मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय २३

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 23

श्रेष्ठत्वकथनम्

श्रुतदेव उवाच

अथातः संप्रवक्ष्यामि माहात्म्यं पापनाशनम् ॥

अक्षय्यायास्तृतीयायाः सिते पक्षे च माधवे

॥१॥

ये कुर्वंति च तस्यां वै प्रातः स्नानं भगोदये ॥

ते सर्वे पापनिर्मुक्ता यांति विष्णोः परं पदम्

॥२॥

देवान्पितॄन्मुनीन्यस्तु कुर्यादुद्दिश्य तर्पणम् ॥

तेनाऽधीतं च तेनेष्टं तेन श्राद्धशतं कृतम्

॥३॥

मधुसूदनमभ्यर्च्य कथां शृण्वंति ये नराः ॥

अक्षय्यायां तृतीयायां ते नरा मुक्तिभागिनः

॥४॥

ये दानं तत्र कुर्वंति मधुद्विट्प्रीतये शुभम् ॥

तदक्षय्यं फलत्येव मधुशासनशासनात्

॥५॥

देवर्षिपितृदैवत्या तिथिरेषा महाशुभा ॥

त्रयाणां तृप्तिदात्री च कृते धर्मे सनातने

॥६॥

प्रख्यातिश्च तिथेरस्याः केन चास्ति तदप्यहम् ॥

वक्ष्यामि नृपशार्दूल सावधानमनाः शृणु

॥७॥

पुरा पुरंदरस्याऽऽसीद्युद्धं च बलिना सह ॥

देवानां चैव दैत्यानां द्वंद्वं युद्धमभूत्ततः

॥८॥

स निर्जित्य बलिं दैत्यं पातालतलवासिनम् ॥

पुनर्भुवं समासाद्य चोतथ्यस्याऽऽश्रमं ययौ

॥९॥

तत्रापश्यच्च तत्पत्नीं गुर्विणीं मंदगामिनीम् ॥

चलच्छ्रोणितटाबद्ध कांचीदाम्ना सुमंडिताम्

॥१०॥

क्वणत्कंकणनिर्घोष जितमत्तालिकोकिलाम् ॥

वल्गुचित्रांबरां रामां मंजुवाचं शुचिस्मिताम्

॥११॥

लसत्कुंभस्थलाभ्यां च कुचाभ्यामुपशोभिताम् ॥

हसत्पद्ममुखां दिव्यां नीलोत्पलसुलोचनाम्

॥१२॥

केतक्युदरपांडुभ्यां गंडाभ्यां च मनोरमाम् ॥

श्रमोच्छ्वसंतीं दीनाक्षीं पर्णशालामुखे स्थिताम्

॥१३॥

स्वपतीं शयने क्वाऽपि तां दृष्ट्वा मोहमागतः ॥

बलात्कारेण बुभुजे गुर्विणीं पाकशासनः

॥१४॥

गर्भस्थस्तु तदा पिंडः स्वस्य पातविशंकया ॥

छादयामास वै योनिं द्वारे पादेन दुःखितः

॥१५॥

ततश्चस्कन्द वीर्यं तद्भूमावेव बलिद्विषः ॥

गर्भस्थाय चुकोपासौ भगवान्पाकशासनः

॥१६॥

तं शशाप च गर्भस्थं रुषा ताम्रांतलोचनः ॥

जात्यन्धो भव दुर्बुद्धे माऽवमंस्था यतः पदा

॥१७॥

प्रच्छाद्य योनिद्वारं च ततो दीर्घतपाह्वयः ॥

पदा प्रस्कंदिताद्वीर्याज्जालतः समजायत

॥१७॥

पश्चादिंद्रो ययौ शीघ्रमृषेः शाप विशंकितः ॥

पलायंतं हरिं दृष्ट्वा जहसुर्बटवोऽखिलाः

॥१९॥

ततस्तु व्रीडितो भूत्वा ययौ मेरोर्गुहां शुभाम् ॥

तत्र लीनश्चचाराऽसौ दुस्तरं वै तपो महत्

॥२०॥

मेरौ विलीय वसति देवेन्द्रे लज्जयाऽन्विते ॥

गूढैर्विज्ञाय तां वार्तां दैतेया बलिपूर्वकाः

॥२१॥

सुरानाक्रम्य बुभुजुर्बलींद्रश्चामरावतीम् ॥

दिक्पालानां विभूतीश्च शंबराद्या बलीयसः

॥२२॥

बलाद्बुभुजिरे हीननाथे राष्ट्रे दिवौकसाम् ॥

रक्षितारमजानंतो देवाश्चाग्निपुरोगमाः

॥२३॥

पप्रच्छुर्धिषणं देवं देवाचार्यमकल्मषम् ॥

पप्रच्छुरिंद्रवृत्तांतं क्व स्वित्तिष्ठति नः प्रभुः

॥२४॥

दैत्याक्रांतमिदं राष्ट्रं हीननाथं दिवौकसाम् ॥

कुतो नाऽऽयाति देवोऽसौ भूयान्कालो गतो विभो

॥२५॥

तं यामो यत्र धिषण प्रार्थयामश्च तं विभुम् ॥

इति पृष्टस्तदा देवैर्धिषणस्तानुवाच ह

॥२६॥

रसातले बलिं जित्वा चोतथ्यस्याऽऽश्रमं ययौ ॥

भुक्त्वा पत्नीं च दार्ढ्येन तच्छिष्यैरेव निन्दितः

॥२७॥

व्रीडितस्तु दिवं यातुं गुहां मेरोर्विवेश ह ॥

