यमदुःखसांत्वनम्
ब्रह्मोवाच
किमाश्चर्यं त्वया दृष्टं किमर्थं खिद्यते भवान् ॥
सद्गणेषु कृतस्तापः स तापो मरणांतिकः
॥१॥तस्योच्चारणमात्रेण प्राप्यते परमं पदम् ॥
न गच्छंति हरेर्लोकं कथं भूपस्य शासनात्
॥२॥एकोऽपि गोविन्दकृतः प्रणामः शताश्वमेधावभृथेन तुल्यः ॥
यज्ञस्य कर्त्ता पुनरेति जन्म हरेः प्रणामो न पुनर्भवाय
॥३॥कुरुक्षेत्रेण किं तस्य सरस्वत्या च किं तथा ॥
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्
॥४॥ब्राह्मणः श्वपचीं भुंजन्विशेषेण रजस्वलाम् ॥
यदि विष्णुं स मरणे स्मरेन्नाप्नोति तत्पदम्
॥५॥अभक्ष्यभक्षणाज्जातं विहायाघस्य संचयम् ॥
प्रयाति विष्णुसायुज्यं यतो विष्णुप्रिया स्मृतिः
॥६॥एवं विष्णुप्रियो मासो वैशाखो नाम वै यम ॥
यद्धर्मश्रवणादेव मुच्यते सर्वकिल्बिषैः
॥७॥यातीति किमु वक्तव्यं तस्यानुष्ठानतत्परः ॥
यस्मिन्संगीयते यो हि प्रीयते पुरुषोत्तमः
॥८॥कथं न याति च गतिं तस्याऽनुष्ठानत त्परः ॥
अस्माकं जगतां नाथो जनिता पुरुषोत्तमः
॥९॥तस्येष्टान्माधवे मासि धर्मानेतान्करोत्वयम् ॥
तस्य विष्णुः प्रसन्नात्मा सहाये सर्वदा स्थितः
॥१०॥न तस्य भूपतेः सौरे समर्थस्त्वं च शिक्षणे ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ॥
जन्ममृत्युजराव्याधि भयं नैवोपजायते
॥११॥नियोगी स्वामिकार्येषु यावच्छक्ति समीहते ॥
तावता स कृतार्थः स्यान्नरकान्नैव गच्छति
॥१२॥कार्ये शक्ति विनिष्क्रान्ते स्वामिने च निवेदयेत् ॥
अनृणस्तावता भृत्यो नियोगी सुखमश्नुते
॥१३॥तस्मान्निवेदितार्थस्य न ऋणं न च पातकम् ॥
यत्ने कृते स्वकर्तव्ये नापराधोस्ति देहिनः
॥१४॥तस्मादशक्यकार्येऽस्मिन्न विशोचितुमर्हसि
॥१५॥इत्युक्तो ब्रह्मणा सौरिः पुनरत्यंतखिन्नधीः ॥
उवाच दीनया वाचा गलद्वाष्पाऽऽकुलेक्षणः
॥१६॥प्राप्तं तात मया सर्वं त्वदंघ्रिभजनेन वै ॥
नाऽहं यास्ये पुनः कर्तुं नियोगं पद्मसंभव
॥१७॥प्रशासति महावीर्ये भूपेऽस्मिन्भूमिमण्डले ॥
चालयित्वा स्वधर्मांश्च तमेकं भूपतिं विभो
॥१७॥कृतकृत्योऽस्मि तनयो गयायां पिण्डदो यथा ॥
कृपालो तदिदं कार्यं साधयस्व ममाव्ययम्
॥१९॥विज्वरस्तु ततो भूयः शासनं ते करोम्यहम् ॥
श्रुत्वा ब्रह्मा यमेनोक्तं पुनश्चिंतापरायणः
॥२०॥तमुवाच पुनर्ब्रह्मा सांत्वयन्बहुधाप्यमुम् ॥
ब्रह्मोवाच ॥
न निर्ग्राह्यस्त्वया राजा विष्णुधर्मपरायणः
॥२१॥यदि च्छलयसे कोपाद्गच्छामो ह्यंतिकं हरेः ॥
निवेद्य सकलं तस्मै कर्म पश्चात्तदीरितम्
॥२२॥स एव कर्त्ता लोकस्य धर्मस्य परिपालकः ॥
स च दण्डधरोऽस्माकं शास्ता कर्त्ता नियामकः
॥२३॥न तदुक्तेऽस्ति प्रत्युक्तिरस्माकं विहिता वृष ॥
न राजोक्तेस्तु प्रत्युक्तिर्दृश्यते क्वाऽपि भूतले
