मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय १७

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 17

दंन्तिलकोहलमुक्तिप्राप्तिवृत्तान्तवर्णनम्

वाल्मीके:पूर्वजन्मस्य कथा "श्रुतकीर्तिरुवाच

वैशाखधर्मानखिलानिहामुत्र फलप्रदा ॥

भूयोऽपि शृण्वतश्चासीत्तृप्तिर्नाऽद्यापि मानद

॥१॥

यत्र चाकैतवो धर्मो यत्र विष्णुकथा शुभाः ॥

तच्छास्त्रं शृण्वतो नैव तृप्तिः कर्णरसायनम्

॥२॥

पूर्वजन्मकृतं पुण्यं दिष्ट्या पारमुपागतम् ॥

आतिथ्यव्यपदेशेन यद्भवान्गृहमागतः

॥३॥

वचोऽमृतं मुखांभोजनिःसृतं परमाद्भुतम् ॥

पीत्वा तृप्तः पारमेष्ठ्यं मोक्षं वा च न कामये

॥४॥

तस्मात्तानेव धर्मान्मे भुक्तिमुक्तिप्रदायकान् ॥

विष्णुप्रीतिकरान्दिव्यान्भूयो विस्तरतो वद

॥५॥

इत्युक्तस्तु पुरा राज्ञा श्रुतदेवो महायशाः ॥

संहृष्टाऽऽत्मा शुभान्धर्मान्पुनर्व्याहर्तुमारभत्

॥६॥

"श्रुतदेव उवाच

शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

वैशाखधर्मविषयां भावितां मुनिभिर्मुहुः

॥७॥

पम्पातीरे द्विजः कश्चिच्छंखोनाम महायशाः ॥

** गुरौ सिंहगते चागान्नदीं गोदावरीं शुभाम्

॥८॥

तीर्त्वा भीमरथीं पुण्यां कान्तारे कण्टकाचले ॥

निर्जले निर्जने घोरे वैशाखे तपकर्षितः

॥९॥

वृक्षे चोपविवेशाऽसौ मध्याह्नसमये द्विजः ॥

तदा कश्चिद्दुराचारो व्याधश्चापधरः शठः

॥१०॥

निर्घृणः*सर्वभूतेषु कालान्तक इवाऽपरः ॥

तं कुण्डलधरं विप्रं दीक्षितं भास्करोपमम्

॥११॥

दृष्ट्वा बद्ध्वा स जग्राह कुण्डलादिकमुग्रधीः ॥

उपानहौ चच्छत्रं च अक्षमालां कमण्डलुम्

॥१२॥

पश्चाद्विसृज्य तं विप्रं गच्छेत्याह विमूढधीः

॥१३॥

ततः स गच्छन्पथि शर्कराऽऽविले सूर्यांशुतप्ते जलवर्जिते खरे ॥

सन्तप्तपादस्तृणछादिते स्थले क्वचिच्चचारोपवसन्नूर्ध्वरेताः

॥१४॥

स वै द्रुतं सम्पतन्क्वापि तुष्यन्हाहेति वादी स जगाम तूर्णम् ॥

दृष्ट्वा मुनिं खिद्यमानं पृथिव्यां मध्यं गते पूष्णि दया बभूव

॥१५॥

व्याधस्य धर्मविमुखस्य च पापबुद्धेस्तस्मै ददामि सुखदां खलु पादरक्षाम्

॥१६॥

चौर्येणैव स्वधर्मेण या गृहीता वनान्तरे ॥

तदीयमेव तत्सर्वं व्याधानां धर्मनिर्णयः ॥

तस्मादुपानहौ दास्ये मुहुर्दुःखापनुत्तये

॥१७॥

तेन श्रेयो भवेद्यच्च तद्भवेन्मम पापिनः ॥

जीर्णे चोपानहौ द्वे च वर्तेते पादयोर्मम ॥

न ताभ्यामस्ति मे कृत्यं तस्मात्ते वै ददाम्यहम्

॥१८॥

इति निश्चित्य मनसि तूर्णं गत्वा ददौ च ते ॥

शर्करातप्तपादाय द्विजवर्याय सीदते

॥१९॥

उपानहौ गृहीत्वा ते निर्वृतिं च परां ययौ ॥

सुखी भवेति तं व्याधमाशीर्भिरभिनन्द्य च

॥२०॥

नूनं सुपक्वपुण्योऽयं वैशाखे दत्तवानमू ॥

व्याधस्यापि च दुर्बुद्धेः प्रायो विष्णुः प्रसीदति

