ब्रह्मन्निक्ष्वाकुतनयो जलाऽदानाच्च चातकः
मैथिल उवाच
ब्रह्मन्निक्ष्वाकुतनयो जलाऽदानाच्च चातकः ॥
त्रिवारमभवत्पश्चान्मद्गृहे गोधिका तथा
॥१॥कर्मानुगुणमेतद्धि युक्तं तस्याकृतात्मनः ॥
सतामसेवनात्तस्य गृध्रत्वं सारमेयता
॥२॥सप्तवारमिति प्रोक्तं तन्मे भाति च नोचितम् ॥
संतो न दूषितास्तेन न तथा कृपणा अपि
॥३॥तस्मादसेविनस्तस्य फलाऽभावो भवेद्ध्रुवम् ॥
नानर्थकरणाभावादिदं हि परपीडनम्
॥४॥अनिमित्तमिदं कस्मात्कुयोनित्वमवाप्तवान् ॥
तदेतं संशयं छिंधि शिष्यस्याऽऽत्मप्रियस्य च
॥५॥इति राज्ञा सुसंपृष्टः श्रुतदेवो महायशाः ॥
साधुसाध्विति संभाष्य वचो व्याहर्तुमादधे
॥६॥श्रुतदेव उवाच
शृणु राजन्प्रवक्ष्यामि यत्पृष्टं तु त्वयाऽनघ ॥
शिवायै च शिवेनोक्तं कैलासशिखरेऽमले
॥७॥सृष्ट्वेमान्सकलाँल्लोकान्पश्चात्तेषामवस्थितिम् ॥
आमुष्मिकीमैहिकीं च द्विविधां पर्यकल्पयत्
॥८॥हेतुत्रयं च प्रत्येकं हेतुस्थित्यै महाप्रभुः ॥
जलसेवा चान्नसेवा सेवा चैवौषधस्य च
॥९॥यत्र चैते महाभाग ह्यैहिकस्थिति हेतवः ॥
एवमामुष्मिके राजंस्त्रय एवेरिताः श्रुतौ
॥१०॥साधुसेवा विष्णुसेवा सेवा धर्मपथस्य च ॥
पुरा सम्पादिता ह्येते परलोकस्य हेतवः
॥११॥गृहे संपादितं यद्वत्पाथेयं पद्धतौ यथा ॥
ऐहिका हेतवो राजन्सद्यः सं(?)पादितार्थदाः
॥१२॥किं चेष्टमपि साधूनां मनसो यदि दुस्सहम् ॥
कुतश्चित्कारणाद्राजंस्तच्चानर्थाय कल्पते
॥१३॥अप्रियं किमु वक्तव्यं दुःखहेतुरिति स्फुटम् ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
॥१४॥पापघ्नं महदाश्चर्यं शृण्वतां रोमहर्षणम् ॥
यज्ञदीक्षामुपगतः पुरा दक्षः प्रजापतिः
॥१५॥आह्वानार्थं भूतपतेरगमद्रजताचलम् ॥
तं दृष्ट्वा नोत्थितः शंभुस्तस्यैव हितकाम्यया
॥१६॥सर्वामरगुरुश्चाऽहं छन्दोगम्यः सनातनः ॥
भृत्या ह्येते बलिहराश्चन्द्रेन्द्राद्याः सुरेश्वराः
॥१७॥स्वामी भृत्याय नोत्तिष्ठेत्स्वभार्यायै पतिस्तथा ॥
गुरुः शिष्याय नोत्तिष्ठेदिति शास्त्रविदां मतम्
॥१८॥न संबन्धो गुरुत्वे च कारणं त्विति वै श्रुतिः ॥
बलं ज्ञानं तपः शांतिर्यत्र चैवाऽधिकं भवेत्
॥१९॥स गुरुश्चेतरेषां च नीचा ईयुश्च प्रेष्यताम् ॥
