चतुर्दशीमाहात्म्यवर्णनम्
सूत उवाच
भूयोपि शिवमाहात्म्यं वक्ष्यामि परमाद्भुतम् ॥
शृण्वतां सर्वपापघ्नं भवपाशविमोचनम्
॥१॥दुस्तरे दुरितांभोधौ मज्जतां विषयात्मनाम् ॥
शिवपूजां विना कश्चित्प्लवो नास्ति निरूपितः
॥२॥शिवपूजां सदा कुर्याद्बुद्धिमानिह मानवः ॥
अशक्तश्चेत्कृता पूजां पश्येद्भक्तिविनम्रधीः
॥३॥अश्रद्धयापि यः कुर्याच्छिवपूजां विमुक्तिदाम् ॥
पश्येद्वा सोपि कालेन प्रयाति परमं पदम्
॥४॥आसीत्किरातदेशेषु नाम्ना राजा विमर्दनः ॥
शूरः परमदुर्द्धर्षो जितशत्रुः प्रतापवान्
॥५॥सर्वदा मृगयासक्तः कृपणो निर्घृणो बली ॥
सर्वमांसाशनः क्रूरः सर्ववर्णांगनावृतः
॥६॥तथापि कुरुते शंभोः पूजां नित्यमतंद्रितः ॥
चतुर्दश्यां विशेषेण पक्षयोः शुक्लकृष्णयोः
॥७॥महाविभवसंपन्नां पूजां कृत्वा स मोदते ॥
हर्षेण महताविष्टो नृत्यति स्तौति गायति
॥८॥तस्यैवं वर्तमानस्य नृपतेः सर्वभक्षिणः ॥
दुराचारस्य महिषी चेष्टितेनान्वतप्यत
॥९॥सा वै कुमुद्वतीनाम राज्ञी शीलगुणान्विता ॥
एकदा पतिमासाद्य रहस्ये तदपृच्छत
॥१०॥एतत्ते चरितं राजन्महदाश्चर्यकारणम् ॥
क्व ते महादुराचारः क्व भक्तिः परमेश्वरे
॥११॥सर्वदा सर्वभक्षस्त्वं सर्वस्त्रीजनलालसः ॥
सर्वहिंसापरः क्रूरः कथं भक्तिस्तवेश्वरे
॥१२॥इति पृष्टः स भूपालो विमृश्य सुचिरं ततः ॥
त्रिकालज्ञः प्रहस्यैनां प्रोवाच सुकुतूहलः
॥१३॥राजोवाच
अहं पूर्वभवे कश्चित्सारमेयो वरानने ॥
पंपानगरमाश्रित्य पर्यटामि समंततः
॥१४॥एवं कालेषु गच्छत्सु तत्रैव नगरोत्तमे ॥
कदाचिदागतः सोहं मनोज्ञं शिवमंदिरम्
॥१५॥पूजायां वर्तमानायां चतुर्दश्यां महातिथौ ॥
अपश्यमुत्सवं दूराद्बहिर्द्वारं समाश्रितः
॥१६॥अथाहं परमक्रुद्धैर्दंडहस्तैः प्रधावितः ॥
तस्माद्देशादपक्रांतः प्राणरक्षापरायणः
॥१७॥ततः प्रदक्षिणीकृत्य मनोज्ञं शिवमंदिरम् ॥
द्वारदेशं पुनः प्राप्य पुनश्चैव निवारितः
॥१८॥पुनः प्रदक्षिणीकृत्य तदेव शिवमन्दिरम् ॥
बलिपिंडादिलोभेन पुनर्द्वारमुपागतः
॥१९॥एवं पुनःपुनस्तत्र कृत्वा कृत्वा प्रदक्षिणाम् ॥
द्वारदेशे समासीनं निजघ्नुर्निशितैः शरैः
॥२०॥स विद्धगात्रः सहसा शिवद्वारि गतासुकः ॥
जातोऽस्म्यहं कुले राज्ञां प्रभावाच्छिवसन्निधेः
॥२१॥दृष्ट्वा चतुर्दशीपूजां दीपमाला विलोकिताः ॥
तेन पुण्येन महता त्रिकालज्ञोऽस्मि भामिनि
॥२२॥प्राग्जन्मवासनाभिश्च सर्वभक्षोऽस्मि निर्घृणः ॥
विदुषामपि दुर्लंघ्या प्रकृतिर्वासनामयी
॥२३॥अतोऽहमर्चयामीशं चतुर्दश्यां जगद्गुरुम् ॥
त्वमपि श्रद्धया भद्रे भज देवं पिनाकिनम्
॥२४॥राज्ञ्युवाच
त्रिकालज्ञोऽसि राजेन्द्र प्रसादाद्गिरिजापतेः ॥
मत्पूर्वजन्मचरितं वक्तुमर्हसि तत्त्वतः
॥२५॥राजोवाच
त्वं तु पूर्वभवे काचित्कपोती व्योमचारिणी ॥
क्वापि लब्धवती किंचिन्मां सपिंडं यदृच्छया
॥२६॥त्वद्गृहीतमथालोक्य गृध्रः कोप्यामिषं बली ।
