दाननिरूपणम्
नारद उवाच
यो मर्त्यो द्विजवर्याय पर्यंकं तु ददाति हि ॥
यत्र स्वस्थः सुखं शेते शीतानिलनिषेवितः
॥१॥धर्मसाधनभूते हि देहे नैरुज्यमाप्नुते ॥
तं दत्त्वा सकलं तापं निरस्य गतकल्मषः
॥२॥अखण्डपदवीं याति योगिनामपि दुर्लभाम् ॥
वैशाखे घर्मतप्तानां श्रान्तानां तु द्विजन्मनाम्
॥३॥दत्त्वा श्रमापहं दिव्यं पर्यंकं मनुजेश्वर ॥
न जातु सीदते लोके जन्ममृत्युजरादिभिः
॥४॥गृहीत्वा ब्राह्मणो यत्र शेते चाजीवमास्थितः ॥
आसीने सकलं पापं ज्ञानतोऽज्ञानतः कृतम्
॥५॥विलयं याति राजेंद्र कर्पूर इव चाग्निना ॥
शयने ब्रह्मनिर्वाणं स नरो याति निश्चितम्
॥६॥यो दद्यात्कशिपुं मासे वैशाखे स्नानवल्लभे ॥
सर्वभोगसमायुक्तस्तस्मिन्नेव हि जन्मनि
॥७॥सान्वयो वर्तते नूनं रोगादिभिरनाहतः ॥
आयुष्यं परमारोग्यं यशो धैर्यं च विंदति
॥८॥नाधार्मिकः कुले तस्य जायते शतपौरुषम् ॥
भुक्त्वा तु सकलान्भोगांस्ततः पञ्चत्वमेष्यति
॥९॥निर्धूताखिलपापस्तु ब्रह्मनिर्वाणमृच्छति ॥
श्रो त्रियाय द्विजेंद्राय यो दद्यादुपबर्हणम्
॥१०॥सुखं निद्रा विना येन न नृणां जायते क्वचित् ॥
सर्वेषामाश्रयो भूत्वा भुवि साम्राज्यमश्नुते
॥११॥पुनः सुखी पुनर्भोगी पुनर्धर्मपरायणः ॥
आसप्तजन्म राजेंद्र जायते सर्वतो जयी
॥१२॥पश्चात्सप्तकुलैर्युक्तो ब्रह्मभूयाय कल्पते ॥
तार्णं कटं तु यो दद्यात्कटमन्यदथापि वा
॥१३॥तत्र शेते स्वयं विष्णुर्यत्रस्थः परमेश्वरः ॥
यथा जलगता चोर्णा न जलैर्भिद्यते क्वचित्
॥१४॥तथा संसारगो जन्तुः संसारे न च बध्यते ॥
आसने शयने सक्तः कटदः सर्वतः सुखी
॥१५॥प्रश्रये शयनार्थाय यो दद्यात्कटकंबलम् ॥
तावन्मात्रेण मुक्तः स्यान्नात्र कार्या विचारणा
॥१६॥निद्रया हीयते दुःखं निद्रया हीयते श्रमः ॥
सा निद्रा कटसंस्थस्य सुखं संजायते धुवम्
॥१७॥यो दयात्कंबलं राजन्वैशाखे माधवाऽऽगमे ॥
अपमृत्योः कालमृत्योर्मुक्तो जीवति वै शतम्
॥१८॥दद्याद्वस्त्रं सूक्ष्मतरं द्विजेंद्रे घर्मकर्शिते ॥
पूर्णमायुः समाप्नोति परत्र च परां गतिम्
॥१९॥अतस्तापहरं दिव्यं कर्पूरं तु द्विजातये ॥
दत्त्वा मोक्षमवाप्नोति दुःखशांतिं च विंदति
॥२०॥कुसुमानि च यो दद्यात्कुकुमं च द्विजातये ॥
सार्वभौमो भवेद्राजा सर्वलोकवशंकरः
॥२१॥पुत्रपौत्रादिभोगांश्च भुक्त्वा मोक्षमवाप्नुयात् ॥
त्वगस्थिगतसंतापं सद्यो हरति चन्दनम्
॥२२॥तापत्रयविनिर्मुक्तस्तद्दत्त्वा मोक्षमाप्नुयात् ॥
औशीरं चाषकं कौशं यो दद्याज्जलवासितम्
॥२३॥सर्वभोगेषु राजेंद्र स तु देवसहायवान् ॥
पापहानिं दुःखहानिं प्राप्य निर्वृतिमाप्नुयात्
॥२४॥गोरोचं मृगनाभिं च दद्याद्वैशाखधर्मवित् ॥
तापत्रयविनिर्मुक्तः परं निर्वाणमृच्छति
॥२५॥तांबूलं च सकर्पूरं यो दद्यान्मेषगे रवौ ॥
सार्वभौमसुखं भुक्त्वा परं निर्वाणमृच्छति
॥२६॥शतपत्रीं च यूथीं च मेषमासे ददन्नरः ॥
स सार्वभौमो भवति पश्चान्मोक्षं च विंदति
॥२७॥केतकीं मल्लिकां वाऽपि यो दद्यान्माधवाऽऽगमे ॥
स तु मोक्षमवाप्नोति मधुशासनशासनात्