उत्तिष्ठन्ति च स्वाम्याद्या भृत्यादीन्यदि चाऽऽग्रहात्
॥२०॥आयुर्वित्तं यशस्तेषां सद्यो नश्यति सन्ततिः ॥
तस्मादहं तु नोत्तिष्ठे प्रियोऽयं श्वशुरो मम
॥२१॥इति तस्य हितान्वेषी नोच्चचालाऽऽसनाद्विभुः ॥
नोत्थितं तु मृडं दृष्ट्वा कुपितोऽभूत्प्रजापतिः
॥२२॥अनिंदद्बहुधा तस्मै पुरतो गिरिजापतेः ॥
अहो दर्पमहो दर्पं दरिद्रस्याऽकृतात्मनः
॥२३॥यस्य वित्तं बहुवया वृषश्चर्मावशेषितः ॥
अत एव कपालास्थिधरः पाखण्डगोचरः
॥२४॥वृथाऽहंकारिणो दैवं कुतो दास्यति मंगलम् ॥
लोके कृत्येन कर्माणि शुचीनीति विदो विदुः
॥२५॥धत्ते दरिद्रः शीतार्तः पवित्रं च गजाजिनम् ॥
वेश्म श्मशानं यस्य स्याद्भुजंगः किल भूषणम्
॥२६॥न धीरताऽपि च ज्ञानं वृकात्तस्मात्पलायिते ॥
भूतप्रेतपिशाचादि दुर्जनैः संगतोऽनिशम्
॥२७॥न कुलं श्रूयते क्वाऽपि नाऽसौ वै साधुस म्मतः ॥
वृथा विश्रंभितः पूर्वं नारदेन दुरात्मना
॥२८॥येनाऽहं बोधितः प्रादां कन्यां चैतां सतीं मम ॥
पृथग्धर्मगता चैषा सुखं वसतु तद्गृहे
॥२९॥नास्माभिः श्लाघनीयोऽसौ मत्सुताऽपि कथंचन ॥
यथा कुलालकलशश्चंडालस्य वशं गतः
॥३०॥इति दक्षो विमूढात्मा ह्युमां नाहूय तं मृडम् ॥
बहुधा तं विनिर्भर्त्स्य तूष्णीमेव गृहं ययौ
॥३१॥यज्ञवाटं ततो गत्वा ऋत्विग्भिर्मुनिभिः सह ॥
ईजे यज्ञविधानेन निंदन्नेव महाप्रभुम्
॥३२॥ब्रह्मविष्णू विहायैव सर्वे देवाः समागताः ॥
सिद्धचारणगन्धर्वा यक्षराक्षसकिन्नराः
॥३३॥तदा देवी सती पुण्या स्त्रीचाञ्चल्यात्प्रलोभिता ॥
उत्सुका चोत्सवं द्रष्टुं बन्धूंस्तत्र समागतान्
॥३४॥निवार्यमाणा रुद्रेण तरला स्त्रीस्वभावतः ॥
प्रत्युक्ताऽपि पुनश्चैव गन्तव्यमिति निश्चिता
॥३५॥स निन्दति सभामध्ये सदा मां वरवर्णिनि ॥
तच्चासह्यं च त्वं श्रुत्वा कायं सत्यं प्रहास्यसि
॥३६॥असह्यमपि सोढव्यं मयाऽपि गृहमिच्छता ॥
मया यथा कृतं देवि तथा त्वं नैव वर्तसे ॥
तस्मान्मा गच्छ शालां वै न शुभं तु भवेद्ध्रुवम् ॥
इत्येवं बोधिता देवी चापल्यं पुनरागमत्
॥३८॥निश्चक्राम सती गेहादेकाकी पादचारिणी ॥
तां दृष्ट्वा वृषभस्तूष्णीं पृष्ठे देवीमुवाह सः
॥३९॥कोटिशो भूतसंघाश्च ह्यनुजग्मुः सतीं तदा ॥
यज्ञवाटं तु सा गत्वा पत्नीशालां ययौ पुरा