॥२१॥

* सर्वस्याऽऽप्त्या च भूयोऽपि यत्सुखं तदभून्मम ॥

ततोऽभिश्रुत्य तद्वाक्यं किमेतदिति विस्मितः

॥२२॥

व्याजहार पुनर्विप्रं ब्रह्मिष्ठं ब्रह्मवादिनम् ॥

त्वदीयं तु मया दत्तं कथं पुण्यं भवेन्मम

॥२३॥

प्रशंससि च वैशाखं हरिस्तुष्टो भवेदिति ॥

एतदाचक्ष्व मे ब्रह्मन्को वैशाखस्तु को हरिः

॥२४॥

को धर्मः किं फलं तस्य शुश्रूषोर्मे दयानिधे ॥

इति व्याधवचः श्रुत्वा शंखस्तुष्टमना अभूत्

॥२५॥

प्रशंसन्स च वैशाखं पुनर्विस्मितमानसः ॥

इदानीं दत्तवान्पादत्राणे मे लुब्धकः शठः

॥२६॥

यद्दुर्बुद्धेश्च वैषम्यं जातं चित्रमहो वत ॥

सर्वेषामेव धर्माणां फलं जन्मांतरेषु वै

॥२७॥

वैशाखमासधर्माणां फलं सद्यः क्षणे नृणाम् ॥

पापाचारस्य दु्र्बुद्धेर्व्याधस्यापि दुरात्मनः

॥२८॥

दैवादुपानहोर्दानात्सत्त्वशुद्धिरभूदहो ॥

यच्च विष्णोः प्रियं कर्म यत्तत्सन्तोषनिर्मलम्

॥२९॥

तदेव धर्ममित्या हुर्मन्वाद्या धर्मवित्तमाः ॥

धर्मा माधवमासीयाः प्रिया विष्णोरतीव ते

॥३०॥

धर्मैर्माधवमासीयैर्यथा तुष्यति केशवः ॥

न तथा सर्वदानैश्च तपोभिश्च महामखैः

॥३१॥

नानेन सदृशो धर्मः सर्वधर्मेषु विद्यते ॥

मा गयां यांतु मा गंगां मा प्रयागं तु पुष्करम्

॥३२॥

मा केदारं कुरुक्षेत्रं मा प्रभासं स्यमन्तकम् ॥

मा गोदा मा च कृष्णां च मा सेतुं मा मरुद्वृधम्

॥३३॥

वैशाखधर्ममाहात्म्यं शंसंती च कथाऽऽपगा ॥

तत्र स्नातस्य वै विष्णुः सद्यो हृद्यवरुध्यते

॥३४॥

मासे माधवसंज्ञेऽस्मिन्यस्त्वल्पेनैव साध्यते ॥

न तद्बहुव्ययैर्दानैर्न धर्मैर्वाऽपि वै मखैः

॥३५॥

मासोऽयं माधवोनाम* व्याध पुण्यविवर्द्धनः ॥

तस्मिन्मह्यं त्वया दत्ते पादुके तापनाशने

॥३६॥

तेन ते पूर्वकालीनं पुण्यं पाकमुपागतम् ॥

तुष्टस्तु भगवान्प्रायः श्रेयो व्याधविधास्यति

॥३७॥

अन्यथा ते कथं भूयाद्बुद्धिरेतादृशी शुभा ॥

मुनावेवं ब्रुवाणे च मृत्युना प्रेरितो बली

॥३८॥

सिंहो व्याघ्रवधार्थाय प्राद्रवत्क्रोधविह्वलः ॥

मध्ये दृष्ट्वा च मातङ्गं दैवाद्देवेन कल्पितम्

॥३९॥

तं हंतुमुद्यतोऽगच्छत्पदाक्रांतं व्यवस्थितम् ॥

तयोर्युद्धमभूद्राजन्सिंहमातंगयोर्वने

॥४०॥

श्रान्तौ युद्धाच्च विरतौ निरीक्षन्तौ च तस्थतुः ॥

व्याधमुद्दिश्य यच्चोक्तं मुनिना च महात्मना

॥४१॥

समस्तपातकध्वंसि दैवाच्छुश्रुवतुश्च तौ ॥

तेनैव मासमाहात्म्यश्रवणेनामलाशयौ

॥४२॥

शापान्मुक्तौ च तौ देहात्सद्यो मुक्तौ दिवं गतौ ॥

दिव्यरूपधरौ दिव्यौ दिव्यगन्धानुलेपनौ

॥४३॥

दिव्यं विमानमारूढौ दिव्यनारीनिषेवितौ ॥

सद्योऽवनतमूर्द्धानौ प्राञ्जली चोपतस्थतुः

॥४४॥

मुनींद्रो धर्मवक्ता च व्याधमुद्दिश्य वै पथि ॥