॥२४॥इत्याश्वास्य यमं तेन साकं क्षीरांबुधिं ययौ ॥
ब्रह्मा तुष्टाव चिन्मात्रं निर्गुणं परमेश्वरम्
॥२५॥सांख्ययोगैरद्वितीयमेकं तं पुरुषोत्तमम् ॥
आविरासीत्तदा विष्णुर्ब्रह्मणा संस्तुतो हरिः
॥२६॥प्रणामं चक्रतुस्तस्मै यमो ब्रह्मा च सत्वरम् ॥
तावुवाच महाविष्णुर्मेघगंभीरया गिरा
॥२७॥कस्माद्युवामिहाऽऽयातौ किं दुःखं दनुजैरभूत् ॥
म्लानं यममुखं कस्मात्केन वा नतकंधरः
॥२८॥एतद्वदस्व मे ब्रह्मन्नित्युक्तश्चाह कंजजः ॥
त्वद्दासवर्ये भूपाले भूमिं शासति वै नराः
॥२९॥वैशाखधर्मनिरता यांति ते परमव्ययम् ॥
ततो यमपुरी शून्या तेन चाऽतीवदुःखितः
॥३०॥तेन युद्धं चकाराऽसौ हंतुं दंडमथाऽददे ॥
त्वच्चक्रेण पराभूतो ययावद्य ममान्तिकम्
॥३१॥न च शक्तो वयं दंडं त्वद्भक्तानां महात्मनाम् ॥
तस्मात्त्वामेव शरणं वयं प्राप्ता महाविभो
॥३२॥तस्माद्भूपं दंडयित्वा पालयैनं यमं स्वकम् ॥
इत्युक्तः प्रहसन्प्राह ब्रह्माणं यममेव च
॥३३॥लक्ष्मीं वाऽपि परित्यक्ष्ये प्राणान्देहमथाऽपि वा ॥
श्रीवत्सं कौस्तुभं मालां वैजयंतीमथाऽपि वा
॥३४॥श्वेतद्वीपं च वैकुंठं क्षीरसागरमेव च ॥
शेषं च गरुडं चैव न भक्तं त्यक्तुमुत्सहे
॥३५॥विस्सृज्य सकलान्भोगान्मदर्थे त्यक्तजीवितान् ॥
मदात्मकान्महाभागान्कथं तांस्त्यक्तुमुत्सहे
॥३६॥तस्मात्त्वद्दुःखशमने ह्युपायं कल्पयाम्यहम् ॥
तस्य चायुर्मया दत्तमयुतं भूपतेर्भुवि
॥३७॥गतान्यष्टौ सहस्राणि तत्रेदानीं नरांतक ॥
आयुःशेषे तेन नीते मत्सायुज्यं गतेऽपि च
॥३८॥भविष्यति ततो राजा वेनो नाम दुरात्मवान् ॥
स लुंपति महाधर्मान्सर्वानेताञ्छ्रुतीरितान्
॥३९॥तदा वैशाखधर्माश्च विच्छिन्ना स्युर्न संशयः ॥
स्वकृतेनैव पापेन वेनो दग्धो भविष्यति
॥४०॥पश्चादहं पृथुर्भूत्वा पुनर्धर्मान्प्रवर्तये ॥
तदा जनेषु प्रख्यातान्वैशाखोक्तान्करोम्यहम्
॥४१॥मद्भक्तो मद्गतप्राणो यस्तु विन्यस्तसंग्रहः ॥
एकः सहस्रे भविता तस्य प्रख्यापयेद्धि तान्
॥४२॥कश्चिदेव हि जानातु धर्मानेतान्क्षितौ मम ॥
ततस्ते भविता कार्यं मा विषीद नरांतक
॥४३॥दापयिष्यामि ते भागं मासेऽस्मिन्माधवेऽपि च ॥
नरैः सर्वैश्च वैशाखधर्मनिष्ठैर्महात्मभिः
॥४४॥भूपेनाऽपि च कालेन खेदं शमय तेन च ॥
वीर्यशुल्कं तु ते भागं शत्रोर्भुंक्ते बलाधिकात्
॥४५॥गृह्णन्गृह्णन्स्वकं भागं न भागी दुःखमर्हति ॥
त्वामुद्दिश्य न कुर्वंति प्रत्यहं ये नरा भुवि
॥४६॥स्नानं चार्घ्यं सोदकुंभं दध्यन्नं चांतिमे दिने ॥
वैशाखे सकलं कर्म तेषां च विफलं भवेत्
॥४७॥तस्मात्क्रोधं त्यज नृपे भागदे मत्परायणे ॥
ये के चाऽपि च कुर्वंति लोके ते भागदा नराः
॥४८॥वैशाखोक्ते महाधर्मे तेषां विघ्नं च मा कुरु ॥
