कुमारोत्पत्तिकथनम्
मैथिल उवाच
तस्य दग्धस्य कामस्य कस्माज्जन्माऽभवद्विभो ॥
किं दुःखमभवत्तस्मिन्कर्मणः सह लंघनात्
॥१॥एतदाचक्ष्व मे ब्रह्मञ्च्छ्रोतु कौतूहलं हि मे ॥
श्रुतदेव उवाच ॥
कुमारजन्म वक्ष्यामि श्रवणात्पापनाशनम्
॥२॥यशस्यं पुत्रदं धर्म्यं सर्वरोगविनाशनम् ॥
शंभुना तु हते कामे तत्पत्नी रतिसंज्ञिका
॥३॥मुमोह पुरतो दृष्ट्वा पतिं भस्मावशेषितम् ॥
जातसंज्ञा मुहूर्तेन विललाप च चित्रधा
॥४॥यद्विलापाद्वनं चापि समदुःखमभूत्तदा ॥
तच्चिताग्नौ स्वकायं तु त्यक्तुकामा च माधवम्
॥५॥पत्युः सखायं सस्मार कर्तुं तात्कालिकीं क्रियाम् ॥
स आगतश्चितिं कर्त्तुं वीरपत्न्या महाप्रभुः
॥६॥स तु त्रस्तः सखीं दृष्ट्वा क्षणं मूर्च्छापरोऽभवत् ॥
रतिं तु सान्त्वयामास सान्त्वैर्बहुविधैरपि
॥७॥पुत्रतुल्योऽस्मि ते भद्रे स्थिते मयि च नाऽर्हसि ॥
कायं त्यक्तुं धर्महेतुमित्याद्यैर्बहुधाऽपि सा
॥८॥नैव स्थातुं मनश्चक्रे तेन संस्तभिता रतिः ॥
दृष्ट्वा दार्ढ्यं वसन्तोऽपि चितिं चक्रे सरित्तटे
॥९॥साऽवगाह्य द्युनद्यां च कृत्वा कार्याणि सर्वशः ॥
सन्नियम्येन्द्रियग्रामं निवेश्यात्मनि वै मनः
॥१०॥चितिमारोढुमारेभे ततो जाताऽशरीरवाक् ॥
मा प्रवेशय कल्याणि वह्निं पतिपरायणा
॥११॥भविष्यति च ते पत्युर्हराद्विष्णोश्च यादवात् ॥
जन्मद्वयं क्रमेणैव तत्र चोत्तरजन्मनि
॥१२॥भैष्म्यां कृष्णान्महाविष्णोः प्रद्युम्नाख्यो भविष्यति ॥
वसिष्यसि त्वं च शापाद्ब्रह्मणः शंबरालये
॥१३॥प्रद्युम्नाख्येन ते पत्या संगतिश्च भविष्यति ॥
इत्युक्त्वा विररामाऽथ वाणी चाऽऽकाशगोचरा
॥१४॥श्रुत्वा तां तु निवृत्ताऽभून्मरणे कृतनिश्चया ॥
ततो देवाः समाजग्मुः स्वार्थे कामे हते हरात्
॥१५॥रत्या कृतं प्रपश्यन्तो गुर्विन्द्राग्निपुरोगमाः ॥
तां ते निवर्तयामासुर्वरेण महता सतीम्
॥१६॥अनंगोऽपि भवेत्साऽङ्गो मृत एवाऽक्षिगो भवेत् ॥
इति तां तु विनिर्वर्त्य धर्मं चोपदिदेशिरे
॥१७॥पूर्वकल्पे त्वयं राजा सुंदराख्यो महाप्रभुः ॥
त्वमेव पत्नी तत्राऽपि रजःसंकरकारिणी
॥१८॥तेनेयञ्च दशाभूत्ते कुर्विदानीं च निष्कृतीम् ॥
मंदाकिन्यां तु वैशाखे प्रातःस्नानं तदा कुरु
॥१९॥मधुसूदनमभ्यर्च्य कथां दिव्यां तथा शृणु ॥
