मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय ११

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 11

वैशाखधर्माः सुलभाः पुण्यराशिविधायकाः

मैथिल उवाच

वैशाखधर्माः सुलभाः पुण्यराशिविधायकाः ॥

विष्णुप्रीतिकराः सद्यः पुमर्थानां तु हेतवः

॥१॥

न प्रख्याताः कथं लोके शाश्वताः श्रुतिचोदिताः ॥

प्रख्याता राजसा धर्मास्तामसा अपि भूरिशः

॥२॥

दुर्घटा वहुयत्नाश्च वहुद्रव्यव्ययावहाः ॥

केचिन्माघं प्रशंसन्ति चातुर्मास्यान्परे जगुः

॥३॥

व्यतीपातादिधर्माश्च वर्णयन्तीह भूरिशः ॥

एतद्विवेकं विस्तार्य श्रोतुकामाय मे वद

॥४॥

श्रुतदेव उवाच

शृणु भूप प्रवक्ष्यामि न प्रख्याता इमे कथम् ॥

इतरेषां च धर्माणां कथं ख्यातिश्च भूतले

॥५॥

राजसास्तामसा भूमौ बहवः कामुका जनाः ॥

इच्छंत्यैहिकभोगांस्ते पुत्रपौत्रादिसंपदः

॥६॥

क्वचित्कथंचन क्वाऽपि जनेष्वेकोऽतिकृच्छ्रतः ॥

स्वर्गाय यतते लोके तस्माद्यज्ञादिसत्क्रियाः

॥७॥

कुरुतेऽतिप्रयत्नेन मोक्षं नोपासते नरः ॥

क्षुद्राशा भूरिकर्माणो जनाः काम्यानुपासते

॥८॥

प्रख्याता राजसा धर्मास्तामसा अपि तेन वै ॥

न ख्याताः सात्त्विका धर्मा हरिप्रीतिकरा इमे

॥९॥

निष्कामिका इमे धर्मा ह्यैहिकाऽऽमुष्मिकप्रदाः ॥

न जानन्ति जना मूढा मोहिता देवमायया

॥१०॥

यथाऽऽधिपत्ये संप्राप्ते सर्वसिद्धो मनोरथः ॥

मोहनार्थं स्थलं प्राप्तमाधिपत्येन हीयते

॥११॥

कारणं च प्रवक्ष्यामि गोपने भूतलेंऽजसा ॥

यद्वैशाखोक्तधर्माणां सात्त्विकानां नृणामिह

॥१२॥

सार्वभौमः पुरा काश्यामिक्ष्वाकुकुलभूषणः ॥

कीर्तिमानिति विख्यातो नृगपुत्रो महायशाः ॥

ऽ।

जितेंद्रियो जितक्रोधो ब्रह्मण्यो राजसत्तमः ॥

एकदा मृगयासक्तो वसिष्ठाश्रममाययौ

॥१४॥

गच्छन्मार्गे ददर्शाऽसौ वैशाखे घर्मनिष्ठुरे ॥

भूयोभूयः कार्यमाणाञ्च्छिष्यांस्तस्य महात्मनः

॥१५॥

क्वचित्प्रपां प्रकुर्वन्ति छायामण्डपमेव च ॥

तटप्रपातं निस्तीर्य वापीं कुर्वन्ति निर्मलाम्

॥१६॥

सूपविष्टान्क्वचिद्वृक्षे व्यजनैर्वीजयन्ति च ॥

क्वचिद्दद्युर्हीक्षुदण्डान्क्वचिद्गन्धान्क्वचित्फलम्

॥१७॥

मध्याह्ने छत्रदानं च सायाह्ने पानकस्य च ॥

क्वचिद्यच्छंति ताम्बूलं नेत्रे कर्पूरलेपनम्

॥१८॥

सुच्छाये च वने केचित्सुसंमृष्टांऽगणेषु च ॥

केचिदास्तरयंत्यद्धा वालुकानि हितानि च