मामेव ये यजंत्यद्धा त्वां हित्वा धर्मपालकम्
॥४९॥मदाज्ञया महाभाग तदा दंडं च त्वं कुरु ॥
नृपाद्भागं दापयितुं सुनंदं प्रेषयामि च
॥५०॥मच्छासनात्स वै गत्वा भागं ते दापयिष्यति ॥
तिष्ठत्येवं यमे स्वस्य सन्निधौ गरुडासनः
॥५१॥सुनन्दं प्रेषयामास नृपं बोधयितुं विभुः ॥
सोऽपि गत्वा बोधयित्वा पार्श्वं च पुनरागमत्
॥५२॥इत्याश्वास्य यमं विष्णुस्तत्रैवान्तरधीयत ॥
यमं स्वयं सांत्वयित्वा समनुज्ञाप्य वेगतः
॥५३॥अतिविस्मयमापन्नो ययौ धाम सहानुगैः ॥
यमोऽपि स्वपुरीं प्रायात्किंचित्संहृष्टमानसः
॥५४॥पश्चाद्विष्णोर्निदेशेन सुनन्दपरिबोधितः ॥
भागदाः सकला लोका ये वैशाखपरायणाः
॥५५॥धर्मराजं पुरस्कृत्य ये न कुर्वंति मानवाः ॥
तेषां हि स्वयमादत्ते पुण्यं वैशाखसंभवम्
॥५६॥कुर्याच्च प्रत्यहं स्नानं दद्यादर्घ्यं यमाय वै ॥
वैशाखे सकलं पुण्यमन्यथा विफलं भवेत्
॥५७॥सोदकुम्भं च दध्यन्नं पौर्णमास्यां च माधवे ॥
धर्मराजं समुद्दिश्य दातव्यं प्रथमं जनैः
॥५८॥पश्चात्पितॄन्समुद्दिश्य गुरुमुद्दिश्य वै नरः ॥
मधुसूदनमुद्दिश्य पश्चाद्देवं जनार्दनम्
॥५९॥शीतलोदकदध्यन्नं तांबूलं च सदक्षिणम् ॥
सफलं कांस्यपात्रस्थं ब्राह्मणाय निवेदयेत्
॥६०॥दद्याच्च प्रतिमां दिव्यां मधुसूदनदेवताम् ॥
मासधर्मप्रवक्त्रे च दद्याद्विप्राय सीदते
॥६१॥तमेव धर्मवक्तारं पूजयेद्विभवैः स्वकैः ॥
इत्यादिष्टः सुनन्देन तथा राजा चकार ह
॥६२॥स नीत्वा चायुषः शेषं भुक्त्वा भोगान्यथेप्सितान् ॥
पुत्रपौत्रादिभिर्युक्तो जगाम हरिमंदिरम्
॥६३॥वैकुण्ठस्थे नृपे तस्मिन्वेनो राजाऽधमोऽभवत् ॥
सर्वे धर्माश्च वैशाखधर्मा अपि विशेषतः
॥६४॥दुरात्मना च तेनैव लुप्ता एव बभूविरे ॥
न प्रख्याताः पुनर्भूमौ भूरिशो मोक्षहेतवः
॥६५॥यः कश्चिन्नैव जानाति वैशाखोक्तानिमाञ्च्छुभान् ॥
बहुजन्मार्जिते पुण्यपरिपाक उपागते
॥६६॥वैशाखोक्तेषु धर्मेषु मतिरात्यन्तिकी भवेत् ॥
मैथिल उवाच ॥
पूर्वमन्वंतरस्थो हि वेनो राजा दुरात्मवान्
॥६७॥अयं वैवस्वतस्थो हि राजा चेक्ष्वाकुनंदनः ॥
इति श्रुतं मया पूर्वमिदानीं चोच्यते त्वया
॥६८॥अयं वैकुण्ठगः पश्चाद्वेनो राजा भविष्यति ॥
इत्येतं संशयं छिंधि श्रुतदेव महामते
॥६९॥श्रुतदेव उवाच
पुराणेषु च वैषम्यं युगकल्पव्यवस्थया ॥
न चाप्रामाण्यशंका ते कथाया व्यत्यये क्वचित्
॥७०॥गते दैनंदिने कल्पे यथैषा शाश्वती शुभा ॥
मार्कण्डेयेन मे प्रोक्ता सा चोक्ता तव भूपते
॥७१॥तस्मान्न ख्यातिमायान्ति धर्मा वैशाखसंभवाः ॥
कश्चिदेव हि जानाति विरक्तो विष्णुतत्परः
॥७२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांबरीषसंवादे यमदुःखसांत्वनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