्यवेदयत्

॥६९॥

तदाकर्ण्याथ तौ विप्रौ कुपितौ शोकविह्वलौ ॥

ताभ्यां सह कुमाराभ्यां वैदर्भांतिकमीयतुः

॥७०॥

ततः सारस्वतः प्राह राजानं धूर्तचेष्टितम् ॥

राजन्ममात्मजं पश्य तव शासनयंत्रितम्

॥७१॥

एतौ तवाज्ञावशगौ चक्रतुः कर्म गर्हितम् ॥

मत्पुत्रस्तत्फलं भुंक्ते स्त्रीत्वं प्राप्य जुगुप्सितम्

॥७२॥

अद्य मे संततिर्नष्टा निराशाः पितरो मम ॥

नापुत्रस्य हि लोकोस्ति लुप्तपिंडादिसंस्कृतेः

॥७३॥

शिखोपवीतमजिनं मौजीं दंडं कमंडलुम् ॥

ब्रह्मचर्योचितं चिह्नं विहायेमां दशां गतः

॥७४॥

ब्रह्मसूत्रं च सावित्रीं स्नानं संध्यां जपार्चनम् ॥

विसृज्य स्त्रीत्वमाप्तोस्य का गतिर्वद पार्थिव

॥७५॥

त्वया मे संततिर्नष्टा नष्टो वेदपथश्च मे ॥

एकात्मजस्य मे राजन्का गतिर्वद शाश्वती

॥७६॥

इति सारस्वतेनोक्तं वाक्यमाकर्ण्य भूपतिः ॥

सीमंतिन्याः प्रभावेण विस्मयं परमं गतः

॥७७॥

अथ सर्वान्समाहूय महर्षीनमितद्युतीन् ॥

प्रसाद्य प्रार्थयामास तस्य पुंस्त्वं महीपतिः

॥७८॥

तेऽबुवन्नथ पार्वत्याः शिवस्य च समीहितम् ॥

तद्भक्तानां च माहात्म्यं कोन्यथा कर्तुमीश्वरः

॥७९॥

अथ राजा भरद्वाजमादाय मुनिपुंगवम् ॥

ताभ्यां सह द्विजाग्र्याभ्यां तत्सुताभ्यां समन्वितः

॥८०॥

अंबिकाभवनं प्राप्य भरद्वाजोपदेशतः ॥

तां देवीं नियमैस्तीव्रैरुपास्ते स्म महानिशि

॥८१॥

एवं त्रिरात्रं सुविसृष्टभोजनः स पार्वतीध्यान रतो महीपतिः ॥

सम्यक्प्रणामैर्विविधैश्च संस्तवैर्गौरीं प्रपन्नार्तिहरामतोषयत्

॥८२॥

ततः प्रसन्ना सा देवी भक्तस्य पृथिवीपतेः ॥

स्वरूपं दर्शयामास चंद्रकोटिसमप्रभम्

॥८३॥

अथाह गौरी राजानं किं ते ब्रूहि समीहितम् ॥

सोऽप्याह पुंस्त्वमेतस्य कृपया दीयतामिति

॥८४॥

भूयोप्याह महादेवी मद्भक्तैः कर्म यत्कृतम् ॥

शक्यते नान्यथा कर्तुं वर्षायुतशतैरपि

॥८५॥

राजोवाच

एकात्मजो हि विप्रोयं कर्मणा नष्टसंततिः ॥

कथं सुखं प्रपद्येत विना पुत्रेण तादृशः

॥८६॥

देव्युवाच

तस्यान्यो मत्प्रसादेन भविष्यति सुतोत्तमः ॥

विद्या विनयसंपन्नो दीर्घायुरमलाशयः

॥८७॥

एषा सामवती नाम सुता तस्य द्विजन्मनः ॥

भूत्वा सुमेधसः पत्नी कामभोगेन युज्यताम्

॥८८॥

इत्युक्त्वांतर्हिता देवी ते च राजपुरोगमाः ॥

गताः स्वंस्वं गृहं सर्वे चक्रुस्तच्छासने स्थितिम्

॥८९॥

सोपि सारस्वतो विप्रः पुत्रं पूर्वसुतो त्तमम् ॥

लेभे देव्याः प्रसादेन ह्यचिरादेव कालतः

॥९०॥

तां च सामवतीं कन्यां ददौ तस्मै सुमेधसे ॥

तौ दंपती चिरं कालं बुभुजाते परं सुखम्

॥९१॥

सूत उवाच

इत्येष शिवभक्तायाः सीमंतिन्या नृपस्त्रियाः ॥

प्रभावः कथितः शंभोर्माहात्म्यमपि वर्णितम्

॥९२॥

भूयोपि शिवभक्तानां प्रभावं विस्मयावहम् ॥

समासाद्वर्णयिष्यामि श्रोतॄणां मंगलायनम्

॥९३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे सीमंतिन्याः प्रभाववर्णनं नाम नवमोऽध्यायः ॥ ९ ॥