निरामिषः स्वयं वेगाभिदुद्राव भीषणः
॥२७॥ततस्तं वीक्ष्य वित्रस्ता विद्रुतासि वरानने ॥
तेनानुयाता घोरेण मांसपिंडजिघृक्षया
॥२८॥दिष्ट्या श्रीगिरिमासाद्य श्रांता तत्र शिवालयम् ॥
प्रदक्षिणं परिक्रम्य ध्वजाग्रे समुपस्थिता
॥२९॥अथानुसृत्य सहसा तीक्ष्णतुंडो विहंगमः ॥
त्वां निहत्य निपात्याधो मांसमादाय जग्मिवान्
॥३०॥प्रदक्षिणप्रक्रमणाद्देवदेवस्य शूलिनः ॥
तस्याग्रे मरणाच्चैव जातासीह नृपांगना
॥३१॥राज्ञ्युवाच
श्रुतं सर्वमशेषेण प्राग्जन्मचरेितं मया ॥
जातं च महदाश्चर्यं भक्तिश्च मम चेतसि ॥
अथान्यच्छ्रोतुमिच्छामि त्रिकालज्ञ महामते ॥
इदं शरीरमुत्सृज्य यास्यावः कां गतिं पुनः ।
|
॥३२॥राजोवाच
अतो भवे जनिष्येऽहं द्वितीये सैंधवो नृपः
॥३३॥सृंजयेशसुता त्वं हि मामेव प्रतिपत्स्यसे ॥
तृतीये तु भवे राजा सौराष्ट्रे भविताऽस्म्यहम्
॥३४॥कलिंगराजतनया त्वं मे पत्नी भविष्यसि ॥
चतुर्थे तु भविष्यामि भवे गांधारभूमिपः
॥३५॥मागधी राजतनया तत्र त्वं मम गेहिनी ॥
पंचमेऽवंतिनाथोऽहं भविष्यामि भवांतरे
॥३६॥दाशार्हराजतनया त्वमेव मम वल्लभा ॥
अस्माज् जन्मनि षष्ठेऽहमानर्ते भविता नृपः
॥३७॥ययातिवंशजा कन्या भूत्वा मामेव यास्यसि ॥
पांड्यराजकुमारोऽहँ सप्तमे भविता भवे
॥३८॥तत्र मत्सदृशो नान्यो रूपौदार्यगुणादिभिः ॥
सर्वशास्त्रार्थतत्त्वज्ञो बलवान्दृढविक्रमः
॥३९॥सर्वलक्षणसंपन्नः सर्वलोकमनोरमः ॥
पद्मवर्ण इति ख्यातः पद्ममित्रसमद्युतिः
॥४०॥भविता त्वं च वैदर्भी रूपेणाप्रतिमा भुवि ॥
नाम्ना वसुमती ख्याता रूपावयवशोभिनी
॥४१॥सर्व राजकुमाराणां मनोनयननंदिनी ॥
सा त्वं स्वयंवरे सर्वान्विहाय नृपनंदनान्
॥४२॥वरं प्राप्स्यसि मामेव दमयंतीव नैषधम् ॥
सोऽहं जित्वा नृपान्सर्वान्प्राप्य त्वां वरवर्णिनीम्
॥४३॥स्वराष्ट्रस्थोऽखिलान्भोगान्भोक्ष्ये वर्षगणान्बहून् ॥
इष्ट्वा च विविधैर्यज्ञैर्वाजिमेधादिभिः शुभैः
॥४४॥संतर्प्य पितृदेवर्षीन्दानैश्च द्विजसत्तमान् ॥
संपूज्य देवदेवेशं शंकरं लोकशंकरम्
॥४५॥पुत्रे राज्यधुरं न्यस्य गंतास्मि तपसे वनम् ॥
तत्रागस्त्यान्मुनिवराद्ब्रह्मज्ञानमवाप्य च
॥४६॥त्वया सह गमिष्यामि शिवस्य परमं पदम् ।
चतुर्दश्यां चतुर्दश्यामेवं संपूज्य शंकरम्
॥४७॥सप्तजन्मसु राजस्त्वं भविष्यति वरानने ॥
इत्येतत्सुकृतं लब्धं पूज़ादर्शनमात्रतः ॥
क्व सारमेयो दुष्टात्मा क्वेदृशी बत सङ्गतिः
॥४८॥सूत उवाच
इत्युक्तो निजनाथेन सा राज्ञी शुभलक्षणा
॥४९॥परं विस्मयमापन्ना पूजयामास तं मुदा ॥
सोऽपि राजा तया सार्द्धं भुक्त्वा भोगान्यथेप्सितान्
॥५०॥जगाम सप्तजन्मांते शंभोस्तत्परमं पदम् ॥
य एतच्छिवपूजाया माहात्म्यं परमाद्भुतम् ॥
शृणुयात्कीर्तयेद्वापि स गच्छेत्परमं पदम्
॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे चतुर्दशीमाहात्म्यवर्णनं नाम चतुर्थो ऽध्यायः ॥ ४ ॥