मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय १५

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 15

दरिद्रनाशवर्णनम्

श्रुतदेव उवाच

भूयः शृणुष्व भूपाल माहात्म्यं पापनाशनम् ॥

वैशाखस्य च मासस्य वल्लभस्य मधुद्विषः

॥१॥

पुरा पांचालदेशे तु राजा पुरुयशोऽभवत् ॥

तनयो भूरियशसः पुण्यशीलस्य धीमतः

॥२॥

पितर्युपरते भूप राज्यस्थो धर्मलालसः ॥

शौर्यौदार्यगुणोपेतो धनुर्विद्याविशारदः

॥३॥

शशास पृथिवीं सर्वां स्वधर्मेण महामतिः ॥

पूर्वजन्मजलादानाद्दोषेण महता वृतः

॥४॥

संपद्धानिमवापाऽसौ कालेन कियताऽनघ ॥

हया गजा मृतिं याता महद्रोगेण पीडिताः

॥५॥

दुर्भिक्षमतुलं चासीन्निर्मानुष्यविधायकम् ॥

राज्यं कोशं तदा चाऽऽसीद्गजभुक्तकपित्थवत्

॥६॥

बलहीनं नृपं ज्ञात्वा कोशराष्ट्रविवर्जितम् ॥

तं जेतुमेष समय इति निश्चितमानसाः

॥७॥

आजग्मुः शतशो भूपा रिपवस्तस्य भूपतेः ॥

जिग्युर्युद्धेन तं भूपं पांचालविषयाधिपम्

॥८॥

पराजितस्ततो राजा विवेश गिरिगह्वरे ॥

शिखिन्या भार्यया साकं धात्र्यादिगणसंयुतः

॥९॥

अज्ञातपद्धतिश्चान्यैर्बहुदुःखसमाकुलः ॥

त्रिपंचाशत्समाश्चैव नीतास्तेन विलीयता

॥१०॥

चिन्तयामास भूपालः किमेतदिति भूरिशः ॥

कर्मणा जन्मशुद्धोऽहं मातृपितृहिते रतः

॥११॥

गुरुभक्तः सदाक्षिण्यो ब्रह्मण्यो धर्मतत्परः ॥

दयावान्सर्वभूतेषु देवभक्तो जितेन्द्रियः

॥१२॥

न भ्राता मे न पुत्रो मे न च मे सुहृदो हिताः ॥

दयापौरुषविख्याताः कुलीनस्याऽपि मे कुतः

॥१३॥

केन वा कर्मणा चाप्तं दारिद्र्यं भूरिदुःखदम् ॥

केन वाऽपजयो मेऽद्य केन वा वनवासिता

॥१४॥

इति चिन्ताकुलो राजा गुरुं सस्मार खिन्नधीः ॥

याजोपयाजकौ नाम सर्वज्ञौ मुनिसत्तमौ

॥१५॥

आजग्मतुर्मुनीद्रौ तौ राज्ञाहूतौ महामती ॥

तौ दृष्ट्वा सहसोत्थाय राजा पांचालवल्लभः

॥१६॥

ननाम शिरसा भक्त्या प्रवासेनाऽतिपीडितः ॥

राजचिह्नविहीनश्च केनाप्यज्ञातपद्धतिः

॥१७॥

तूष्णीं तस्थौ मुहूर्तं हि पतित्वा भुवि पादयोः ॥

दोर्भ्यामुत्थापितस्ताभ्यां परिमृष्टाऽश्रुलोचनः

॥१८॥

विधिवत्पूजयामास वन्यैरेवाऽर्हणैः शुभैः ॥

सूपविष्टौ तु तौ विप्रौ पप्रच्छाऽऽनतकन्धरः ५११ ॥

ब्राह्मणौ वदतं दुःखकारणं च क्षितीशितुः ॥

कर्मणा जन्मशुद्धस्य पितृदेवप्रियस्य च

॥२०॥

पापभीरोः कृपालोश्च गुरुभक्तस्य मे कुतः ॥

दारिद्र्यं कोशहानिश्च रिपुभिश्च पराभवः

॥२१॥

