मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय ५

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 5

वैशाखः सर्वधर्मेभ्यस्तपोधर्मेभ्य एव च

अम्बरीष उवाच

वैशाखः सर्वधर्मेभ्यस्तपोधर्मेभ्य एव च ॥

स कथं सर्वमासेभ्यो दानेभ्योऽप्यधिकोऽभवत्

॥१॥

नारद उवाच

तद्वक्ष्यामि महाप्राज्ञ शृणु चैकमना भव ॥

कल्पांते देवराड्विष्णुः शेषशायी महाप्रभुः

॥२॥

कुक्षिस्थ लोकसङ्घोऽयं स शेते प्रलयार्णवे ॥

अनेको ह्येकतां प्राप्य भूतिभिर्योगमायया

॥३॥

निमेषस्यावसाने तु श्रुतिभिर्बोधितस्ततः ॥

कुक्षिस्थजीवसंघानां रक्षां चक्रे दयानिधिः

॥४॥

तत्तत्कर्मफलप्राप्त्यै सृष्टिं स्रष्टुं मनो दधे ॥

तस्य नाभेरभूत्पद्म सौवर्णं भुवनाश्रयम्

॥५॥

ब्रह्माणं जनयामास वैराजं पुरुषाह्वयम् ॥

तस्मिन्ससर्ज भगवान्भुवनानि चतुर्दश

॥६॥

भिन्नकर्माशयान्प्राणिसङ्घांश्च विविधान्बहून् ॥

त्रिगुणान्प्रकृतिं लोके मर्यादाश्चाधिपांस्तथा

॥७॥

वर्णाश्रमविभागांश्च धर्मक्लृप्तिं च सोऽकरोत् ॥

वेदैश्चतुर्भिस्तत्रैश्च सहितान्स्मृतिभिस्तथा

॥८॥

पुराणैरितिहासैश्च स्वाज्ञारूपैर्महेश्वरः ॥

ऋषीन्प्रवर्तकांश्चक्रे धर्मगुप्त्यै महाप्रभुः

॥९॥

तैः प्रवर्तितधर्मास्तु वर्णाश्रमविभागजाः ॥

प्रजाः श्रद्दधिरे सर्वाः स्वोचितान्विष्णुतोषदान्

॥१०॥

तांस्तु प्रवर्तमानांस्तु स्वाश्रमान्द्रष्टुमीश्वरः ॥

हृदिस्थोऽप्यव्ययः साक्षाद्विभीषार्थं परीक्षया

॥११॥

अनूनान्कुशलान्यत्र धर्मान्कुर्वंति वै प्रजाः ॥

स कालः को भवेद्विद्वानिति सर्चितयत्प्रभुः

॥१२॥

वर्षाकालो मया सृष्टः सीदंत्यस्ता इमाः प्रजाः ॥

तत्रानूनान्न कुर्वंति धर्मान्पंकाद्युपद्रुताः

॥१३॥

तान्दृष्ट्वा कोप एव स्यात्तेषु तुष्टिर्न मे भवेत् ॥

मयेक्षिता न सीदंतु तस्मात्तानवलोकये

॥१४॥

शरद्यपि तथा पूर्तिः कर्षणान्नैव जायते ॥

केचित्पक्वफलासक्ताः केचिद्वृष्टिभिरर्दिताः

॥१५॥

केचिच्छीतार्दिताश्चैव तान्दृष्ट्वा रोष एव मे ॥

वैगुण्यं पश्यतश्चैव न मे तोषोऽभिजायते

॥१६॥

उत्थापनं तु नेच्छंति प्रातर्हेमंत आगते ॥

कोपो मेऽनुत्थितान्दृष्ट्वा प्रातः सूर्योदये सति

॥१७॥

शिशिरेऽपि तथैवार्ताः प्रातःकाल इमाः प्रजाः ॥

तथा पक्वफलादानाशक्ता ह्यनिशमंजसा

॥१८॥

पुनः शीतार्दिताः प्रातःस्नानार्थमिति चिंतिताः ॥

तेषां तु कर्मलोपः स्यान्नैव पूर्तिः कथंचन