॥१९॥

कुर्वन्त्यांदोलिकां राजन्वृक्षशाखावलंबिनीम् ॥

के यूयमिति पप्रच्छ वासिष्ठा इति तेऽब्रुवन्

॥२०॥

किमेतदिति पप्रच्छ धर्मा वैशाखचोदिताः ॥

पुमर्थहेतव इमे क्रियन्तेऽस्माभिरञ्जसा

॥२१॥

वसिष्ठस्याऽऽज्ञया चेति तेऽबुवन्नृपसत्तमम् ॥

एतदाचरणे पुंसां किं फलं कस्तु तुष्यति

॥२२॥

एतद्विस्तार्य मे ब्रूत यूयं सम्यग्यथाश्रुतम् ॥

इति राज्ञा तु संपृष्टाः प्रत्यूचुस्ते महीपतिम्

॥२३॥

गुरोराज्ञाक्रमेणैव कुर्वतां पथिसत्क्रियाः ॥

नास्माकमवकाशोऽत्र गुरुं पृच्छ यथोचितम्

॥२४॥

स वेत्ति तत्त्वतो नूनं धर्मानेतान्महायशाः ॥

इति शिष्यैर्वसिष्ठस्य प्रत्युक्तस्तु द्रुतं ययौ

॥२५॥

वसिष्ठस्याऽश्रमं पुण्यं विद्यायोगोपबृंहितम् ॥

समायान्तं नृपं वीक्ष्य वसिष्ठः प्रीतमानसः

॥२६॥

आतिथ्यं विधिवच्चक्रे सानुगस्य महात्मनः ॥

सूपविष्टः कृताऽतिथ्यः प्रीतः पप्रच्छ तं गुरुम्

॥२७॥

राजोवाच

मार्गे दृष्टं महाश्चर्यं त्वच्छिष्यैश्च कृतं शुभम् ॥

मया पृष्टं च तैर्नोक्तं क्रियमाणं शुभावहम्

॥२८॥

नास्माकमवकाशोऽत्र ह्येतद्धर्मप्रशंसने ॥

कर्तब्या च क्रियाऽस्माभिर्गुरुणा या च चोदिता

॥२९॥

गुरुं गच्छेति तैरुक्त आगतोऽहं तवांतिकम् ॥

मृगयाऽऽसक्तचित्तेन श्रांतेनातिथ्यमिच्छता

॥३०॥

दृष्टं मार्गे त्विदं पुण्यं तव शिष्यैश्च कारितम् ॥

जिज्ञासाऽऽसीत्ततः श्रोतुं धर्मानेतान्मुनीश्वर

॥३१॥

त्वमादिरादिमान्धर्मान्समाचरसि वै यतः ॥

तान्धर्माञ्च्छ्रोतुकामाय शिष्याय प्रणताय च

॥३२॥

श्रद्दधानाय मे ब्रूहि विस्तरान्मुनिपुंगव ॥

इतीक्ष्वाकुकुलीनेन राज्ञा पृष्टो महायशाः

॥३३॥

मनसा तोषमापेदे सम्यक्पृष्टोऽधुनाऽमुना ॥

अहो व्यवसिता बुद्धी राजस्तेऽद्य सुशिक्षिता

॥३४॥

यस्माद्विष्णुकथायां च तद्धर्माचरणेऽपि च ॥

मतिरात्यंतिकी जाता सुकृतं फलितं तव

॥३५॥

इति संभाष्य राजानं जातहर्षस्तमब्रवीत् ॥

शृणु भूप प्रवक्ष्यामि यत्पृष्टोऽहं त्वयाधुना

॥३६॥

यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ॥

सर्वधर्मान्परित्यज्य वर्तते विषयात्मकः

॥३७॥

वैशाखस्नाननिरतः स प्रियो मधुविद्विषः ॥

सांगान्धर्माननुष्ठाय वैशाखो येन नादृतः

॥३८॥

स्नानदानार्चनैः पुण्यैस्तस्य दूरतरो हरिः ॥

अस्नाप्य चाऽप्यदत्त्वा च वैशाखो येन नीयते

॥३९॥

कर्मणा स तु चण्डालो नाऽत्र कार्या विचारणा ॥

