पापशमनवर्णनम्
मैथिल उवाच
यत्कामपत्नीचरितमशून्यशयनं व्रतम् ॥
देवोपदिष्टं तस्याऽस्य विधानं ब्रूहि भूसुर
॥१॥किं दानं को विधिस्तस्य पूजनं किं फलं तथा ॥
एतदाचक्ष्व भूदेव श्रोतुं कौतूहलं हि मे
॥२॥श्रुतदेव उवाच
शृणु भूयः प्रवक्ष्यामि व्रतं पापप्रणाशनम् ॥
अशून्यशयनं नाम रमायै हरिणोदितम्
॥३॥येन चीर्णेन देवेशो जीमूताऽऽभः प्रसीदति ॥
लक्ष्मीभर्ता जगन्नाथः समस्ताऽघौघनाशनः
॥४॥अकृत्वा यस्त्विदं राजन्व्रतं पातकनाशनम् ॥
गार्हस्थ्यमनुवर्तेत तस्येदं निष्फलं भवेत्
॥५॥श्रावणे शुक्लपक्षे तु द्वितीयायां महीपते ॥
अशून्यशयनाख्यं तद्ग्राह्यं व्रतमनुत्तमम्
॥६॥चातुर्मास्ये तु संप्राप्ते हविष्याशी भवेन्नरः ॥
चतुर्भिः पारणं मासैः सम्यङ्निष्पाद्यते प्रभो
॥७॥लक्ष्मीयुक्तो जगन्नाथः पूजनीयो जनार्दनः ॥
पारणे दिवसे प्राप्ते भक्ष्यं चैव चतुर्विधम्
॥८॥उपायनं च दातव्यं ब्राह्मणाय कुटुंबिने ॥
सौवर्णीं राजतीं चापि मूर्तिं कुर्यान्मनोरमाम्
॥९॥पीताम्बरधरां दिव्यां वनमालाविभूषिताम् ॥
शुक्लपुष्पैः सुगंधैश्च पूजयेत्पुरुषोत्तमम्
॥१०॥शय्यादानैर्वस्त्रदानैर्विप्राणां भोजनैस्तथा ॥
दम्पत्योर्भोजनैश्चैव दक्षिणाभिः प्रपूजयेत्
॥११॥एवं तु चतुरो मासान्पूजयित्वा जनार्दनम् ॥
मार्गशीर्षादिमासेषु पूजयेत्पूर्ववद्धरिम्
॥१२॥रक्रवर्णं हरिं ध्यायेद्रुक्मिणीसहितं तथा ॥
चैत्रादींश्चतुरो मासानेवं संपूजयेत्ततः
॥१३॥भूम्या सह स्थितं देवमर्चयेद्भक्तिपूर्वकम् ॥
सनंदनाद्यैर्मुनिभिः स्तूयमानमकल्मषम्
॥१४॥आषाढस्य च मासस्य द्वितीयायां समापयेत् ॥
अष्टाक्षरेण मंत्रेण जुहुयादनले शुभे
॥१५॥मार्गशीर्षादिमासानां पारणे भूमिपालक ॥
जुहुयाद्विष्णुगायत्र्या चैत्रादीनां निबोधय
॥१६॥पौरुषेण च मंत्रेण जुहुयादनले शुभे ॥
पञ्चामृतं पायसं च ह्यपूपं घृतपाचितम्
॥१७॥एवं क्रमेण द्रव्याणि प्रतिमासु निबोधय ॥
सौवर्णी प्रतिमां दद्याल्लक्ष्मीनारायणस्य च
॥१८॥सौवर्णीं मध्यमे दद्यात्कृष्णस्य परमात्मनः ॥
राजतीं त्वंतिमे दद्याद्वराहस्य महात्मनः
॥१९॥ब्राह्मणान्भोजयेत्पश्चान्नामभिः केशवादिभिः ॥
वस्त्रयुग्मैरलंकारैर्यथावित्तानुसारतः
॥२०॥अर्चयित्वा ततो दद्यादपूपान्घृतपाचितान् ॥
उपायनार्थे विप्रेभ्यो द्वादशभ्यो निवेदयेत्
॥२१॥आचार्याय ततो दद्यात्प्रतिमां पूर्वकल्पिताम् ॥
