मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 7

पिशाचमोक्षप्राप्तिर्

नारद उवाच

राजा तदद्भुतं दृष्ट्वा मैथिलो धर्मवित्तमः ॥

कृताञ्जलिः सुखासीनं विस्मितो वाक्यमब्रवीत्

॥१॥

मैथिल उवाच

दृष्टमेतन्महाश्चर्यं साधूनां चरितं तथा ॥

येन धर्मेण मुक्तोऽभूद्राजा चेक्ष्वाकुनन्दनः

॥२॥

तं धर्मं विस्तरेणैव श्रोतुं कौतूहलं हि मे ॥

मह्यं श्रद्धावते विद्वत्कृपया विस्तराद्वद

॥३॥

इति राज्ञा सुसंपृष्टः श्रुतदेवो महामनाः ॥

साधुसाध्विति संभाष्य व्याजहार नृपोत्तमम्

॥४॥

श्रुतदेव उवाच

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ॥

वासुदेवप्रियान्धर्माञ्छ्रोतुं यस्मान्मतिस्तव

॥५॥

बहुजन्मार्जितं पुण्यं विना कस्यापि देहिनः ॥

वासुदेवकथालापे मतिनैवोपजायते

॥६॥

यूने राजाधिराजाय जातेयं मतिरीदृशी ॥

शुद्धं भागवतं मन्ये तेन त्वां साधुसत्तमम्

॥७॥

तस्मात्तुभ्यं ब्रुवे सौम्य धर्मान्भागवताञ्च्छुभान् ॥

याञ्ज्ञात्वा मुच्यते जंतुर्जन्मसंसारबन्धनात्

॥८॥

यथा शौचं यथा स्नानं यथा सन्ध्या च तर्पणम् ॥

अग्निहोत्रं यथा श्राद्धं तथा वैशाखसत्क्रियाः

॥९॥

वैशाखे माधवे धर्मानकृत्वा नोर्ध्वगो भवेत् ॥

न वैशाखसमो धर्मो धर्मजातेषु विद्यते

॥१०॥

संत्येव बहवो धर्माः प्रजाश्चाराजका इव ॥

उपद्रवैश्च लुप्यंति नात्र कार्या विचारणा

॥११॥

सुलभाः सकला धर्माः कर्तुं वैशाखचोदिताः ॥

उदकुम्भं प्रपादानं पथिच्छायादिनिर्मितिः

॥१२॥

उपानत्पादुकादानं छत्रव्यजनयोस्तथा ॥

तिलयुक्तमधोर्दानं गोरसानां श्रमापहम्

॥१३॥

वापीकूपतडागादिकरणं पथिकाश्रयम् ॥

नारिकेलेक्षुकर्पूरकस्तूरीदानमेव च

॥१४॥

गन्धानुलेपनं शय्या खट्वा दानं तथैव च ॥

तथा चूतफलं रम्यमुर्वारुक रसायनम्

॥१५॥

दानं दमनपुष्पाणां तथा सायं गुडोदकम् ॥

चित्राण्यन्नानि पूर्णायां दध्यन्नं प्रत्यहं तथा

॥१६॥

तांबूलस्य सदा दानं चैत्रदर्शे करीरकम् ॥

रवावनुदिते सूर्ये प्रातः स्नानं दिनेदिने

॥१७॥

मधुसूदनपूजा च कथायाः श्रवणं तथा ॥

अभ्यंगवर्जने चैव तथा वै पत्रभोजनम्

॥१८॥

मध्येमध्ये श्रमार्तानां वीजनं व्यजनेन च ॥

सुगंधैः कोमलैः पुष्पैः प्रत्यहं पूजनं हरेः

॥१९॥

फलं दध्यन्न नैवेद्यं धूपदीपौ दिनेदिने ॥

गोग्रासं वृषपत्नीनां द्विजपादावनेजनम्

॥२०॥

गुडनागरदानं च धात्रीपिष्टप्रदापनम् ॥

पथिकानां प्रश्रयं च दानं तन्दुल शाकयोः ॥

एते धर्माः प्रशस्ता हि वैशाखे माधवप्रिये

॥२१॥

तथा च विष्णौः कुसुमार्पणं हरेः पूजा च कालोचित पल्लवाद्यैः ॥

दध्यन्ननैवेद्यनिवेदनं च समस्तपापौघ विनाशहेतुः

॥२२॥

नारी पुष्पैर्माधवं नार्चयेद्या कालोत्पन्नैर्मन्दिरे वा गृहे वा ॥

पुत्रं सौख्यं क्वाऽपि नाप्नोति हंति चायुर्भर्तुः स्वात्मनो वा महात्मन्

॥२३॥

रमासहाये माधवे मासि विष्णौ परीक्षायै धर्मसेतोः प्रजानाम् ॥

गृहं याते मुनिभिर्दैवतैश्च काले पुष्पैर्नार्चयेद्यस्तु मूढः

॥२४॥

स मूढात्मा रौरवं प्राप्य पश्चाद्यायाद्योनिं राक्षसीं पञ्चवारम् ॥

जलं चान्नं सर्वदा देयमस्मिन्क्षुधार्तानां प्राणिनां प्राणहेतुः

॥२५॥

तिर्यग्जंतुर्जायते वार्यदानादन्नादानाज्जायते वै पिशाचः ॥