॥१९॥

प्रेक्षायाः समयो नाऽयमिति चिंताऽऽकुलो विभुः ॥

वसंत समयं मेने सर्वापत्तिनिवारकम्

॥२०॥

स्नाने दाने तथा यागे क्रियायां भोग एव च ॥

नानाधर्मविधाने च ह्यनुकूलस्त्वयं ह्यृतुः

॥२१॥

अप्रयासेन लभ्यानि द्रव्याण्यसुभृतां धुवम् ॥

येन केनापि द्रव्येण तुष्टिस्तनुभृतां भवेत्

॥२२॥

विष्णोराधारभूतानां तद्द्रव्यं धर्मसाधनम् ॥

वसंते सकलं द्रव्यं प्राणिनां तु सुखावहम्

॥२३॥

दानयोग्यं धर्मयोग्यं भोगयोग्यं तु सर्वशः ॥

निर्धनानां तु पङ्वादि विकलानां महात्मनाम्

॥२४॥

द्रव्याणि च सुलभ्यानि जलादीनि न संशयः ॥

द्रव्यैरेतैः स्वात्महितं धर्मं कुर्वंति मत्प्रियाः

॥२५॥

पत्रैः पुष्पैः फलैरन्यैः शाकैश्चापि प्रियोक्तिभिः ॥

स्रक्तांबूलैश्चन्दनाद्यैः पादप्रक्षालनादिभिः

॥२६॥

प्रश्रयाद्यैरहो तेषां वरदोऽहमितीरयन् ॥

संचिंत्य भगवान्विष्णुः प्रतस्थे रमया सह

॥२७॥

वनानि सर्वतः पश्यन्विकसत्कुसुमानि च ॥

हृष्टपुष्टजनाकीर्णं मत्तालिद्विजसेवितम्

॥२८॥

आश्रमाणां महार्हाणां वनग्रामनिवासिनाम् ॥

प्रांगणादीनि रम्याणि ह्युद्यानानि स्थलानि च

॥२९॥

रमायै दर्शयन्विष्णुः सह देवैर्मुनीश्वरैः ॥

सिद्धचारणगन्धर्वकिन्नरोरगराक्षसैः

॥३०॥

स्तूयमानोऽभ्यगाद्गेहान्वर्णाश्रमनिवासिनाम् ॥

मीनादिकर्कटांतं वै स तिष्ठन्रमया सुरैः

॥३१॥

सार्द्धं प्रतीक्ष्य पुरुषान्कृताकृत सपर्यया ॥

तत्र धर्मवतां पुंसां ददातीष्टान्मनोरथान्

॥३२॥

मत्तान्न सहते पुंसो हरत्यायुर्धनादिकम् ॥

यदि कुर्वंति वैशाखे सपर्या परमात्मनः

॥३३॥

तत्रापि चलमूर्तीनां साधूनां यत्र वै विभुः ॥

मासेवन्येषु यज्जातं कर्मलोपं सहिष्यति

॥३४॥

यथा देशागतं भूपं दृष्ट्वा जानपदाः प्रजाः ॥

यदि तं चोपतिष्ठन्ति प्रश्रयाद्यैर्महार्हणैः

॥३५॥

तदा करादिकं न्यूनं पूर्णं जानाति पार्थिवः ॥

पुनरप्यधिकं चेष्टं तुष्टो दास्यति निश्चितम्

॥३६॥

तदा त्वकृतपूजानां दण्डं तेषां करोति च ॥

तथा विष्णुः स्वकीयानां वैशाखे माधवागमे

॥३७॥

सपर्यां कुर्वतां पुंसां ददातीष्टान्मनोरथान् ॥

अकुर्वतां तथा पुंसां धनादीनि हरत्यलम्

॥३८॥

धर्मगोप्तुर्महाविष्णोर्देवदेवस्य शार्ङ्गिणः ॥

परीक्षाकाल एवाऽयं तस्मान्मासोत्तमो ह्ययम्

॥३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांवरीषसंवादे वैशाखश्रेष्ठत्वनिरूपणं नाम पञ्चमोध्यायः ॥ ५ ॥