॥४०॥तूष्णीमास सतीं दृष्ट्वा खेदात्तस्माद्विनिर्गता ॥
पतिवाक्यं तु संस्मृत्य जगामोत्तरवेदिकाम्
॥४१॥पिता सभ्याश्च तां दृष्ट्वा स्थितास्तूष्णीं हताशिषः ॥
सा रुद्राहुतिपर्यंतं पश्यन्ती पितृचेष्टितम् ॥
त्यक्त्वा रुद्रं च जुह्वंतमुवाचाऽश्रुकुलेक्षणा
॥४२॥देव्युवाच
महदुल्लंघनं पुंसां न प्रायः श्रेयसे भवेत् ॥
लोककर्ता लोकभर्ता सर्वेषां प्रभुरव्ययः
॥४३॥एवंभूतस्य रुद्रस्य कथं नो दीयते हविः ॥
जातां न किं ते दुर्बुद्धिं हरंत्यन्ये समागताः
॥४४॥न चेदृशा महात्मानः किमेषां विमुखो विधिः
॥४५॥इत्येवं भाषमाणां तां पूषा देवो जहास ह ॥
श्मश्रूणां चालनं चक्रे भृगुर्हतशुभस्तथा
॥४६॥भुजपादोरुकक्षा णां स्फालनं चक्रिरे परे ॥
बहुधा निन्दनं चक्रे तत्पिता हतभाग्यवान्
॥४७॥तच्छ्रुत्वा रुद्रभार्या सा कोपाकुलितमानसा ॥
प्रायश्चित्तं श्रुतेः कर्तुं देहं तत्याज सा सती ॥
होमाग्नौ वेदिकामध्ये सर्वेषामेव पश्यताम्
॥४८॥हाहाकारो महानासीद्दुद्रुवुः प्रमथा द्रुतम् ॥
आचख्युर्देवदेवाय वृत्तान्तमखिलं तदा
॥४९॥तच्छ्रुत्वा सहसोत्थाय रुद्रः कालांतकोपमः ॥
जटामुत्पाट्य हस्तेन भूतले तामताडयत्
॥५०॥ततोऽभवन्महाकायो वीरभद्रो महाबलः ॥
सहस्रबाहुरभवत्कालांतकसमप्रभः
॥५१॥बद्धांजलिपुटो भूत्वा व्याजहार हरं तदा ॥
मत्सृष्टिस्तु यदर्थं ते तदर्थं मा नियोजय
॥५२॥इत्युक्तः प्राह तं क्रुद्धो धूर्जटिश्च पुरः स्थितम्
॥५३॥हन त्वं निन्दकं दक्षं यदर्थे मत्प्रिया हता ॥
भूतसंघास्तु गच्छन्तु सहैतेन महाबलाः
॥५४॥इत्यादिष्टा भगवता ययुर्यज्ञसभां तदा ॥
जघ्नुः सर्वान्महावीरान्देवासुरनरादिकान्
॥५५॥पूष्णश्च हसतो दंताञ्जटाभूश्च बभञ्ज ह ॥
श्मश्रूण्युत्पाटयांचक्रे भृगोस्तस्य दुरात्मनः
॥५६॥यद्यदास्फालितं पूर्वं तत्तच्चिच्छेद वीर्यवान् ॥
ततो दक्षशिरो हर्तुं बहूद्योगं चकार ह
॥५७॥मुनिमंत्रप्रगुप्तं तु नैव कृंतति तद्बलात् ॥
हरो ज्ञात्वा तु चिच्छेद स्वयमेत्य दुरात्मनः
॥५८॥एवं मखगतान्हत्वा साऽनुगः स्वालयं ययौ ॥
हतावशिष्टाः केचित्तु ब्रह्माणं शरणं ययुः
॥५९॥तैरन्वितो ययौ ब्रह्मा कैलासं तु शिवालयम् ॥
ततो रुद्रं सान्त्वयित्वा वचोभिर्विविधैरपि