कस्मादरण्यवासश्च कुत एकाकिता मम ॥

न पुत्रो न च मे भ्राता न हिताः सुहृदश्च मे

॥२२॥

दुर्भिक्षं वा कुतश्चासीद्देशे मत्पालितेऽनघे ॥

एतद्विस्तार्य मे ब्रूतं कारणं मुनिपुंगवौ

॥२३॥

इत्युक्तौ तौ मुनिश्रेष्ठौ भूतेनात्यन्तदुःखिना ॥

प्रत्यूचतुर्महात्मानौ किंचिद्ध्यानपरायणौ

॥२४॥

याजोपयाजकावूचतुः

शृणु भूप प्रवक्ष्यावस्तव दुःखस्य कारणम् ॥

पुरा भूप महापापी व्याधस्त्वं दशजन्मसु

॥२५॥

निष्ठुरः सर्वलोकानां सदा हिंसापरायणः ॥

धर्मलेशाकरः क्वापि न दमो न च वै शमः

॥२६॥

न जिह्वा वक्ति नामानि विष्णोर्वापि कथंचन ॥

चेतः स्मरति गोविन्दचरणांबुरुहद्वयम्

॥२७॥

न प्रणामः कृतः क्वापि शिरसा परमात्मने ॥

नवजन्मानि ते भूप गतान्येवं दुरात्मनः

॥२८॥

दशमे जन्मनि प्राप्ते व्याधस्त्वं सह्य भूधरे ॥

निष्ठुरः सर्वलोकानां नराणां त्वं नरांतकः

॥२९॥

दयाहीनः शस्त्रजीवी सदा हिंसापरायणः ॥

निर्गुणः सकलत्रस्त्वं मार्गपीडाकरः शठः

॥३०॥

प्रजानां गौडदेश्यानां राक्षसो मानुषाशनः ॥

एवं चाब्दान्यतीतानि नैजं हितमजानतः

॥३१॥

बालापत्यमृगाणां च पक्षिणां च वधात्तव ॥

दयाहीनस्य दुर्बुद्धेर्जन्मन्यस्मिन्नपुत्रता

॥३२॥

विश्वासघातकत्वेन भ्रातरो नैव सोदराः ॥

मार्गपीडाकरत्वेन सुहृज्जनविवर्जितः

॥३३॥

साधूनां च तिरस्काराच्छत्रुभिस्ते पराजयः ॥

कदाप्यदत्तदोषेण दारिद्यं पतितं गृहे

॥३४॥

सदैवोद्वेगकारित्वात्प्रवासस्ते दुरासदः ॥

सर्वेषामप्रियत्वाच्च दुःखमत्यंतदुःसहम्

॥३५॥

निराहारोप्यतः पूर्वं सदा क्रूरेण कर्मणा ॥

तस्माद्राज्यापहारस्ते जन्मन्यस्मिन्महामते

॥३६॥

अथ ते सत्कुलीनत्वे हेतूंश्चापि ब्रवीम्यहम् ॥

यदाऽभूर्गौडदेशीयो ह्यंतिमे व्याधजन्मनि

॥३७॥

स्वकर्मनिरते क्रूरे विपिने कण्टकाविले ॥

तिष्ठत्येवं दयाहीने सर्वभूतांतके पथि

॥३८॥

वैश्यावाजग्मतुर्दिव्यौ धनाढ्यौ घर्मपीडितौ ॥

मुनिश्च कर्षणोनाम वेदवेदांगपारगः

॥३९॥

जटाचीरधरः पुण्यः कमण्डलुपरिग्रहः ॥

तान्दृष्ट्वा धनुरादाय मार्गं रुद्ध्वा व्यवस्थितः

॥४०॥

अनुद्रुत्य शरी वैश्यौ कृत्वा छिन्नशरीरकौ ॥

तयोरेकं च त्वं हत्वा गृहीत्वाऽखिल तत्पणम्

॥४१॥

अपरं हन्तुमुद्युक्ते स दुद्राव भयाद्द्रुतम् ॥

पणं गुल्मे विनिक्षिप्य भीतः प्राणपरीप्सकः

॥४२॥

कर्षणोऽपि मुनिः शीघ्रं व्याधान्मृतिविशंकया ॥

आतपे धावमानः संस्तृषाघर्मप्रपीडितः

॥४३॥