वैशाखोक्तैर्महाधर्मैर्येन चाऽऽराधितो हरिः

॥४०॥

तैश्च तोषं समायाति प्रददाति समीहितम् ॥

लक्ष्मीभर्त्ता जगन्नाथो ह्यशेषाघौघनाशनः

॥४१॥

धर्मैः सूक्ष्मैश्च प्रीणाति न प्रयासैर्धनैरपि ॥

भक्त्या संपूजितो विष्णुः प्रददाति समीहितम्

॥४२॥

तस्माद्राजन्सदा भक्तिः कर्तव्या मधुविद्विषः ॥

जलेनाऽपि जगन्नाथः पूजितः क्लेशहा हरिः

॥४३॥

परितोषं व्रजत्याशु तृषार्तः सलिलैर्यथा ॥

महदप्यल्पदं कर्म तथा ह्यल्पं च भूरिदम्

॥४४॥

कर्मणाऽल्पत्वभूरित्वे न हेतू महदल्पके ॥

किन्तु कर्मस्वरूपं च गहना कर्मणो गतिः

॥४५॥

वैशाखोक्ता इमे धर्माः स्वल्पाऽऽयासकृता अपि ॥

बहुव्ययविनाशाश्च विष्णोः प्रीतिकरा शुभाः

॥४६॥

तस्मात्त्वमपि भूपाल वैशाखोक्तान्समाचर ॥

त्वद्राष्ट्रीयैर्जनैः सर्वैः कारयेमाञ्च्छुभावहान्

॥४७॥

न करोति च यो धर्मान्वैशाखोक्तान्नराधमः ॥

बहुधा शिष्यमाणोऽपि स दण्ड्यस्तव भूपते

॥४८॥

इत्यावश्यकतां सम्यक्छास्त्रैर्व्युत्पाद्य तस्य च ॥

पश्चाद्वैशाखनिर्दिष्टान्धर्मान्प्रोवाच सर्वशः

॥४९॥

श्रुत्वा तान्सकलान्धर्मान्गुरुं संपूज्य भक्तितः ॥

स राजा गृहमागत्य सर्वान्धर्मांश्चकार ह

॥५०॥

भक्तिमान्केशवे राजन्देवदेवे निरञ्जने ॥

नाऽन्यं पश्यति देवेशात्पद्मनाभान्महीपतिः

॥५१॥

भेरीमुद्वाह्य मातंगं स्वराष्ट्रेऽघोषयद्भटैः ॥

अष्टवर्षाधिको मर्त्यो ह्यशीतिर्नहि पूर्यते

॥५२॥

प्रातर्न स्नाति मेषस्थे सूर्ये सर्वोऽपि यो जनः ॥

स मे दंड्यश्च वध्यश्च निर्यास्यो विषयाद्ध्रुवम्

॥५३॥

पिता वा यदि वा पुत्रो भार्या वाऽथ सुहृज्जनः ॥

वैशाखधर्महीनश्च निर्ग्राह्यो दस्युवन्मया

॥५४॥

दातव्यं विप्रमुख्येभ्यः स्नात्वा प्रातर्जले शुभे ॥

प्रपादानादिधर्मांश्च कुरुध्वं शक्तितोऽनघाः

॥५५॥

विप्रं च धर्मवक्तारं ग्रामेग्रामे न्यवेशयत् ॥

पञ्चानामपि ग्रामाणामकरोदधिकारिणम्

॥५६॥

दण्डार्थं त्यक्तधर्माणां दशवाजिनिषेवितम् ॥

एवं प्रवृत्तः सर्वत्र सार्वभौमस्य शासनात्

॥५७॥

प्रवृद्धो धर्मवृक्षोयं सर्वदेशेषु विस्तरात् ॥

ये केचिन्निधनं यांति भूपालविषये नराः

॥५८॥

प्रमादाच्च नृपश्रेष्ठ ते यांति हरिमन्दिरम् ॥

अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्रुतम्

॥५९॥

व्याजेनाऽपि सकृत्स्नातः प्रातर्मेषगते रवौ ॥

सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्

॥६०॥

न प्राप्नोति यमं धर्मं सकृद्वैशाखस्नानतः ॥

वैलेख्यमगमद्राजा रविसूनुस्तदा नृप

॥६१॥

लेख्यकर्मणि विश्रान्तश्चित्रगुप्तोऽभवत्तदा ॥

मार्जितानि च लेख्यानि पुरा पापोद्भवानि च

॥६२॥

गच्छद्भिर्वैष्णवं लोकं स्वकर्मस्थैर्जनैः क्षणात् ॥

शून्यास्तु नरकाः सर्वे पापिप्राणिविवर्जिताः

॥६३॥

भग्नयानोऽभवन्मार्गो वैशाखस्य प्रभावतः ॥

सर्वेऽपि विमलाकारा जना यान्ति हरेः पदम्

॥६४॥

दिवौकसां तु ये लोकाः शून्याः सर्वे तथाऽभवन् ॥

शून्ये त्रिविष्टपे जाते शून्येषु नर केषु च

॥६५॥

नारदो धर्मराजानं गत्वा चेदमुवाच ह ॥

नाक्रन्दः श्रूयते राजन्प्राक्च्छ्रुतो नरके यथा

॥६६॥

तथा न क्रियते लेख्यं किंचिद्दुष्कृतकर्मणाम् ॥

चित्रगुप्तो मुनिरिव स्थितोऽयं मौनसंस्थितः

॥६७॥

कारणं ब्रूहि राजेंद्र न यान्ति तव मन्दिरम् ॥

मनुष्याः पापकर्माणो मायादम्भविवर्धिताः

॥६८॥

एवमुक्ते तु वचने नारदेन महात्मना ॥

प्राह वैवस्वतो राजा किंचिद्दैन्यसमन्वितः

॥६९॥

योऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः ॥

सोऽतिभक्तो हृषीकेशे पुराणपुरुषोत्तमे

॥७०॥

प्रबोधयति वैशाखधर्मे भेरीस्वनेन च ॥

अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न हि पूर्यते

॥७१॥

यो वै ह्यकृतवैशाखः स मे दण्ड्यो न संशयः ॥

तद्भयाद्धि जनाः सर्वे नोल्लंघंति कदाचन

॥७२॥

गच्छंति वैष्णवं धाम कर्मणा तेन नारद ॥

वैशाखसेवनाल्लोका यास्यंति हरिमंदिरम्

॥७३॥

तेन राज्ञा मुनिश्रेष्ठ मार्गो लुप्तो ममाऽधुना ॥

कृता हि नरकाः शून्या लोकाश्चापि दिवौकसाम्

॥७४॥

विश्रांतो लेखको लेखे लिखितं मार्जितं जनैः ॥

वैशाखमासधर्मस्य माहात्म्यं त्वीदृशं मुने

॥७५॥

ब्रह्महत्यादिपापानि विमुक्तानि जनैर्द्विज ॥

कृत्वा वैशाखकृत्यानि यांति विष्णोः परं पदम्

॥७६॥

सोऽहं काष्ठसमो जातो न कश्चिन्मम गोचरः ॥

युद्धं कृत्वा तु तं हन्मि सर्वथाऽद्य महाबलम्

॥७७॥

अकृत्वा स्वामिकार्यं तु निर्व्यापारो यदि स्थितः ॥

तस्य वित्तं समश्नाति स याति नरकं धुवम्

॥७८॥

यदि देवादवध्योऽयं तदा ब्रह्माणमेत्य च ॥

निवेद्य तस्मै तत्सर्वं पश्चात्स्वस्थस्थितिर्भवम्

॥७९॥

इत्युक्त्वा द्विजमामंत्र्य सानुगः प्रययौ भुवम् ॥

स कालो महिषारूढो दण्डमुद्यम्य भीषणम्