॥६०॥तेनैव सहितः प्रागाद्यज्ञवाटं महाप्रभुः ॥
तेनैवोज्जीवयामास सर्वान्यज्ञसमागतान्
॥६१॥ख्यात्यै प्रादादजमुखं दक्षस्य तु तदा शिवः ॥
अजश्मश्रूण्यदाच्छंभुर्भृगवे तु महात्मने
॥६२॥पूष्णश्च दंतान्न प्रादात्पिष्टादं च चकार ह ॥
तदङ्गानां व्यतिकरं केषांचिदपि वै शिवः
॥६३॥शिवमापुश्च ते सर्वे ब्रह्मणा च शिवेन च ॥
पुनः प्रवर्तितो यज्ञो यथापूर्वं महात्मनः
॥६४॥यज्ञान्ते सर्वदेवाश्च जग्मुस्ते स्वस्वमालयम् ॥
नैष्ठिकं ब्रह्मचर्यं तु कृत्वा रुद्रो महातपाः
॥६५॥तेपे गंगातटे रुद्रः पुन्नागतरुमूलगः ॥
दक्षात्मजा सती देवी त्यक्तदेहा पतिव्रता
॥६६॥जज्ञे हिमाद्रेर्मेनक्यां ववृधे तस्य वेश्मनि ॥
एतस्मिन्नेव काले तु तारकाख्यो महासुरः
॥६७॥स तीव्रतपसाऽऽराध्य ब्रह्माणं परमेष्ठिनम् ॥
अवध्यत्वं वरं वव्रे देवासुरनरोरगैः
॥६८॥आयुधैरस्त्रसंघैश्च सर्वैरेव महाबलैः ॥
रुद्रपुत्रं विना दैत्य ह्यवध्यः सकलैरपि
॥६९॥इति तस्मै वरं प्रादाद्ब्रह्मा लोकपितामहः ॥
अस्त्रीकत्वादपुत्रत्वाद्रुद्रस्येति तथास्त्विति
॥७०॥वरं गृहीत्वा स्वगृहं प्राप्य लोकान्बबाध ह ॥
दासा देवा मार्जनादौ दास्यो देव्यश्च तद्गृहे
॥७१॥ततस्तत्पीडिता देवा ब्रह्माणं शरणं ययुः ॥
तैः पीडां वर्णितां श्रुत्वा वेधाः प्राह सुरानिदम्
॥७२॥वरप्रदानकालेऽहं रुद्रपुत्रं विना सुराः ॥
नख्यैवध्य इति प्रादां वरं तस्मै दुरात्मने
॥७३॥पुरा सती रुद्रपत्नी सत्रे त्यक्तकलेवरा ॥
जाता हिमवतः पुत्री पार्वतीति च यां विदुः
॥७४॥रुद्रो हिमवतः पृष्ठे तपश्चरति दुश्चरम् ॥
योजयध्वं च पार्वत्या रुद्रं लोकेश्वरं प्रभुम्
॥७५॥पुनर्देवेन्द्रसदने संगतैरमरेश्वरैः ॥
धिषणेनाऽपि सम्मंत्र्य देवेंद्रः पाकशासनः
॥७६॥सस्मार च स कार्यार्थं नारदं स्मरमेव च ॥
तत्राऽऽगतौ ततस्तौ तु बलभिद्वाक्यमब्रवीत्
॥७७॥हिमवन्तं भवान्गत्वा वचसा तं निबोधय ॥
पुत्री तव प्राग्दक्षस्य हरपत्नी सुता सती
॥७८॥तपश्चरति ते शृंगे वियुक्ता दशकन्यया ॥
मृडस्तस्य सपर्यायै विनियोजय तत्प्रियाम्
॥७९॥तस्यैव पत्नी भविता स एव भविता पतिः ॥
इत्याऽऽदिष्टो मघोना च नारदोपेत्य तं गिरिम्
॥८०॥तथैव कारयामास देवेन्द्रेणोदितं यथा ॥