मूर्च्छामाप गलत्स्वेदः संज्ञामात्रावशेषितः ॥

विहायैनं दुद्रुवे च वैश्यो जीवनतत्परः

॥४४॥

त्वं तावनुद्रुतौ दृष्ट्वा मूर्छितं पथि भूसुरम् ॥

पणं कुत्र विनिक्षिप्तं कियद्दूरं गतो वणिक्

॥४५॥

इति पृष्टं द्विजं श्रांतमुज्जीवयितुमुद्यतः ॥

फूत्कृत्वा कर्णयोस्तस्य नागरं स्मृतिकारणम्

॥४६॥

पल्वलस्थोदकेनैव कृमिकर्दमसंयुजा ॥

नेत्रे संमृज्य श्रांतस्य पर्णैः संवीज्य तन्मुखे

॥४७॥

ससंज्ञं च मुनिं कृत्वा त्वमात्थ स्वस्थमानसः ॥

मा शंका ते मुने कार्या मत्तः शस्त्रभृतो वने

॥४८॥

निष्किंचनः सुखी लोके कुतस्ते भयमुल्बणम् ॥

भिन्नपात्रेण जीर्णेन न मे किंचिद्भविष्यति

॥४९॥

एतावद्वद मे विद्वन्वणिक्कुत्र पलायितः ॥

कुत्र गुल्मे धनं क्षिप्तं तेन शीघ्रं पलायता

॥५०॥

अन्यथा त्वां हनिष्यामि यदि मिथ्या वदिष्यसि ॥

कर्षण उवाच ॥

धनं गुल्मे विनिक्षिप्तं मार्गादस्मात्पलायितः

॥५१॥

इति प्राह भयात्सोपि पृष्टः प्राणपरीप्सया ॥

गच्छ विप्र सुखं मार्गं मत्तो भीतिं विहाय व

॥५२॥

इतो विदूरे सलिलं तडागे वर्तते शुभम् ॥

तत्पीत्वा सलिलं पुण्यं गच्छ ग्रामं गतश्रमः

॥५३॥

अधुनैवागमिष्यंति राजकीयाः पथा जनाः ॥

मत्पदान्वेषणे सक्ताः श्रुत्वा रावं वणिक्पतेः

॥५४॥

तृषार्तमनुगंतुं मे न शक्यं त्वां ततो द्विज ॥

वीजयानेन पर्णेन घर्मः किंचिद्गमिष्यति

॥५५॥

तस्मै दत्त्वा पलाशं च त्वमागा विपिनं पुनः ॥

तेन पुण्यप्रभावेन वैशाखे घर्मघर्घरे

॥५६॥

स्वकार्यार्थं कृतेनापि मुनेस्त्राणाय पद्धतौ ॥

जन्मासीत्ते महापुण्ये राजवंशेऽतिविस्तृते

॥५७॥

यदीच्छसि सुखं राज्यं धनधान्यादिसंपदः ॥

स्वर्गापवर्गौ यदि वा सायुज्यं वा हरेः पदम्

॥५८॥

कुरु वैशाखधर्मांस्त्वं सर्वसौख्यमवाप्स्यसि ॥

मासोऽयं माधवो नाम तृतीया चाक्षयाह्वया

॥५९॥

गां च सकृत्प्रसूताख्यां देहि विप्राय सीदते ॥

तेन ते कोशपूर्तिः स्याच्छय्यां देहि सुखं भवेत्

॥६०॥

कुरु च्छत्रप्रदानं च साम्राज्यं ते भविष्यति ॥

स्नानं कुरु यथान्यायं तथैवार्चय माधवम्

॥६१॥

देहि त्वं प्रतिमां दिव्यां कृत्वा तेन जयो भवेत् ॥

आत्मतुल्यगुणान्पुत्रान्यदि कामयसे नृप

॥६२॥

सर्वभूतहितार्थाय प्रपादानं च त्वं कुरु ॥

वैशाखोक्तानिमान्धर्मान्सम्यगाचर भूमिप

॥६३॥

तेन ते सकला लोका वशं यांति न संशयः ॥

निष्कामकेन चित्तेन यदि धर्मान्करिष्यसि

॥६४॥

वैशाखे पुण्यमासेऽस्मिन्प्रीतये मधुघातिनः ॥