शय्यां संकल्पितां पूर्णां सर्वालंकारभूषिताम्
॥२२॥तस्यामभ्यर्च्य विधिवल्लक्ष्मीनारायणं परम् ॥
कांस्यपात्रेण सहितामपूपैर्बहुभिस्तथा
॥२३॥वस्त्रालंकारसहितां दक्षिणाभिस्तथैव च ॥
ब्राह्मणाय विशिष्टाय वैष्णवाय कुटुंबिने
॥२४॥दातव्या विधिवत्पूज्य ब्राह्मणांश्चापि भोजयेत् ॥
दानमन्त्रः ॥
लक्ष्म्या अशून्यं शयनं यथा तव जनार्दन
॥२५॥शय्या ममाप्यशून्या स्याद्दानेनाऽनेन केशव ॥
एवं सम्प्रार्थ्य देवेशं स्वयं भोजनमाचरेत्
॥२६॥पुरुषो वा सती वाऽपि विधवा वा समाचरेत् ॥
अशून्यशयनार्थं च कर्तव्यं व्रतमुत्तमम्
॥२७॥एवं तव मया ख्यातं विस्तरान्नृपसत्तम ॥
सुप्रसन्ने जगन्नाथे भवेयुर्विविधाः प्रजाः
॥२८॥तस्मिंस्तुष्टे तु देवेशे देवानामपि दुर्लभाः ॥
तस्मात्सर्वप्रयत्नेन व्रतमेतत्समाचरेत्
॥२९॥अवश्यं गन्तुकामेन तद्विष्णोः परमं पदम् ॥
एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि
॥३०॥इत्युक्तस्तेन राजर्षिः पुनरप्याह तं मुनिम् ॥
वैशाखे छत्रदानस्य माहात्म्यं विस्तराद्वद
॥३१॥शृण्वतोऽपि न तृप्तिर्मे वैशाखोक्ताञ्च्छुभावहान्
॥३२॥इति तद्वचनं श्रुत्वा यशस्यं पुण्यवर्द्धनम् ॥
प्रत्युवाच महाभागं श्रुतदेवो महायशाः
॥३३॥श्रुतदेव उवाच
वैशाखे घर्मतप्तानां मानवानां महात्मनाम् ॥
ये कुर्वन्त्यातपत्राणं तेषां पुण्यमनंतकम्
॥३४॥अत्रैवोदाहरन्तीममिति हासं पुरातनम् ॥
वैशाखधर्ममुद्दिश्य पुरा कृतयुगे कृतम्
॥३५॥वङ्गदेशे पुरा कश्चिद्धेमकान्त इति श्रुतः ॥
कुशकेतोः सुतो धीमान्राजा शस्त्रभृतां वरः ॥
एकदा मृगयाऽऽसक्तो गहनं वनमाविशत्
॥३६॥तत्र नानाविधान्हत्वा मृगान्क्रोडादिकान्बहून् ॥
श्रांतो मध्याह्नवेलायां मुनीनामाश्रमं ययौ
॥३७॥तदा शतर्चिनोनाम ऋषयः शंसितव्रताः ॥
समाधिस्था न जानन्ति बाह्यकृत्यं च किंचन
॥३८॥तान्दृष्ट्वा निश्चलान्विप्रान्क्रुद्धो हंतुं मनो दधे ॥
भूपं निवारयामास शिष्याणामयुतं तदा
॥३९॥दुर्बुद्ध शृणु नो वाक्यं गुरवस्तु समाधिगाः ॥
नो जानन्ति बहिःकृत्यं तस्मात्क्रोधं न चार्हसि
॥४०॥ततः शिष्यानुवाचेदं वचनं क्रोधविह्वलः ॥
यूयं कुरुध्वमातिथ्यमध्वश्रांतस्य मे द्विजाः
॥४१॥एवमुक्ताश्च भूपेन शिष्या ऊचुस्तदा नृपम् ॥
नाऽऽज्ञप्ता गुरुभिर्भूप वयं भिक्षाशिनः पुनः
॥४२॥गुरुतन्त्राः कथं कर्तुमातिथ्यं ते वयं क्षमाः ॥
प्रत्याख्यातो नृपः शिष्यैस्तान्हंतुं धनुराददे