तत्रैवाऽऽस्ते शचीयुक्तः स्वकृतं चिन्तयन्विभुः

॥२८॥

इति तस्य वचः श्रुत्वा देवा अग्निपुरोगमाः ॥

गुहां मेरोर्ययुः शीघ्रं दृष्ट्वा प्रार्थयितुं विभुम्

॥२९॥

तत्र दृष्ट्वा गुहालीनं देवेन्द्रं पाकशासनम् ॥

तुष्टुवुर्विविधैः स्तोत्रैस्तद्वीर्यैर्लोकविश्रुतैः

॥३०॥

इंद्र तुभ्यं नमस्तेऽस्तु सर्वदेवाऽधिपाय ते ॥

वयं दैत्यैरर्दिताश्च त्वया हीना भृशार्दिताः

॥३१॥

स्थानभ्रष्टाश्चरामोंऽग नानादेशेषु दुःखिताः ॥

तस्मादागत्य देवेन्द्र जहि शत्रूनरिंदम

॥३२॥

इति स्तुतस्तदा देवैर्निश्चक्राम गुहामुखात् ॥

लज्जया ऽवनतो भूत्वा पश्यन्भूमिं च चक्षुषा

॥३३॥

न किंचिदपि चोवाच दुःखाद्गद्गदभाषणः ॥

तऽऽज्ञात्वा धिषणः प्राह तं सुरेन्द्रं भयानकम्

॥३४॥

मा शंका ते सुरपते कर्माधीनमिदं जगत् ॥

मानामानौ सुखं दुःखं लाभालाभौ जयाजयौ

॥३५॥

पूर्वकर्मानुरोधेन भवंत्येते न संशयः ॥

जीवः कर्मानुगो दुःखं दिष्टं दैवेन कालतः

॥३६॥

प्राज्ञाः प्रायो न शोचंति न प्रहृष्यंति वै सुखात् ॥

तस्मात्प्रारब्धतः प्राप्तं दुःखं चेदं तव प्रभो

॥३७॥

तत्प्राप्य मघवन्दुःखं नैव शोचितुमर्हसि ॥

इत्युक्तो गुरुणा चाह मघवानमराधिपान्

॥३८॥

इन्द्र उवाच

परस्त्रीसंगदोषेण बलं वीर्यं यशोऽमलम् ॥

मंत्रशक्तिःशास्त्रशक्तिर्विद्याशक्तिश्च मानद

॥३९॥

अभवन्नष्टवीर्यं मे तूष्णीं तेन वसाम्यहम् ॥

पाकशासनवाक्यं तु श्रुत्वा स्वाचार्यसंयुऽताः

॥४०॥

मंत्रयामासुरेकान्ते पुनस्तस्य बलाप्तये ॥

तदा गुरुश्च तान्प्राह करुणं च विदुत्तमः

॥४१॥

बृहस्पतिरुवाच

मासो वैशाखनामाऽयं प्रियो वै मधुघातिनः ॥

सर्वाश्च तिथयः पुण्या मासेऽस्मिन्माधवप्रिये

॥४२॥

तत्राऽपि च सिते पक्षे मासेऽस्मिन्नक्षयाह्वया ॥

या तस्यां स्नानदानादि श्रद्धया च करोति वै

॥४३॥

तस्य पापसहस्राणि नश्यंत्येव न संशयः ॥

अनवद्यं तथैश्वर्यं बलं धैर्यं भवंति च

॥४४॥

तस्मात्तस्यां तृतीयायां हरिणा बलविद्विषा ॥

स्नानदानादिसद्धर्मान्कारयामो हिताऽऽप्तये

॥४५॥

भविष्यति च सा शक्तिर्विद्याया मन्त्रशास्त्रयोः ॥

बलं धैर्यं यशश्चैव यथापूर्वं भविष्यति

॥४६॥

इत्येवं तु विचार्याथ गुरुर्देवैः समाहितः ॥

इन्द्रेण कारयामास धर्मानेतान्हरिप्रियान्

॥४७॥

अक्षय्यायां तृतीयायां भुक्तिमुक्तिफलप्रदान् ॥

तेन पूर्ववदेवाऽऽसीद्बलं धैर्यादिकं विभोः

॥४८॥

परस्त्रीसंगदोषोऽपि सद्य एव व्यलीयत ॥

पश्चाद्धताशुभः शक्रो राहोर्मुक्त इवोडुपः

॥४९॥

देवतानां तथा मध्ये शुशुभे च हरिर्यथा ॥

पश्चाद्देवैः समायुक्तो विनिर्जित्य तथाऽसुरान्

॥५०॥

तृतीयायाश्च माहात्म्याद्भाग्ययुक्तोऽमरावतीम् ॥

विवेश विभवैः सार्द्धं शंखतूर्यादिनिःस्वनैः

॥५१॥

अनुज्ञाताश्च शक्रेण स्वधामानि ययुः सुराः ॥

ततस्ते यज्ञभागांश्च लेभिरे च यथा पुरा

॥५२॥

पिंडभागांश्च पितरो यथापूर्वं प्रपेदिरे ॥

स्वाध्याये मुनयस्तुष्टा दैत्यानां च पराजयः

॥५३॥

तदा प्रभृति लोकेऽस्मिंस्तृतीया चाऽक्षयाऽऽह्वया ॥

प्रख्याता सर्वलोकेषु देवर्षिपितृतुष्टिदा

॥५४॥

तस्मात्पुण्यतमा चैषा सर्वकर्मनिकृंतनी ॥

भुक्तिमुक्तिप्रदा नृणां तृतीया चाऽक्षयाऽऽह्वया

॥५५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादेऽक्षय्यतृतीयायाः श्रेष्ठत्वकथनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