मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — ब्रह्मोत्तरखण्डः, अध्याय १७

3
ब्रह्मखण्डः · ब्रह्मोत्तरखण्डः · 17

भस्ममाहात्म्यवर्णनम्

ऋषय ऊचुः

वेदवेदांगतत्त्वज्ञैर्गुरुभिर्ब्रह्मवादिभिः ॥

नृणां कृतोपदेशानां सद्यः सिद्धिर्हि जायते

॥१॥

अथान्यजनसामान्यैर्गुरुभिर्नीतिकोविदैः ॥

नृणां कृतोपदेशानां सिद्धिर्भवति कीदृशी

॥२॥

सूत उवाच

श्रद्धैव सर्वधर्मस्य चातीव हितकारिणी ॥

श्रद्धयैव नृणां सिद्धिर्जायते लोकयोर्द्वयोः

॥३॥

श्रद्धया भजतः पुंसः शिलापि फलदायिनी ॥

मूर्खोऽपि पूजितो भक्त्या गुरुर्भवति सिद्धिदः

॥४॥

श्रद्धया पठितो मन्त्रस्त्वबद्धोपि फलप्रदः ॥

श्रद्धया पूजितो देवो नीचस्यापि फलप्रदः ॥

अश्रद्धया कृता पूजा दानं यज्ञस्तपो व्रतम् ॥

सर्वं निष्फलतां याति पुष्पं वन्ध्यत रोरिव

॥६॥

सर्वत्र संशयाविष्टः श्रद्धाहीनोऽतिचंचलः ॥

परमार्थात्परिभ्रष्टः संसृतेर्न हि मुच्यते

॥७॥

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥

यादृशी भावना यत्र सिद्धिर्भवति तादृशी

॥८॥

अतो भावमयं विश्वं पुण्यं पापं च भावतः ॥

ते उभे भावहीनस्य न भवेतां कदाचन

॥९॥

अत्रेदं परमाश्चर्यमाख्यानमनुवर्ण्यते ॥

अश्रद्धा सर्वमर्त्यानां येन सद्यो निवर्तते

॥१०॥

आसीत्पांचालराजस्य सिंहकेतुरिति श्रुतः ॥

पुत्रः सर्वगुणोपेतः क्षात्रधर्मरतः सदा

॥११॥

स एकदा कतिपयैर्भृत्यैर्युक्तो महाबलः ॥

जगाम मृगयाहेतोर्बहु सत्त्वान्वितं वनम्

॥१२॥

तद्भृत्यः शबरः कश्चिद्विचरन्मृगयां वने ॥

ददर्श जीर्णं स्फुटितं पतितं देवतालयम्

॥१३॥

तत्रापश्यद्भिन्नपीठं पतितं स्थंडिलोपरि ॥

शिवलिंङ्गमृजुं सूक्ष्मं मूर्तं भाग्यमिवात्मनः

॥१४॥

स समादाय वेगेन पूर्वकर्मप्रचोदितः ॥

तस्मै संदर्शयामास राज पुत्राय धीमते

॥१५॥

पश्येदं रुचिरं लिंगं मया दृष्टमिह प्रभो ॥

तदेतत्पूजयिष्यामि यथाविभवमादरात्

॥१६॥

अस्य पूजाविधिं ब्रूहि यथा देवो महेश्वरः ॥

अमंत्रज्ञैश्च मन्त्रज्ञैः प्रीतो भवति पूजितः

॥१७॥

इति तेन निषादेन पृष्टः पार्थिवनंदनः ॥

प्रत्युवाच प्रहस्यैनं परिहास विचक्षणः

॥१८॥

संकल्पेन सदा कुर्यादभिषेकं नवांभसा ॥

उपवेश्यासने शुद्धे शुभैर्गंधाक्षतैर्नवैः ॥

वन्यैः पत्रैश्च कुसुमैर्धूपैर्दीपैश्च पूजयेत

॥१९॥

चिताभस्मोपहारं च प्रथमं परिकल्पयेत् ॥

आत्मोपभोग्येनान्नेन नैवद्यं कल्पयेद्बुधः