॥४३॥मृगदस्युभयादिभ्यो बहुधा रक्षिता मया ॥
ते मामेवोपशिक्षंति मया दत्तप्रतिग्रहाः
॥४४॥एते मां न विजानंति कृतघ्ना भूरिमानिनः ॥
घ्नतोपि मे न दोषः स्यादेतान्वै ह्याततायिनः
॥४५॥एवं विक्रुद्धमानः सञ्छरान्मुंचञ्च्छरासनात् ॥
तान्विद्रुताननुद्रुत्य जघ्ने शिष्यशतत्रयम्
॥४६॥दुद्रुवुर्भयतः सर्वे विहायाऽऽश्रममञ्जसा ॥
विद्रावितेषु शिष्येषु बलादाश्रमसंस्थितान्
॥४७॥संभाराञ्जगृहुः शीघ्रं सैनिकाः पापबुद्धयः ॥
यथेष्टं भोजनं चक्रुर्नृपेणैवानुमोदिताः
॥४८॥ततः सेनाऽऽवृतो राजा पुरीमागाद्दिनात्यये ॥
कुशकेतुस्ततः श्रुत्वा तनयस्य विचेष्टितम्
॥४९॥पुरान्निर्यातयामास गर्हयन्गर्हयन्सुतम् ॥
राज्यानर्हं क्षमाहीनं स्वदेशादपि भूमिप
॥५०॥पित्रा त्यक्तस्ततो राजा हेमकांतोऽतिविह्वलः ॥
वनं विवेश गहनं हत्याभिश्च सुपीडितः
॥५१॥बहुकालमवासीच्च गह्वरे निर्जने वने ॥
आहारं कल्पयामास व्याधधर्ममुपाश्रितः
॥५२॥न क्वाऽपि स्थितिमापेदे हत्ययाऽभिद्रुतो भृशम् ॥
अष्टाविंशतिवर्षाणि गतान्यस्य दुरात्मनः
॥५३॥तीर्थयात्राप्रसंगेन त्रितो नाम महामुनिः ॥
तस्मिन्नरण्ये वैशाखे रवौ मध्यंदिने गते
॥५४॥गच्छन्नातपविक्लांतस्तृषया चाऽपि पीडितः ॥
क्वचिद्वृक्षविहीने तु प्रदेशे मूर्च्छितोऽभवत्
॥५५॥दैवाद्दृष्ट्वा हेमकांतस्त्रितं नाम महामुनिम् ॥
तृषार्तं मूर्छितं श्रांतं कृपां चक्रे नृपाधमः
॥५६॥ब्रह्मपत्रैस्तदा छत्रं कृत्वा चाऽऽतपवारणम् ॥
मुनेर्जग्राह शिरसि ह्यलाबुस्थं जलं ददौ
॥५७॥लब्धसंज्ञोऽभवत्तेन ह्युपचारेण वै मुनिः ॥
पत्रच्छत्रं क्षत्रदत्तं गृहीत्वा गतविक्लमः
॥५८॥ग्रामं क्वचिच्छनैः प्राप्य किञ्चिदाप्यायितेन्द्रियः ॥
तेन पुण्यप्रभावेन ब्रह्महत्याशतत्रयम्
॥५९॥विनष्टमभवत्तस्य क्षणादेव महात्मनः ॥
ततो विस्मयमापन्नो हेमकान्तो महारथः
॥६०॥बहुधा पीड्यमानस्य ब्रह्महत्याः कथं गताः ॥
केनाऽपि निष्कृता ह्येताः क्व गताः केन हेतुना
॥६१॥इत्येवं चिन्तयामास ब्रह्महत्याविमोचनम् ॥
एवं चाऽज्ञस्थिते राज्ञि यमदूता अथाऽऽगमन्
॥६२॥नेतुमेनं महात्मानं हेमकांतं वने स्थितम् ॥
ग्रहणीं जनयामासुः प्राणान्हर्तुं महात्मनः
॥६३॥तदा प्राणवियोगार्तः पुरुषांस्त्रीन्ददर्श ह ॥
यमदूतान्महाघोरानूर्ध्वकेशान्भयंकरान्
॥६४॥चिन्तयानः स्वकर्माणि तूष्णीमासीत्तदा नृपः ॥
