मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 1

वैशाखस्नानमाहात्म्यवर्णनम्

अथ वैशाखमासमाहात्म्य प्रारंभः ॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

॥१॥

सूत उवाच

भूयोऽप्यंगभुवं राजा ब्रह्मणः परमेष्ठिनः ॥

पुण्यं माधवमाहात्म्यं नारदं पर्यपृच्छत

॥१॥

अंवरीष उवाच

सर्वेषामपि मासानां त्वत्तो माहात्म्यमंजसा ॥

श्रुतं मया पुरा ब्रह्मन्यदा चोक्तं तदा त्वया

॥२॥

वैशाखः प्रवरो मासो मासेष्वेतेषु निश्चितम् ॥

इति तस्माद्विस्तरेण माहात्म्यं माधवस्य च

॥३॥

श्रोतुं कौतूहलं ब्रह्मन्कथं विष्णुप्रियो ह्यसौ ॥

के च विष्णुप्रिया धर्मा मासे माधववल्लभे

॥४॥

तत्राप्यस्य तु कर्तव्याः के धर्मा विष्णुवल्लभाः ॥

किं दानं किं फलं तस्य कमुद्दिश्याऽऽचरेदिमान्

॥५॥

कैर्द्रव्यैः पूजनीयोऽसौ माधवो माधवागमे ॥

एतन्नारद विस्तार्य मह्यं श्रद्धावते वद

॥६॥

श्रीनारद उवाच

मया पृष्टः पुरा ब्रह्मा मासधर्मान्पुरातनान् ॥

व्याजहार पुरा प्रोक्तं यच्छ्रियै परमात्मना

॥७॥

ततो मासा विशिष्योक्ताः कार्तिको माघ एव च ॥

माधवस्तेषु वैशाखं मासानामुत्तमं व्यधात्

॥८॥

मातेव सर्वजीवानां सदैवेष्ट प्रदायकः ॥

दानयज्ञ्रव्रतस्नानैः सर्वपापविनाशनः

॥९॥

धर्म यज्ञक्रियासारस्तपःसारः सुरार्चितः ॥

विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा

॥१०॥

भूरुहाणां सुरतरुर्धेनूनां कामधेनुवत् ॥

शेषवत्सर्वनागानां पक्षिणां गरुडो यथा

॥११॥

देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ॥

प्राणवत्प्रियवस्तूनां भार्येव सुहृदां यथा

॥१२॥

आपगानां यथा गंगा तेजसां तु रविर्यथा ॥

आयुधानां यथा चक्रं धातूनां कांचनं यथा

॥१३॥

वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ॥

मासानां धर्महेतूनां वैशाखश्चोत्तमस्तथा

॥१४॥

नानेन सदृशो लोके विष्णुप्रीतिविधायकः ॥

वैशाखस्नाननिरते मेषे प्रागर्यमोदयात्

॥१५॥

लक्ष्मीसहायो भगवान्प्रीतिं तस्मिन्करोत्यलम् ॥

जंतूनां प्रीणनं यद्वदन्नेनैव हि जायते

॥१६॥

तद्वद्वैशाखस्नानेन विष्णुः प्रीणात्यसंशयम् ॥

वैशाखस्नाननिरताञ्जनान्दृष्ट्वाऽनुमोदते

॥१७॥

तावतापि विमुक्तोऽघैर्विष्णुलोके महीयते ॥

सकृत्स्नात्वा मेषसंस्थे सूर्ये प्रातः कृताह्निकः

॥१८॥

महापापैर्विमुक्तोऽसौ विष्णोः सायुज्यमाप्नुयात् ॥

स्नानार्थं मासि वैशाखे पादमेकं चरेद्यदि

॥१९॥

सोऽश्वमेधायुतानां च फलमाप्नोत्यसंशयम् ॥

अथवा कूटचित्तस्तु कुर्यात्संकल्पमात्रकम्

॥२०॥

सोऽपि क्रतुशतं पुण्यं लभेदेव न संशयः ॥

यो गच्छेद्धनुरायामं स्नातुं मेषगते रवौ

॥२१॥

सर्वबंधविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात् ॥

त्रैलोक्ये यानि तीर्थानि ब्रह्मांडांतर्गतानि च

॥२२॥

तानि सर्वाणि राजेन्द्र संति बाह्येऽल्पके जले ॥

तावल्लिखितपापानि गर्जंति यमशासने

॥२३॥

यावन्न कुरुते जंतुर्वैशाखे स्नानमंभसि ॥

तीर्थादिदेवताः सर्वा वैशाखे मासि भूमिप

॥२४॥

बहिर्जलं समाश्रित्य सदा सन्निहिता नृप ॥

सूर्योदयं समारभ्य यावत्षड्घटिकावधि

॥२५॥

तिष्ठंति चाऽऽज्ञया विष्णोर्नराणां हितकाम्यया ॥

तावन्नागच्छतां पुंसां शापं दत्त्वा सुदारुणम् ॥

स्वस्थानं यांति राजेन्द्र तस्मात्स्नानं समाचरेत्

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे वैशाखमास प्रशंसापूर्वक वैशाखस्नानमाहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