॥२०॥

पुनश्च धूपदीपादीनुपचारान्प्रकल्पेत् ॥

नृत्यवादित्रगीतादीन्यथावत्परिकल्पयेत्

॥२१॥

नमस्कृत्वा तु विधिवत्प्रसादं धारयेद्बुधः ॥

एष साधारणः प्रोक्तः शिवपूजाविधिस्तव

॥२२॥

चिताभस्मोपहारेण सद्यस्तुष्यति शंकरः

॥२३॥

सूत उवाच

परिहासरसेनेत्थं शासितः स्वामिनाऽमुना ॥

स चंडकाख्यः शबरो मूर्ध्ना जग्राह तद्वचः

॥२४॥

ततः स्वभवनं प्राप्य लिंगमूर्ति महेश्वरम् ॥

प्रत्यहं पूजयामास चिताभस्मोपहारकृत्

॥२५॥

यच्चात्मनः प्रियं वस्तु गन्धपुष्पाक्षतादिकम् ॥

निवेद्य शंभवे नित्यमुपायुंक्त ततः स्वयम्

॥२६॥

एवं महेश्वरं भक्त्या सह पत्न्याभ्यपूजयत् ॥

शबरः सुखमासाद्य निनाय कतिचित्समाः

॥२७॥

एकदा शिवपूजायै प्रवृत्तः शबरोत्तमः ॥

न ददर्श चिताभस्म पात्रे पूरितमण्वपि

॥२८॥

अथासौ त्वरितो दूरमन्विष्यन्परितो भ्रमन् ॥

न लब्धवांश्चिताभस्म श्रांतो गृहमगात्पुनः

॥२९॥

तत आहूय पत्नीं स्वां शबरो वाक्यमब्रवीत् ॥

न लब्धं मे चिताभस्म किं करोमि वद प्रिये

॥३०॥

शिवपूजांतरायो मे जातोद्य बत पाप्मनः ॥

पूजां विना क्षणमपि नाहं जीवितुमुत्सहे

॥३१॥

उपायं नात्र पश्यामि पूजोपकरणे हते ॥

न गुरोश्च विहन्येत शासनं सकलार्थदम्

॥३२॥

इति व्याकुलितं दृष्ट्वा भर्त्तारं शबरांगना ॥

प्रत्यभाषत मा भैस्त्वमुपायं प्रवदामि ते

॥३३॥

इदमेव गृहं दग्ध्वा बहुकालोपबृंहितम् ॥

अहमग्निं प्रवेक्ष्यामि चिताभस्म भवेत्ततः

॥३४॥

शबर उवाच

धर्मार्थकाममोक्षाणां देहः परमसाधनम् ॥

कथं त्यजसि तं देहं सुखार्थं नवयौवनम्

॥३५॥

अधुना त्वनपत्या त्वमभुक्तविषयासवा ॥

भोगयोग्यमिमं देहं कथं दग्धुमिहेच्छसि

॥३६॥

शबर्युवाच

एतावदेव साफल्यं जीवितस्य च जन्मनः ॥

परार्थे यस्त्यजेत्प्राणाञ्छिवार्थे किमुत स्वयम्

॥३७॥

किं नु तप्तं तपो घोरं किं वा दत्तं मया पुरा ॥

किं वार्चनं कृतं शंभोः पूर्वजन्मशतांतरे

॥३८॥

किं वा पुण्यं मम पितुः का वा मातुः कृतार्थता ॥

यच्छिवार्थे समिद्धेऽग्नौ त्यजाम्येतत्कलेवरम्

॥३९॥

इत्थं स्थिरां मतिं दृष्ट्वा तस्या भक्तिं च शंकरे ॥

तथेति दृढसंकल्पः शबरः प्रत्यपूजयत्

॥४०॥

सा भर्त्तारमनुप्राप्य स्नात्वा शुचिरलंकृता ॥

गृहमादीप्य तं वह्निं भक्त्या चक्रे प्रदक्षिणम्

॥४१॥

नमस्कृत्वात्मगुरवे ध्यात्वा हृदि सदाशिवम् ॥

अग्निप्रवेशाभिमुखी कृतांजलिरिदं जगौ

॥४२॥

शबर्युवाच

