मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय १२

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 12

यमदुःखनिरूपणम्

यम उवाच

शृणु मे वचनं नाथ लोपितोऽहं पितामह ॥

मरणादधिकं मन्ये मत्पदस्य च खण्डनम्

॥१॥

नियोगी न नियोगं हि करोति कमलासन ॥

प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः

॥२॥

योऽश्नाति लोभाद्वित्तानि प्रज्ञावांश्च महीपते ॥

स तिर्यग्योनि नरके याति कल्पशतत्रयम्

॥३॥

निःस्पृहो नाऽऽचरेद्यस्तु नियोगं पद्मसंभव ॥

भुक्त्वा तु नरकान्घोरान्स पुमान्वायसो भवेत्

॥४॥

आत्मकार्यपरो यस्तु स्वामिकार्यं विलुंपति ॥

भवेद्वेश्मनि पापात्मा आखुः कल्पशतत्रयम्

॥५॥

नियोगी यश्च भूत्वा वै तिष्ठन्नित्यं स्ववेश्मनि ॥

शक्तस्तु कार्यकरणे मार्जारो जायते नरः

॥६॥

सोऽहं देव तवादेशात्प्रजा धर्मेण साधये ॥

पुण्येन पुण्यकर्तारं पापं पापेन कर्मणा

॥७॥

सम्यग्विचार्य मुनिभिर्धर्मशास्त्रान्वितैः प्रभो ॥

कल्पादौ वर्तमानस्य यातना दापयन्मम

॥८॥

कर्तुं नियोगमेवं हि त्वदीयो नैव शक्नुयाम् ॥

राज्ञा कीर्तिमता भग्नो नियोगस्तव च क्षितौ

॥९॥

भयादस्य जगन्नाथ पृथिवीं सागराम्बराम् ॥

वैशाखधर्मसहितां पालयन्वर्तते क्वचित्

॥१०॥

विहाय सर्वधर्मांश्च विहाय पितृपूजनम् ॥

विहायाऽग्निसपर्यां तु तीर्थ यात्रादिसत्क्रियाः

॥११॥

योगसांख्यावुभौ त्यक्त्वा त्यक्त्वा प्राणनिरोधनम् ॥

त्यक्त्वा होमं च स्वाध्यायं कृत्वा पापानि भूरिशः

॥१२॥

प्रयान्ति वैष्णवं लोकं कृत्वा वैशाखसत्क्रियाः ॥

मनुजाः पितृभिः सार्द्धं तथैव च पितामहैः

॥१३॥

तेषामतीतपितरः पितॄणां पितरस्तथा ॥

तथा मातामहा यांति तेषां वै जनकादयः

॥१४॥

तेषामपि च नेतारो जनित्रीणां च पूर्वजाः ॥

एतद्दुःखं पुनर्देव मम मस्तकभेदनम्

॥१५॥

प्रियायाः पितरो यान्ति मार्जयित्वा लिपिं मम ॥

पितॄणां बीजजो यस्तु धात्र्या कुक्षौ धृतो विभो

॥१६॥

यदंकेन कृतं कर्म तदेकेनैव भुज्यते ॥

तन्निरस्य कृतं सर्वं जानंस्त्वेकः कुले तु यः

॥१७॥

तारयेत्तावुभौ पक्षौ षड्विंशोपर्यलं विभो ॥

प्रियायाश्चाऽपि वै तात सर्वे वै कुक्षिसंभवाः

॥१८॥

तेऽपि सर्वे जगन्नाथ यान्ति विष्णोः परं पदम् ॥

न मे प्रयोजनं देव नियोगेनेदृशेन वै

॥१९॥

वैशाखधर्मनिरतः स मां त्यक्त्वा व्रजेद्धरिम् ॥

त्रिःसप्तकुलमुद्धत्य त्यक्तपापोऽतिशोभनः

॥२०॥

स त्यक्त्वा मम मार्गं हि प्रयाति हरिमंदिरम् ॥

न यज्ञैस्तादृशैर्देव गतिं प्राप्नोति मानवः

॥२१॥

सर्वतीर्थैर्न दानाद्यैर्न तपोभिश्च न व्रतैः ॥

अपि वा सकलैर्धर्मैर्युक्तो नाऽप्नोति तां गतिम्

॥२२॥

प्रयागपाताद्रणमध्यपाताद्भृगोश्च पातान्मरणाच्च काश्याम् ॥

न तां गतिं यांति जनाश्च सर्वे वैशाखनिष्ठेन च या प्रपद्यते

॥२३॥

प्रातः स्नात्वा देवपूजां च कृत्वा श्रुत्वा कथां मासमाहात्म्यसंज्ञाम् ॥

धर्मान्कृत्वा चोचितान्वैष्णवांश्च स वै भवेद्विष्णुलोकैकनाथः

॥२४॥

अप्रमाणमहं मन्ये लोकं विष्णोर्जगत्पतेः ॥

यो न पूर्येत कोट्योघैः सर्वतः कमलासन

॥२५॥

माधवावसथेनेह समस्तेन पितामहम् ॥

विकर्मस्थाऽविकर्मस्थाः शुचयोऽशुचयस्तथा

॥२६॥

कृत्वा वैशाखकृत्यानि लोका यान्ति नृपाऽऽज्ञया ॥

योऽस्माकं हि महच्छत्रुर्भवतां च विशेषतः

॥२७॥

निग्राह्यो जगतां नाथ भवताऽसौ महीपतिः ॥

हित्वा हि सकलान्धर्मान्सकृद्वैशाखस्नानतः

॥२८॥

असंस्कृतजना यांति वैकुण्ठं हरिमंदिरम् ॥

अस्माभिस्तु कृतोपेक्षो लिणुपादैकसंश्रयः

॥२९॥

समस्तं नेष्यते लोकं पार्थिवो नात्र संशयः ॥

एष दण्डपटो ह्यद्य तव पद्भ्यां निवेदितः

॥३०॥

लोकपालत्वमतुलमर्जितं तेन भूभुजा ॥

किमपत्येन जातेन मातुः क्लेशंकरेण वै

॥३१॥

यो न पातयते शत्रुं ज्येष्ठमासीव भास्करः ॥

वृथासुता हि युवतिर्जाता चेद्धि कुपुत्रिणी

॥३२॥

न तस्याः स्फुरते कीर्तिर्घनस्येव शतह्रदा ॥

यत्पितुर्नोद्धरेत्पापाद्विद्यया वा बलेन वा

॥३३॥

मातुर्जठरजो रोगः स प्रसूतो धरातले ॥

धर्मे चाऽर्थे च कामे च यत्प्रतीपो भवेत्सुतः

॥३४॥

मातृहा ह्युच्यते सद्भिः स पुत्रः पुरुषाधमः ॥

तन्माता नृपपत्नी च लोकविख्यातसत्क्रिया

॥३५॥

एकैव वीरसूर्लोके वीरः स नात्र संशयः ॥

यथा वै कीर्तिमाञ्जातो मल्लिपेर्मार्जनाय वै

॥३६॥

नेदं व्यवसितं देव केनचित्क्षत्रियेण हि ॥

पुराणेषु जगन्नाथ न श्रुतं पटमार्जनम्

॥३७॥

सोऽहं न जानामि जगत्पतीश ऋते क्षितीशं हरितत्परं तम् ॥

प्रचोदयन्तं पटहं सुघोषाद्विलोपयानं मम वेश्ममार्गम्

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे यमदुःखनिरूपणंनाम द्वादशोऽध्यायः ॥ १२ ॥