अशून्यशयनं नाम व्रतमारभ भामिनि
॥२०॥धर्मेणाऽनेन ते भद्रे व्रतेनाऽपि च माधवे ॥
नूनं त भविता पत्युरुपलब्धिर्न संशयः
॥२१॥इति तस्यै वरं दत्त्वा देवा जग्मुर्यथाऽऽगताः ॥
तथा कृच्छ्रान्निवृत्ता सा देवी कामसती तथा
॥२२॥गंगाऽवगाहनं चक्रे मेषसंस्थे दिवाकरे ॥
अशून्यशयनं नाम व्रतं चाऽपि महामनाः
॥२३॥तेन पुण्यप्रभावेन सद्यः कामोऽक्षिगोचरः ॥
अभूत्तस्यै महाराज लोके चावार्य वीर्यवान्
॥२४॥पूर्वकल्पेऽप्ययमपि राजा धर्मपरायणः ॥
वैशाखोक्तान्महाधर्मान्नाकरोत्तेन वै स्मरः
॥२५॥देहहानिं प्रपेदेऽसौ पुत्रोऽपि परमात्मनः ॥
वृथा नीते तु वैशाखे मेषसंस्थे दिवाकरे
॥२६॥अवस्थेयं च देवानां मनुष्याणां तु का कथा ॥
त्र्यंबकेंऽतर्हिते पश्चान्निराशा गिरिकन्यका
॥२७॥तूष्णीं स्थितां तदा भ्रांतां तां दृष्ट्वा हिमवान्गिरिः ॥
चकितः स्वगृहं निन्ये दोर्भ्यां तां परिरभ्य च
॥२८॥रूपौदार्यगुणान्दृष्ट्वा हरस्यैव महात्मनः ॥
स एव मे पतिर्भूयादिति तन्निष्ठमानसा
॥२९॥गंगोपकूलमापेदे तपस्तप्तुं धृतव्रता ॥
निवारिताऽपि सा देवी पित्रा मात्रा स्वकैर्जनैः
॥३०॥अर्चयन्ती महालिंगं निराहारा जटाधरा ॥
दिव्यवर्षसहस्रान्ते प्रत्यक्षोऽभून्महेश्वरः
॥३१॥भूत्वा वर्ण्यपि सायाह्ने पर्णशालामुखे विभुः ॥
स्वनिष्ठमनसो दार्ढ्यं वाक्यैर्नानाविधैरपि
॥३२॥ज्ञात्वा वरादरं भद्रे वरयेति महाप्रभुः ॥
सा वव्रेऽथ पतिं रुद्रं त्वं भवेति वरानना
॥३३॥स तथैव वरं दत्त्वा ऋषीन्सस्मार सप्त च ॥
आजग्मुस्तेऽपि मुनयः स्थिताः प्राञ्जलयः पुरः
॥३४॥ऋषीणां ज्ञापयामास कन्यां प्रष्टुं हिमालयम् ॥
तथाऽऽदिष्टा भगवता कन्यार्थं हिमवद्गृहम्
॥३५॥प्रापुर्विहायसा सर्वे द्योतयन्तो दिशो दश ॥
प्रत्युज्जगाम स गिरिः सप्तैतान्ब्रह्मवित्तमान्
॥३६॥संपूज्य विधिवत्सर्वान्सुखासीनानपृच्छत ॥
धन्योऽस्मि कृतकृत्योऽस्मि यद्भवतो गृहाऽऽगताः
॥३७॥भवदागमनं मन्ये मम जन्मफलं त्विति ॥
न कृत्यं विद्यतेऽस्माभिः पूर्णार्थानां महात्मनाम्
॥३८॥तथाऽपि ब्रूत कार्यं वो यत्कर्तव्यं मयाऽधुना ॥
इत्युक्तास्ते तथा प्रोचुर्हिमवंतं महागिरिम्
॥३९॥त्वया स्वसदृशं वाक्यमुक्तं गिरिपते दृढम् ॥