छत्रदानप्रभावेन जाता विष्णुस्मृतिर्नृप
॥६५॥तेन स्मृतो महाविष्णुर्विष्वक्सेन स्वमंत्रिणम् ॥
उवाच तूर्णं त्वं गच्छ यमदूतान्निवारय
॥६६॥वैशाखधर्मनिरतं हेमकांतं तु पालय ॥
निष्पापमेनं मद्भक्तं पित्रे देहि पुरं गतः
॥६७॥मदीरितेन वाक्येन कुशकेतुं च बोधय ॥
सर्वधर्म्मोज्झितो वापि ब्रह्मचर्यादिवर्जितः
॥६८॥वैशाखधर्मनिरतो मत्प्रियः स्यान्न संशयः ॥
कृतागाश्चाऽपि त्वत्पुत्रो मुनित्राणपरायणः
॥६९॥वैशाखे छत्रदानेन निष्पापो नाऽत्र संशयः ॥
तेन पुण्यप्रभावेन शांतो दान्तश्चिरायुषः
॥७०॥शौर्योदार्यगुणोपेतस्त्वत्समोऽयं गुणैरपि ॥
तस्मादेनं राज्यभारे संस्थापय महाबलम्
॥७१॥विष्णुनैव समाज्ञप्तमित्यादिश्य नृपोत्तमम् ॥
पितुर्वंशे हेमकांतं स्थाप्याऽऽयाहि च मां पुनः
॥७२॥इत्यादिष्टो भगवता विष्वक्सेनो महाबलः ॥
हेमकान्तं समासाद्य यमदूतान्निवार्य च
॥७३॥पाणिना शंतमेनैव पस्पर्शांगेषु भूमिपम् ॥
भगवद्भक्तसंस्पर्शाद्धतव्याधिः क्षणादभूत्
॥७४॥विष्वक्सेनस्ततस्तेन सह तस्य पुरीं ययौ ॥
तं दृष्ट्वा विस्मितो भूत्वा कुशकेतुर्महाप्रभुः
॥७५॥ननाम शिरसा भक्त्या दण्डवत्पतितो भुवि ॥
गृहं प्रवेशयामास पार्षदं परमात्मनः
॥७६॥स्तुत्वा च विविधैः स्तोत्रैः पूजयामास वैभवैः ॥
तस्मै प्रीतमनाः प्राह विष्वक्सेनो महाबलः
॥७७॥हेमकान्तं समुद्दिश्य यदुक्तं विष्णुना पुरा ॥
तच्छ्रुत्वा कुशकेतुश्च पुत्रं राज्ये निवेश्य च
॥७८॥विष्वक्सेनाभ्यनुज्ञातः सभार्यो वनमाविशत् ॥
विष्वक्सेनो हेमकान्तमनुमंत्र्याभिपूज्य च
॥७९॥श्वेतद्वीपं ययौ धीमान्विष्णुपार्श्वे महामनाः ॥
हेमकांतस्ततो राजा वैशाखोक्ताञ्च्छुभावहान
॥८०॥विष्णुप्रीतिकरान्धर्मान्प्रतिवर्षं चकार ह ॥
ब्रह्मण्यो धर्ममार्गस्थः शान्तो दान्तो जितेन्द्रियः
॥८१॥दयालुः सर्वभूतेषु सर्वयज्ञेषु दीक्षितः ॥
प्रवृद्धः सर्वसम्पद्भिः पुत्रपौत्रादिभिर्वृतः
॥८२॥भुक्त्वा भोगान्समस्तांश्च विष्णुलोकमवाप्तवान्
॥८३॥नेक्षे तु वैशाखसमांश्च धर्मान्सुखप्रयत्नान्बहुपुण्यहेतून् ॥
पापेन्धनाद्यग्निनिभान्सुलभ्यान्धर्मादिमोक्षान्तपुमर्थहेतून्
॥८४॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखंडे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे छत्रदानप्रशंसने हेमकांतस्य ब्रह्महत्यादि पापशमनवर्णनं नाम दशमोऽध्यायः ॥ १० ॥