पश्चात्कामं समाहूय मघवानिद माह च
॥८१॥देवानां च हितार्थाय तथा मृडहिताय च ॥
वसन्तेन समायुक्तो गत्वा रुद्रतपोवनम्
॥८२॥गुणान्विजृम्भ यित्वा तु वासं तान्हृच्छयावहान् ॥
यदा सन्निहिता देवी पार्वती तु मृडस्य च
॥८३॥तदा प्रयुज्य त्वं वाणान्मोहयस्व महाप्रभुम् ॥
तयोस्तु संगमे जाते कार्यं नोऽद्धा भविष्यति
॥८४॥इत्यादिष्टः स्मरस्तूर्णं प्रतस्थे बाढमित्यथ ॥
सवसंतः सरतिकः सानुगस्तद्वनं ययौ
॥८५॥अकाले तु वसंतर्तुं जृंभयित्वा स्वशक्तितः ॥
तद्वने सर्वतो रम्ये मन्दाऽनिलनिषेविते
॥८६॥कदाचिद्देवदेवोऽपि पार्वत्याश्च सपर्यया ॥
प्रीतः स्वाङ्कं समारोप्य किंचिद्व्याहर्तुमारभत्
॥८७॥प्राणप्रिया सङ्गमस्य कालोऽयमिति निश्चितः ॥
पेशलं धनुरादाय स तस्थौ हरपृष्ठतः
॥८८॥कृत्वा जवनिकां वृक्षं बाणमेकं मुमोच ह ॥
द्वितीयमपि संधाय चक्रे मोक्तुं महोद्यमम्
॥८९॥अथ क्षुब्धमना भूत्वा मृडश्चिंतामवाप ह ॥
न मे मनश्चलेत्क्वापि केन वा कश्मलीकृतम्
॥९०॥इति चिन्ताकुलो वामे पार्श्वे कामं ददर्श ह ॥
क्रुद्धोन्मील्य ललाटाक्षं स्वाङ्काद्देवीमपास्य च
॥९१॥तस्याक्ष्णः समभूदग्निस्तीक्ष्णो लोकविभीषणः ॥
तेन दग्धोऽभवत्सद्यो मन्मथः सशरासनः
॥९२॥कार्यसिद्धिं च पश्यंतो दुद्रुवुश्चामरा दिवम् ॥
शंकमानाः स्वदण्डं च वसन्तो रतिरेव च
॥९३॥निमील्य लोचने भीता देवी दूरं प्रदुद्रुवे ॥
सन्निधानं स्त्रियो हर्तुं मृडोप्यंतरधीयत
॥९४॥रुद्रस्येष्टं प्रकुर्वाणो देवश्च मनसो हितम् ॥
लेभेऽनर्थमनिर्वृत्तं विप्रियं कुर्वतस्तु किम्
॥९५॥तस्मादिक्ष्वाकुतनयः साधूनामप्रियः सदा ॥
तस्मादात्महितां सेवां नाऽकरोन्मन्दधीः सताम्
॥९६॥अनुभूतं महद्दुःखं तस्माद्दुर्योनिरेव च ॥
तस्मात्कुर्यात्तु साधूनां सेवां सर्वार्थसाधिनीम्
॥९७॥रुद्रस्याऽप्रियकारित्वात्स्मरो भाविनि जन्मनि ॥
दुःखं तु बहुलं लेभे जन्मकाले महाप्रभुः
॥९८॥इतिहासमिमं पुण्यं ये शृण्वन्ति दिवानिशम् ॥
जन्ममृत्युजरादिभ्यो मुच्यंतेनाऽत्र संशयः
॥९९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाक्षायण्यपमाने दक्षयज्ञविध्वंसपूर्वकपार्वती जन्मादिकामदहनवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