अस्मदागमने हेतुं वक्ष्यामस्ते महोदये
॥४०॥कन्या ते पार्वती नाम पूर्वं दक्षात्मजा सती ॥
जाता तव कुमारी या यज्ञे त्यक्तकलेवरा
॥४१॥अस्याः पाणिग्रहे दक्षः शंभुर्नाऽन्यो जगत्त्रये ॥
देया सा शंभवे देवी भवताऽऽनंत्यमिच्छता
॥४२॥पूर्वजन्मसहस्रेषु भवता सुकृतं कृतम् ॥
इदानीं तव दिष्ट्या तु परिपाकमुपागतम्
॥४३॥तेषां तद्वचनं श्रुत्वा संहृष्टाऽऽत्मा महागिरिः ॥
व्याजहार पुनर्वाक्यं पुत्री वल्कलधारिणी
॥४४॥गंगातीरे निराहारा तपस्तपति दुश्चरम् ॥
काङ्क्षमाणा पतिं शंभुं तस्या इष्टमिदं त्विति
॥४५॥दत्ता कन्या मया तस्मै त्र्यंबकाय महात्मने ॥
शीघ्रं गत्वा भवंतस्तु यत्र शम्भुर्महाप्रभुः
॥४६॥प्रीत्या हिमवता दत्तां गृहाणेति निवेद्य च ॥
भवंत एव कुर्वंतु चैतद्वैवाहिकीं क्रियाम्
॥४७॥इत्युक्तास्ते हिमवता तमामंत्र्य शिवं ययुः ॥
लक्ष्म्याद्या योषितः सर्वा विष्ण्वाद्या देवता अपि
॥४८॥षण्मातरोऽथ मुनयो द्रष्टुं जग्मुर्महोत्सवम् ॥
शिवः सर्वामरगणैर्मुनिभिर्मातृभिस्तथा
॥४९॥अन्वितो वृषभारूढः प्रमथानां गणैर्वृतः ॥
भेरीशंखमृदंगाद्यैः काहलीपटहादिकैः
॥५०॥ब्रह्मघोषैर्बंदिभिश्च प्राविशद्धिमवत्पुरीम् ॥
सुमुहूर्ते शुभे लग्ने शुभग्रहनिरीक्षिते
॥५१॥विवाहमकरोच्छैलः प्रहृष्टेनांतरात्मना ॥
महोत्सवस्तदा चाऽऽसीत्त्रिलोक्यां प्राणिनां नृप
॥५२॥महोत्सवे निवृत्ते तु शंकरो लोकशंकरः ॥
रेमे स्वच्छंदया देव्या लोकधर्माननुव्रतः
॥५३॥ऋद्धिमद्धिमवद्गेहे देवेंद्रभवनोपमे ॥
शर्वर्यां नंदिनीतीरे वनराजिषु शंकरः
॥५४॥मत्तालिद्विजसन्नादमयूररवमंडिते ॥
दिव्यवर्षसहस्राणि रेमे स्वच्छंदया विभुः
॥५५॥स्त्रीणामिंद्रवराभावात्तस्मिन्काले नृपोत्तम ॥
पुंसः संगात्पुनर्गर्भो नारीणां स्रवति धुवम्
॥५६॥प्रत्यहं रमणाद्देव्यां नाभूद्गर्भो हराद्बत ॥
देवानामभवच्चिन्ता पुत्रालाभाद्वराद्विभो
॥५७॥सर्वे संगत्य संमंत्र्य मिथ एवं बभाषिरे ॥
कामीवाऽभूद्रतौ नित्यं सक्तो देव्या हरः स्वराट्
॥५८॥नाऽस्माकं सिद्ध्यते कार्यं नित्यं गर्भस्य संस्रवात् ॥
पुना रतिर्यथा नाऽभूत्तथाऽस्माभिर्विधीयताम्
॥५९॥मिथ एवं तु संभाष्य व्यचिन्वन्क्षणमत्र ते ॥
अग्निं कृत्ये विनिश्चित्य ह्यूचुर्मानपुरःसरम्