तौ दृष्ट्वा विस्मितः प्राह कौ युवामिति निश्चलः

॥४५॥

दुर्योनौ तु कुतो जन्म युवयोर्वा कथं मृतिः ॥

अहेतोर्विपिने चाऽस्न्मिपरस्परवधोद्यतौ

॥४६॥

एतत्सर्वं सुविस्तार्य सम्यग्वदत मेऽनघौ ॥

इत्युक्तौ मुनिना तेन वचः प्रत्यूचतुः पुनः

॥४७॥

मतंगस्य मुनेः पुत्रौ दन्तिलः कोहलोऽपरः ॥

शापदोषेण तौ जातौ नाम्ना दन्तिलकोहलौ

॥४८॥

रूपयौवनसंपन्नौ सर्वविद्याविशारदौ ॥

आवामुद्दिश्य प्रोवाच पिता धर्मार्थकोविदः

॥४९॥

मतंगोनाम ब्रह्मर्षिः सर्वधर्मविदुत्तमः ॥

वैशाखे मासि तनयौ मधुसूदनवल्लभे

॥५०॥

प्रपां कुरुत मार्गे च जनान्वीजयतं क्षणम् ॥

मार्गे छाया विधत्तां च भूर्यन्नं शीतलांबु च

॥५१॥

कुरुतं स्नानमुषसि तथैवार्चयतं विभुम् ॥

कथां च शृणुतं नित्यं यया बन्धो निवर्तते

॥५२॥

एवं च बहुभिर्वाक्यैर्बोधितावपि दुर्मती ॥

कुद्धोऽभवं दन्तिलोऽहं मत्तोऽहं कोहलाह्वयः

॥५३॥

क्रुद्धः शशाप तौ सद्यः पिता धर्मेषु लालसः

॥५४॥

पुत्रं च धर्मविमुखं भार्यां चाऽप्रियवादिनीम् ॥

अब्रह्मण्यं च राजानंत्यजेत्सद्यो न चेत्पतेत्

॥५५॥

दाक्षिण्यादर्थलोभाद्वा संसर्गं ये प्रकुर्वते ॥

ते सर्वे नरकं यांति यावदिंद्राश्चतुर्दश ॥

इति ज्ञात्वा शशापावां मदक्रोधपरिप्लुतौ

॥५६॥

कुद्धोऽयं दंतिलो भूयात्सिंहः क्रोधपरिप्लुतः ॥

मत्तस्तु कोहलो भूयान्मत्तो मातंगयूथपः

॥५७॥

कृतानुतापौ पश्चात्तु प्रार्थयावो विमोचनम् ॥

आवाभ्यां प्रार्थितो भूयो विशापं च ददौपिता

॥५८॥

युवां प्राप्य च दुर्योनिं कियत्कालान्तरेऽपि च ॥

संगमो भविता तत्र परस्परवधेषिणोः

॥५९॥

तस्मिन्नेव हि समये संवादो व्याधशंखयोः ॥

वैशाखधर्मविषयो दैवाद्वां श्रवणेऽपि च

॥६०॥

गमिष्यति क्षणादेव तस्मान्मुक्तिर्भविष्यति ॥

शापान्मुक्तौ पूर्वमेव रूपमास्थाय पुत्रकौ

॥६१॥

मामेव प्राप्य वसतं नान्यथा मे वचो भवेत् ॥

इति शप्तौ च गुरुणा दुर्योनिं प्राप्य दुर्मती

॥६२॥

प्राप्य दैवात्संगतिं च परस्परवधैषिणौ ॥

संवादं युवयोर्दिव्यं शुभं तं शुश्रुवावहे

॥६३॥

तेन सद्यो विमुक्तिश्च क्षणादेवाऽऽवयोरभूत् ॥

इति सर्वं समाख्याय प्रणम्य च मुनीश्वरम्

॥६४॥

समामंत्र्याभ्यनुज्ञातौ जग्मतुः पितुरंतिकम् ॥

तदेवं संप्रदृश्याह मुनिर्व्याधं दयानिधिः

॥६५॥

पश्य वैशाखमाहात्म्यश्रवणस्य फलं महत् ॥

मुहूर्तश्रवणादेव तयोर्मुक्तिः करे स्थिता

॥६६॥

इति ब्रुवाणं मुनिपुंगवं तं दयानिधिं निःस्पृहमग्र्यबुद्धिम् ॥

विशुद्धसत्त्वं सुकृतैकपात्रं स न्यस्तशस्त्रः पुनराह व्याधः

॥६७॥

_____________________________

॥६८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दंन्तिलकोहलमुक्तिप्राप्तिवृत्तान्तवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