॥२८॥पूगीफलं तु यो दद्यात्सुगन्धं तु द्विजातये ॥
नारिकेलफलं राजंस्तस्य पुण्यफलं शृणु
॥२९॥सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥
पश्चात्सप्तकुलैर्युक्तो विष्णुलोकं स गच्छति
॥३०॥विश्राममण्डपं यस्तु कृत्वा दद्याद्द्विजन्मने ॥
तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूपते
॥३१॥सुच्छायामण्डपं यस्तु सिकताऽऽकीर्णमञ्जसा ॥
सप्रपं कारयेद्यस्तु स तु लोकाधिपो भवेत्
॥३२॥मार्गोद्यानं तडागं वा कूपं मण्डपमेव च ॥
यः करोति स धर्मात्मा तस्य पुत्रैस्तु किं फलम्
॥३३॥कूपस्तडागमुद्यानं मण्डपं च प्रपा तथा ॥
सद्धर्मकरणं पुत्रः संतानं सप्तधोच्यते
॥३४॥एतेष्वन्यतमाभावे नोर्ध्वं गच्छंति मानवाः ॥
सच्छास्त्र श्रवणं तीर्थयात्रा सजनसंगतिः
॥३५॥जलदानं चान्नदानमश्वत्थारोपणं तथा ॥
पुत्रश्चेति च संतानं सप्तेमेऽतिविदो विदुः
॥३६॥नासंततिर्लभेल्लोकान्कृत्वा धर्मशतान्यपि ॥
तस्मात्संतानमन्विच्छेत्संतानेष्वेकतो व्रजेत्
॥३७॥पशूनां पक्षिणां चैव मृगाणां चैव भूरुहाम् ॥
नोर्ध्वलोकं सुखं याति मनुष्याणां तु का कथा
॥३८॥पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ॥
कपूरागुरुसंयुक्तं ददत्तांबूलमुत्तमम्
॥३९॥शारीरैः सकलैः पापैर्मुच्यते नात्र संशयः ॥
तांबूलदो यशो धैर्यं श्रियमाप्नोति निश्चितम्
॥४०॥रोगी दत्त्वा विरोगः स्यादरोगी मोक्षमाप्नुयात् ॥
वैशाखे मासि यो दद्यात्तक्रं तापविनाशनम्
॥४१॥विद्यावान्धनवान्भूमौ जायते नात्र संशयः ॥
न तक्रसदृशं दानं घर्मकालेषु विद्यते
॥४२॥तस्मात्तक्रं प्रदातव्यमध्वश्रांतद्विजातये ॥
जंबीरसुरसोपेतं लसल्लवणमिश्रितम्
॥४३॥यस्तक्रमरुचिघ्नं तु दत्त्वा मोक्षमवाप्नुयात् ॥
यो दद्याद्दधिखंडं तु वैशाखे घर्मशांतये
॥४४॥तस्य पुण्यफलं वक्तुं नाहं शक्नोमि भूमिप ॥
यो दद्यात्तंडुलान्दिव्यान्मधुसूदनवल्लभे
॥४५॥स लभेत्पूर्णमायुष्यं सर्वयज्ञफलं लभेत् ॥
यो घृतं तेजसो रूपं गव्यं दद्याद्द्विजातये ॥
सोऽश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे
॥४६॥उर्वारुगुडसंमिश्रं वैशाखे मेषगे रवौ ॥
सर्वपापविनिर्मुक्तः श्वेतद्वीपे वसेद्ध्रुवम्
॥४७॥यश्चेक्षुदंडं सायाह्ने दिवा तापोपशान्तये ॥
ब्राह्मणाय च यो दद्यात्तस्य पुण्यमनंतकम्
॥४८॥वैशाखे पानकं दत्त्वा सायाह्ने श्रमशान्तये ॥
सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्
॥४९॥सफलं पानकं मेषमासे सायं द्विजातये ॥
दद्यात्तेन पितॄणां तु सुधापानं न संशयः
॥५०॥वैशाखे पानकं चूतसुपक्वफलसंयुतम् ॥
तस्य सर्वाणि पापानि विनाशं यांति निश्चितम्
॥५१॥यो दद्याच्चैत्रदर्शे तु कुम्भं पूर्णं तु पानकैः ॥
गयाश्राद्धशतं तेन कृतमेव न संशयः
॥५२॥कस्तूरी कर्पुरोपेतं मल्लिकोशीरसंयुतम् ॥
कलशं पानकैः पूर्णं चैत्रदर्शे तु मानवः ॥
दद्यात्पितॄन्समुद्दिश्य स षण्णवतिदो भवेत्
॥५३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणंनाम तृतीयोऽध्यायः ॥ ३ ॥