॥६०॥अग्ने मुखं त्वं देवानां त्वं बन्धुर्गतिरेव च ॥
इदानीमपि गच्छ त्वं रमते यत्र वै हरः
॥६१॥रत्यन्ते दर्शयाऽऽत्मानं पुना रतिर्यथा न वै ॥
त्वां दृष्ट्वा व्रीडिता देवी ततश्चापसरेद्ध्रुवम्
॥६२॥शिष्यो भूत्वा तु रत्यन्ते पृच्छ तत्त्वं स्मरान्तकम् ॥
तत्त्वसम्प्रश्नव्याजेन कालं बहु नय प्रभो
॥६३॥बहुकाले गते देवी कुमारं प्रसविष्यति ॥
देवैरेवं प्रार्थितोऽग्निरोमित्युक्त्वा हरं ययौ
॥६४॥वीर्योत्सर्गात्पूर्वमेव गतो वह्नी रतांतरे ॥
तं दृष्ट्वा व्रीडिता देवी विवस्त्रा विमना ययौ
॥६५॥रति विहाय त्वरया ततो रुद्रोऽतिकोपितः ॥
वह्निं प्राह गृहाणेदमभिसृष्टं तु दुर्मते
॥६६॥मद्वीर्यं दुःसहं पाप रतौ विघ्नस्त्वयाऽभवत् ॥
उत्सृजामि च मद्वीर्यं त्वन्मुखे हव्यवाहन
॥६७॥इत्युक्त्वोत्सृष्टवान्वीर्यं हव्यवाहमुखे हरः ॥
तद्धृत्वा दह्यमानः सन्स्वोदरे वीर्यमुल्बणम्
॥६८॥चिंतयानो ययौ धाम देवानां यज्ञपूरुषः ॥
कथंचित्प्राणतो मुक्तो देवेभ्यस्तन्न्यवेदयत्
॥६९॥देवा वह्नीरितं श्रुत्वा हर्षशोकौ समाययुः ॥
स्थितं वीर्यमिति ह्रादं कथं तु प्रसवो भवेत्
॥७०॥इति दुःखं तदा चाऽऽसीद्वह्नेः कुक्षौ तु शांभवम् ॥
ववृधे तेज आक्षिप्तं दश मासा गतास्तदा
॥७१॥नाऽपश्यत्प्रसवोपायं बहुदुःखपरायणः ॥
देवान्वै शरणं प्राप गर्भमोचनहेतवे
॥७२॥ते देवा वह्निना साकं प्रापुर्गंगां यशस्विनीम् ॥
गंगा स्तोत्रेण ते स्तुत्या प्रार्थयामासुरंजसा
॥७३॥त्वं माता सर्वदेवानां त्वमेव जगतां पतिः ॥
देवतार्थं तु त्वं भद्रे धत्स्व तेजस्तु शांभवम्
॥७४॥तद्वह्नेर्वर्द्धते गर्भो नास्त्रीत्वात्प्रसवोऽस्य च ॥
तस्मादेनं च नः सर्वान्समुद्धर दयां कुरु
॥७५॥इत्येवं प्रार्थिता देवी तथास्त्विति वचोऽब्रवीत् ॥
देवास्तु वह्नये प्राहुर्मंत्रं गर्भविमोचनम्
॥७६॥तन्मंत्राद्गर्भमाकृष्य व्यसृजद्धव्यवाहनः ॥
गंगायां शांभवं तेजो भास्वल्लोकसुदुःसहम्
॥७७॥सा चोढ्वा कतिचिन्मासान्न शशाक ततः परम् ॥
निर्जला तत्प्रभावेण स्फुटद्रक्तकलेवरा
॥७८॥बहुदुःखाऽऽकुला देवी पातिव्रत्यप्रभावतः ॥
उज्जहार स्वोदरस्थं गर्भं लोकैकपावनी
॥७९॥शरकांडे तु चिक्षेप दह्यमानं समन्ततः ॥
शरकांडैस्तु संभिन्नः षोढा भिन्नो बभूव ह