अन्नादाने चानुभूतां कथां ते ह्यहं वक्ष्ये चाद्भुतां भूमिपाल

॥२६॥

रेवातीरे मत्पिताऽभूत्पिशाचः स्वमांसाशी क्षुत्तृषाश्रांतगात्रः ॥

छायाहीने शाल्मलीवृक्षमूले ह्यन्नाभावान्नष्टचैतन्य एषः

॥२७॥

क्षुधा तृषा कर्मणा यस्य बह्वी सूक्ष्मं छिद्रं कण्ठनालस्य चाऽसीत् ॥

मांसं चान्तःकण्ठमध्ये निषण्णं कुर्यात्पीडां प्राणपर्यन्तमेव

॥२८॥

जलं दृष्ट्वा कालकूटप्रकल्पं कौप्यं शीतं वाऽपि कासारसंस्थम् ॥

तस्यास्तीरे चागतं दैवयोगाद्गङ्गायात्राकारणान्मार्गमध्ये

॥२९॥

दृष्ट्वाऽद्भुतं शाल्मली वृक्षमूले त्रुटवा त्रुट्वा भक्षयन्तं स्वमांसम् ॥

क्रोशन्तं तं बहुधा शोचमानं क्षुधातृषाव्याधितं कर्मभिः स्वैः

॥३०॥

स मां हन्तुं प्राद्रवत्पापकर्मा मत्तेजसा निहतो दुद्रुवे च ॥

तं चाऽब्रवं कृपया क्लिन्नचित्तो मा भैष्ट त्वं ह्यभयं मे हि दत्तम्

॥३१॥

कस्त्वं तात ब्रूहि सद्योऽत्र हेतुं कृच्छ्रादस्मान्मोचये मा विषीद ॥

इत्युक्तो मां प्राह पुत्रं त्वजानन्पुरानर्ते भूवराख्ये पुरे च

॥३२॥

नाम्ना मैत्रः सांकृतेर्गोत्रजोऽहं तपोविद्यादानयज्ञादिनिष्ठः ॥

मयाऽधीताध्यापिताः सर्वविद्याः कृतो मया सर्वतीर्थाऽवगाहः

॥३३॥

दत्तं नाऽन्नं मासि वैशाखसंज्ञे लोभाद्भिक्षामात्रमप्येव काले ॥

शोचे चाऽहं प्राप्य पैशाचयोनिं नाऽन्यो हेतुः सत्यमेवोक्तमङ्ग

॥३४॥

पुत्रोऽधुना वर्तते मद्गृहे च भूरिख्यातिः श्रुतदेवाऽभिधानः ॥

वाच्या तस्मै मद्दशा चाऽऽत्मजाय वैशाखान्नादानतोऽभूत्पिशाचः

॥३५॥

दृष्टस्तीरे ते पिता नर्मदाया नोर्ध्वं गतो वर्तते वृक्षमूले ॥

खादन्मांसं स्वीयमेवाऽन्वखिद्यत्पितुर्मुक्त्यै मासि वैशाखसंज्ञे

॥३६॥

प्रातः स्नात्वा पूजयित्वा च विष्णुं निर्व्याजान्मां तर्पयित्वा जलैश्च ॥

देयं चाऽन्नं द्विजवर्ये गुणाढ्ये मुक्तो यो वै याति विष्णोः पदं च

॥३७॥

इत्थं चोक्तं त्वत्पुरस्ताद्वदेति दया चैषा मत्कृते नाऽत्र शंका ॥

भद्रं भूयात्सर्वतो मंगलं ते श्रुत्वा चाऽहं भाषितं मे पितुश्च

॥३८॥

दुःखात्कायं दंडवत्पातयित्वा भृशार्तोऽहं पादयोर्भूरिकालम् ॥

निदन्निदन्भूर्यहं बाष्पनेत्रः पुत्रोऽहं ते तात दैवाऽऽगतोऽहम्

॥३९॥

कर्मभ्रष्टो भूसुराणां विनिन्द्यो नाऽभूद्यस्मात्क्लेशमोक्षः पितॄणाम् ॥

आख्याहि त्वं कर्मणा केन मुक्तो भविता वै तत्करोमि द्विजेंद्र

॥४०॥

ततः प्राह प्रीतसर्वान्तरात्मा यात्रां कृत्वा शीघ्रमागत्य गेहम् ॥

प्राप्ते मासे मेषसंस्थे च भानौ निवेद्याऽन्नं विष्णवे त्वं गुणाढ्यम्

॥४१॥

दानं देहि द्विजवर्ये महात्मंस्तस्मान्मोक्षो भविता सान्वयस्य ॥

पित्राऽऽदिष्टः कृतयात्रः स्वगेहे प्राप्याऽकरं माधवे चाऽन्नदानम्

॥४२॥

तस्मान्मुक्तो मत्पिता मां समेत्य यानारूढो ह्यभिनंद्याऽऽशिषा च ॥

गतो लोकं श्रीपतेर्दुर्विभाव्यं यस्मिन्गता न निवर्तंति भूयः

॥४३॥

तस्माद्दानं सर्वशास्त्रेषु चोक्तं तुभ्यं प्रोक्तं धर्मसारं सुधर्म्यम् ॥

किमन्यत्ते श्रोतुमिच्छा वदस्व श्रुत्वा सर्वं ते वदामीति सत्यम्

॥४४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे पिशाचमोक्षप्राप्तिर्नाम सप्तमोऽध्यायः ॥ ७ ॥