प्रत्यक्षो भविता विष्णुस्तवनिर्मलचेतसः

॥६५॥

येन चाचरिताः पुंसा धर्माह्येते शुभावहाः ॥

तेषां च ह्यक्षया लोकाः पुराणे कवयो विदुः

॥६६॥

एतत्सर्वं तव प्रोक्तं यथादृष्टं यथाश्रुतम् ॥

इति राजानमामंत्र्य ब्राह्मणौ च पुरोधसौ

॥६७॥

याजोपयाजकौनाम जग्मतुस्तौ यथागतौ ॥

ततो राजा महावीर्यः पुरोधोभ्यां च बोधितः

॥६८॥

वैशाखधर्मात्सकलांश्चकार श्रद्धयाऽन्वितः ॥

यथोपदिष्टं च तथा मधुसूदनमर्चयत्

॥६९॥

ततो लब्धप्रभावः सन्बंधुभिः सकलैर्वृतः ॥

पांचालनगरीं प्राप हतशेषबलान्वितः

॥७०॥

ततस्तु शत्रवो भूपा उपश्रुत्य च भूपतेः ॥

प्रवेशं च पुरस्याऽथ पुनराजग्मुरुद्धताः

॥७१॥

तदा पांचालभूपेन नृपाणामभवद्रणम् ॥

जिग्ये सर्वान्महाबाहूनेक एव महारथः

॥७२॥

पलायितेषु भूपेषु नानादेशपथिष्वपि ॥

राज्ञां कोशगजानश्वान्स्वयं जग्राह वीर्यवान्

॥७३॥

अश्वानां निर्बुदं चैव गजानां च त्रिकोटिकम् ॥

रथानामर्बुदं चैव दीर्घग्रीवायुतं तथा

॥७४॥

रासभाणां त्रिलक्षाणि प्रापयामास तां पुरीम् ॥

वैशाखधर्ममाहात्म्यात्क्षणात्सर्वे च भूभृतः

॥७५॥

करदा भग्नसंकल्पाः पादाक्रांता बभूविरे ॥

सुभिक्षमतुलं चासीत्पांचालविषयेषु च

॥७६॥

एकच्छत्रमभूद्राज्यं प्रसादान्मधुघातिनः ॥

पुत्राः पंचाऽपि तस्यासञ्च्छौर्य्यौदार्यगुणान्विताः

॥७७॥

धृष्टकीर्तिर्धृष्टकेतुर्धृष्टद्युम्नस्तथाऽपरे ॥

विजयश्चित्रकेतुश्च मयूरध्वजसन्निभाः

॥७८॥

अनुरक्ताः प्रजाश्चासन्धर्मेण प्रतिपालिताः ॥

वैशाखस्य प्रतापेन प्रत्ययस्तत्क्षणादभूत्

॥७९॥

पुनश्चकार तान्धर्मान्पांचालनगरीश्वरः ॥

अकामुकेन चित्तेन प्रीतये मधुघातिनः

॥८०॥

धर्मेणानेन संतुष्टो भगवान्मधुसूदनः ॥

अक्षयायां तृतीयायां प्रत्यक्षः समजायत

॥८१॥

तं दृष्ट्वा विस्मितो भूत्वा परमात्मानमच्युतम् ॥

नारायणं चतुर्बाहुं शंखचकगदाधरम्

॥८२॥

पीतांबरधरं देवं वनमालाविभूषितम् ॥

सलक्ष्मीकं सानुगं च गरुडोपरि संस्थितम्

॥८३॥

निरीक्ष्य दुःसहं तेजः सद्यो मीलितलोचनः ॥

उत्पतन्संपतन्हर्षान्मत्तोन्मत्त इव भ्रमन्

॥८४॥

पुलकांकितसर्वांगो गलद्वाष्पाकुलेक्षणः ॥

तुष्टाव परया भक्त्या प्रांजलिः प्रणतो भुवि

॥८५॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमास माहात्म्ये नारदाम्बरीषसंवादे पांचालदेशाधिपतेर्जयप्राप्ति दरिद्रनाशवर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