॥८०॥षट्कृऽत्तिकाः समाजग्मुर्ब्रह्मणा चोदितास्तदा ॥
शरकांडे विनिर्भिन्नं षोढा संधाय शांभवम्
॥६१॥षण्मुखं पुरुषं कृत्वा त्वेकदेहमिति स्फुटम् ॥
कृत्तिका विधिनाऽऽज्ञप्तास्तं तथा चक्रिरे दृढम्
॥८२॥तद्देहं पुरुषाकारं षण्मुखं शरकांडगम् ॥
अरक्ष्यमाणमेवासीच्छरकांडेषु वै चिरम्
॥८३॥एकदा वृषभाऽरूढौ पार्वतीपरमेश्वरौ ॥
श्रीशैलं गंतुमनसौ तत्स्थलं परिजग्मतुः
॥८४॥तदासीत्पार्वती देवी सद्यः स्नुतपयोधरा ॥
विस्मिता चावदद्रुद्रं स्नुतौ कस्मात्पयोधरौ
॥८५॥कारणं ब्रूहि विश्वात्मन्नित्युक्तस्तु हरोऽब्रवीत् ॥
शृणु देवि प्रवक्ष्यामि पुत्रोऽधो वर्तते तव
॥८६॥त्वयि वीर्यमनुत्सृष्टं प्रागेवाऽऽगाद्धविर्वहः ॥
तं दृष्ट्वा व्रीडिता त्वं वै प्रविष्टा च स्थलान्तरम्
॥८७॥मया कोपाद्वह्नि मुखे विसृष्टं वीर्यमुल्बणम् ॥
देवानां च प्रसादेन गंगायां व्यसृजद्विभुः
॥८८॥गंगा च दह्यमाना सा व्यक्षिपञ्च शरान्तरं ॥
तत्र षोढा प्रभिन्नं तु मातृभिश्च दृढीकृतम्
॥८९॥पुरुषाकृतिमापेदे तं दृष्ट्वा ते स्तनौ सुतौ ॥
पालनीयं महावीर्यं विष्णुना समविक्रमम्
॥९०॥अयमे वौरसः पुत्रस्तव भाति विनिश्चितम् ॥
तस्माद्गृहाण शीघ्रं त्वं तेनाऽऽख्यातिरतीव ते
॥९१॥इत्याऽऽज्ञप्ता शंभुना सा तमादायाऽर्भकं द्रुतम् ॥
अंकमारोप्य तं देवी पाययामास सा स्तनौ
॥९२॥देवेन मोहिता देवी पुत्रस्नेहपराऽभवत् ॥
पुनः कैलासमगमत्प्रभुणा सह शांकरी
॥९३॥लालयंती सुतं देवी संतोषं परमं ययौ ॥
एवं कुमारजननं वर्णितं ते मयाऽद्भुतम्
॥९४॥य इदं शृणुयान्नित्यं कुमारजननं शुभम् ॥
पुत्रपौत्राभिवृद्धिं तु लभते नाऽत्र संशयः
॥९५॥महद्दुःखं तु जनने हरस्याऽपि यतोऽभवत् ॥
प्रीत्यानुश्रुतवैशाखधर्मोऽप्यप्रतिमो भवेत्
॥९६॥तस्माद्वैशाखधर्मो हि सर्वाघौघविनाशनः ॥
अवैधव्यप्रदः पुण्यः सर्वसंपद्विधायकः
॥९७॥अनंगोपि हि सांगत्वं यत्प्रभावात्समाप्तवान् ॥
अस्नात्वा चाप्यदत्त्वा च वैशाखो यस्य वै गतः
॥९८॥अपि धर्मकृतो वाऽपि भवेद्दुःखपरंपरा ॥
सर्वधर्मो हितः स्याच्च यद्येकोऽयमनुष्ठितः
॥९९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदांबरीषसंवादे कुमारोत्पत्तिकथनंनाम नवमोऽध्यायः ॥ ९ ॥