॥८०॥

मृत्युरोगजराद्यैश्च पार्षदैश्च महोत्कटः ॥

पञ्चाशत्कोटिसंख्याकैर्यमदूतैर्वृतस्ततः

॥८१॥

स तूर्णं तस्य राजर्षे रुरोध सकलां पुरीम् ॥

शंखं दध्मौ महाघोरं सर्वलोकभयंकरम्

॥८२॥

तच्छुत्वा स तु राजर्षि र्ज्ञात्वा वैवस्वतं यमम् ॥

स सज्जीकृतसर्वस्वः पत्तनान्निर्ययौ रुषा

॥८३॥

तयोर्युद्धमभूत्तत्र भीषणं रोमहर्षणम् ॥

मृत्युं कालं तथा रोगं यमं दूतपतिं तथा

॥८४॥

जित्वा क्षणेन राजर्षिर्द्रावयामास रोषतः ॥

ततः क्रुद्धो यमो राजा स्वयमभ्येत्य तं रुषा

॥८५॥

युयोध बहुभिर्बाणैः सिंहनादं चकार ह ॥

चकर्त राजा तस्याऽपि कार्मुकं विशिखैस्त्रिभिः

॥८६॥

पुनश्चर्मासिमादाय यमो हंतुमथाऽऽगमत् ॥

तं दृष्ट्वा तु नृपः क्रुद्धः पुनश्छित्त्वाऽसिचर्मणी

॥८७॥

निचखान ललाटे च शरं कालोरगप्रभम् ॥

यमस्तेनाऽऽहतः क्रुद्धस्ततो दंडमुपाददे ॥

ब्रह्मास्त्रेण च संमंत्र्य दण्डं तस्मै मुमोच ह

॥८८॥

हाहाकारो महानासीज्जनानां पश्यतां तदा ॥

तदा विष्णुः स्वभक्तस्य रक्षायै प्राहिणोदरि

॥८९॥

विष्णुमुक्तं तदा चक्रं शीघ्रमागत्य तद्रणे ॥

यमदण्डेन संयुध्य तद्ब्रह्मास्त्रं निवार्य च

॥९०॥

यमं हंतुमथारेभे सहस्रारं महाद्भुतम् ॥

देवभक्तस्ततो भीतस्तदाऽस्तौच्चक्रमञ्जसा

॥९१॥

सहस्रार नमस्तेऽस्तु विष्णुपाणिविभूषण ॥

त्वं सर्वलोकरक्षायै हरिणा च धृतं पुरा

॥९२॥

त्वां याचेऽद्य यमं त्रातुं विष्णुभक्तं महाबलम्

॥९३॥

नृणां देवद्रुहां कालस्त्वमेव हि न चाऽपरः ॥

तस्मादेनं यमं रक्ष कृपां कुरु जगत्पते

॥९४॥

नृपेणैवं स्तुतं चक्रं यमं हित्वा नृपांतिकम् ॥

पुनर्ययौ महाराज देवानां पश्यतां दिवि

॥९५॥

ततो यमोऽतिनिर्विण्णो ब्रह्मणः सदनं ययौ ॥

स ददर्श समासीनं मूर्तामूर्तजनैर्वृतम्

॥९६॥

धुवाश्रयं जगद्बीजं सर्वलोकपितामहम् ॥

उपास्यमानं विबुधैर्लोकपालैर्दिगीश्वरैः

॥९७॥

इतिहासपुराणाद्यैर्देवैर्विग्रहसंस्थितैः ॥

मूर्तिमद्भिः समुद्रैश्च नदीभिश्च सरोवरैः

॥९८॥

देहवद्भिस्तथा वृक्षैरश्वत्थाद्यैरशेषितैः ॥

वापीकूपतडागैश्च मूर्तिमद्भिश्च पर्वतैः

॥९९॥

अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैस्तथा ॥

कलाकाष्ठा निमेषैश्च ऋतुभिश्चाऽयनैर्युगैः

॥१००॥

संकल्पैश्च विकल्पैश्च निमिषोन्मेषणैस्तथा ॥

ऋक्षैर्योगैश्च करणैः पूर्णिमाभिः सुसंक्षयैः

॥१०१॥