पुष्पाणि संतु तव देव ममेंद्रियाणि धूपोऽगुरुर्वपुरिदं हृदयं प्रदीपः ॥

प्राणा हवींषि करणानि तवाक्षताश्च पूजाफलं व्रजतु सांप्रतमेष जीवः

॥४३॥

वांछामि नाहमपि सर्वधनाधिपत्यं न स्वर्गभूमिमचलां न पदं विधातुः ॥

भूयो भवामि यदि जन्मनिजन्मनि स्यां त्वत्पादपंकजलसन्मकरंदभृंगी

॥४४॥

जन्मानि संतु मम देव शताधिकानि माया न मे वि शतु चित्तमबोधहेतुः ॥

किंचित्क्षणार्धमपि ते चरणारविन्दान्नापैतु मे हृदयमीश नमोनमस्ते

॥४५॥

इति प्रसाद्य देवेशं शबरी दृढनिश्चया ॥

विवेश ज्वलितं वह्निं भस्मसादभवत्क्षणात्

॥४६॥

शबरोपि च तद्भस्म यत्नेन परिगृह्य सः ॥

चक्रे दग्धगृहोपान्ते शिवपूजां समाहितः

॥४६॥

अथ सस्मार पूजांते प्रसादग्रहणोचिताम् ॥

दयितां नित्यमायांतीं प्रांजलिं विनयान्विताम्

॥४८॥

स्मृतमात्रां तदापश्यदागतां पृष्ठतः स्थिताम् ॥

पूर्वेणावयवेनैव भक्तिनम्रां शुचिस्मिताम्

॥४९॥

तां वीक्ष्य शबरः पत्नीं पूर्ववत्प्रांजलिं स्थिताम् ॥

भस्मावशेषितगृहं यथापूर्वमवस्थितम्

॥५०॥

अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥

राजा दहति दंडेन ब्राह्मणो मनसा दहेत्

॥५१॥

किमयं स्वप्न आहोस्वित्किं वा माया भ्रमात्मिका ॥

इति विस्मयसंभ्रातस्तां भूयः पर्यपृच्छत

॥५२॥

अपि त्वं च कथं प्राप्ता भस्मभूतासि पावके ॥

दग्धं च भवनं भूयः कथं पूर्व वदास्थितम्

॥५३॥

शबर्युवाच

यदा गृहं समुद्दीप्य प्रविष्टाहं हुताशने ॥

तदात्मानं न जानामि न पश्यामि हुताशनम्

॥५४॥

न तापलेशोप्यासीन्मे प्रविष्टाया इवोदकम् ॥

सुषुप्तेव क्षणार्धेन प्रबुद्धास्मि पुनः क्षणात्

॥५५॥

तावद्भवनमद्राक्षमदग्धमिव सुस्थितम् ॥

अधुना देवपूजांते प्रसादं लब्धुमागता

॥५६॥

एवं परस्परं प्रेम्णा दंपत्योर्भाषमाणयोः ॥

प्रादुरासीत्तयोरग्रे विमानं दिव्यमद्भुतम्

॥५७॥

तस्मिन्विमाने शतचन्द्रभास्वरे चत्वार ईशानुचराः पुरःसराः ॥

हस्ते गृहीत्वाथ निषाददंपती आरोपयामासुरमुक्तविग्रहौ

॥५८॥

तयोर्निषाददंपत्योस्तत्क्षणादेव तद्वपुः ॥

शिवदूतकरस्पर्शात्तत्सारूप्यमवाप ह

॥५९॥

तस्माच्छ्रद्धैव सर्वेषु विधेया पुण्यकर्मसु ॥

नीचोपि शबरः प्राप श्रद्धया योगिनां गतिम्

॥६०॥

किं जन्मना सकलवर्णजनोत्तमेन किं विद्यया सकलशास्त्रविचारवत्या ॥

यस्यास्ति चेतसि सदा परमेशभक्तिः कोऽन्यस्ततस्त्रिभुवने पुरुषोस्ति धन्यः

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