सुखैर्दुःखैर्भयैश्चैव लाभाऽलाभैर्जयाजयैः ॥

सत्त्वेन रजसा चैव तमसा च समन्वितम्

॥१०२॥

शांतमूढाऽतिप्रौढैश्च विकारैः प्राकृतैरपि ॥

वायुना देवदेवेन श्लेष्मपित्तादिभिर्वृतम्

॥१०३॥

तेषां मध्येऽविशत्सौरिः सव्रीडा च वधूर्यथा ॥

विलोकयन्धरापृष्ठं म्लानवक्त्रं व्यदर्शयत्

॥१०४॥

संप्रविष्टं यमं दृष्ट्वा सकाशस्थं सहानुगम् ॥

विस्मितास्ते मिथः प्रोचुः किमर्थं भास्करिस्त्विह

॥१०५॥

संप्राप्तो लोककर्तारं द्रष्टुं देवं पितामहम् ॥

निर्व्यापारः क्षणमपि योऽयं नास्ति रवेः सुतः

॥१०६॥

सोऽयमभ्यागतः कस्मात्कच्चित्क्षेमं दिवौकसाम् ॥

आश्चर्याऽतिशयोऽयं च संमार्जितपटस्त्वयम्

॥१०७॥

लेखकस्तमनुप्राप्तो दैन्येन महताऽन्वितः ॥

न कदाचित्पटो ह्यस्य मार्जितो धर्मभीरुणा

॥१०८॥

यन्न दृष्टं श्रुतं वाऽपि तदिहाऽद्य प्रपद्यते ॥

एवमुच्चरतां तेषां भूतानां भूतशासनः ॥

निष्पपाताऽग्रतो भूमौ ब्रह्मणो रविनंदनः

॥१०९॥

कृत्तमूलो यथा शाखी त्राहित्राहीति वै रुदन् ॥

परिभूतोऽस्मि देवेश संमार्जितपटःकृतः

॥११०॥

त्वयि नाथे न विफलं पश्यामि कमलासन

॥१११॥

एवमुक्त्वा हि निश्चेष्टो बभूव नृपसत्तम ॥

ततः कोलाहलः शब्दः सभायां समजायत

॥११२॥

यो हि खेदयते मर्त्यान्सर्वान्स्थावरजंगमान् ॥

स वै रुदति दुःखार्तः कस्माद्वैवस्वतो यमः

॥१३४॥

जनसंतापकर्त्ता यः सोचिराद्यात्यशोभनम् ॥

नहि दुष्कृतकर्त्ता हि नरः प्राप्नोति शोभनम्

॥११४॥

ततो निवारयामास वायुस्तेषां वचस्तदा ॥

लोकानां समवेतानां मतं ज्ञात्वा स वेधसः

॥११५॥

निवार्य लोकान्मार्तंडि शनैरुत्थापयन्मरुत् ॥

भुजाभ्यां शालपीनाभ्यां लोकसूत्र उदारधीः

॥११६॥

विह्वलं तं परायत्तमासने संन्यवेशयत् ॥

आसनस्थमुवाचेदं व्योमसूनू रवेः सुतम्

॥११७॥

केन त्वमभिभूतोऽसि केन स्थानान्निवारितः ॥

केनाऽयं मार्जितो देव पटो लेखपटस्तव

॥११८॥

ब्रूहि सर्वमशेषेण कुतो हैतोस्त्वमागतः ॥

यः प्रभुस्तात सर्वेषां स ते कर्ता ममाऽपि च ॥

अपि कस्माच्च मार्तंडे दुःखं हृदयसंस्थितम्

॥११९॥

स एवमुक्तः श्वसनेन सत्यमादित्यसूनुर्वचनं बभाषे ॥

विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं चेदमहोऽतिदीनम्

॥१२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे कीर्तिमद्विजयवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