मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय २४

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 24

शुनीमोक्षप्राप्तिर्

श्रुतदेव उवाच

तिथिष्वेतासु पुण्यासु द्वादशी सितपक्षिणी ॥

वैशाखमासे राजेंद्र सर्वाघौघविनाशिनी

॥१॥

किं दानैः किं तपोभिश्च किमुपोष्यैर्व्रतैश्च किम् ॥

किमिष्टैश्चैव पूर्तैश्च द्वादशी यैर्न सेविता

॥२॥

गंगायामुपरागे तु यो दद्याद्गोसहस्रकम् ॥

तत्फलं समवाप्नोति प्रातः स्नात्वा हरेर्दिने

॥३॥

यद्दत्तं चाऽर्हते चाऽन्नं द्वादश्यां च सिते शुभे ॥

सिक्थेसिक्थे भवेत्तस्य कोटिब्राह्मणभोजनम्

॥४॥

यो दद्यात्तिलपात्रं तु द्वादश्यां मधुसंयुतम् ॥

निर्धूताऽखिलबंधस्तु विष्णुलोके महीयते

॥५॥

एकादश्यां सिते पक्षे कुर्य्याज्जागरणं हरेः ॥

स जीवन्नेव मुक्तः स्यात्तुष्टाः स्युः सर्वदेवताः

॥६॥

कोटींदुसूर्यग्रहणे तीर्थान्युत्प्लाव्य यत्फलम् ॥

तत्फलं समवाप्नोति प्रातः स्नात्वा हरेर्दिने

॥७॥

तुलस्याः कोमलैः पत्रैर्द्वादश्यां विष्णुमर्चयेत् ॥

समस्तकुलमुद्धृत्य विष्णुलोकाऽधिपो भवेत्

॥८॥

( क्षेपकः-तुलसीपत्रपुष्पैश्च वैशाखेऽश्वत्थपूजनम् ॥

पुष्पाद्यभावे धान्यैर्वा पूजयेन्मधुसूदनम्

॥१॥

) यमं पितॄन्गुरून्देवान्विष्णुमुद्दिश्य मानवः ॥

माधवे शुक्लद्वादश्यां सोदकुंभं सदक्षिणम्

॥९॥

दध्यन्नं चैव यो दद्यात्तस्य पुण्यफलं शृणु ॥

प्रयागे प्रत्यहं चैव कुर्याद्यः कोटिभोजनम्

॥१०॥

यावत्संवत्सरं पुण्यं षड्रसान्नैर्मनोरमैः ॥

तत्फलं समवाप्नोति मधुशासनशासनात्

॥११॥

शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने ॥

वैशाखे शुक्लपक्षे तु सर्वपापैः प्रमुच्यते

॥१२॥

द्वादश्यां पयसा यस्तु स्नापयेन्मधुसूदनम् ॥

राजसूयाऽश्वमेधाभ्यां यत्फलं परिजायते

॥१३॥

त्रयोदश्यां यजेद्विष्णुं पयोदधिविमिश्रितैः ॥

शर्करामधुभिर्द्रव्यैर्मधुसूदनप्रीतये

॥१४॥

तत्फलं समवाप्नोति गंगायां नाऽत्र संशयः ॥

पंचामृतैश्च यो विष्णुं भक्त्या संस्नापयेद्विभुम्

॥१५॥

स सर्वकुलमुद्धृत्य विष्णुलोके महीयते ॥

यो दद्यात्पानकं ह्यस्यां सायाह्ने प्रीतये हरेः

॥१६॥

जीर्णपापं जहात्याशु जीर्णां त्वचमिवोरगः ॥

सायाह्ने चैव यो दद्यादुर्वारुकरसायनम्

॥१७॥

भवेन्मुक्तः कर्मबंधादुर्वारुकरसायनात् ॥

इक्षुदण्डं चूतफलं दद्याद्द्राक्षाफलानि च

॥१८॥

न विच्छित्तिः संततेः स्यात्तस्य वै शतपूरुषम् ॥

यो दद्याद्गंधलेपं तु सायाह्ने द्वादशीदिने

॥१९॥

बाह्योपघातैः सकलैर्मुच्यते नाऽत्र संशयः ॥

यत्किंचित्कुरुते पुण्यं द्वादश्यां राजसत्तम

॥२०॥

माधवे तु सिते पक्षे तदक्षय्यफलं भवेत् ॥

प्रख्यातिमस्या वक्ष्यामि येन जातेति भूमिप

॥२१॥

सर्वेषां सर्वपापघ्नीं सर्वमंगलदायिनीम् ॥

पुरा काश्मीरदेशे तु द्विजो देवव्रताऽऽह्वयः

॥२२॥

तस्याऽऽसीन्मालिनी नाम तनया चारुरूपिणी ॥

ददौ तां सत्यशीलाय विप्रवर्याय धीमते

॥२३॥

तामुद्वाह्य ययौ धीमान्स्वदेशं यवनाऽऽह्वयम् ॥

रूपयौवनसंपन्ना तस्य नैव प्रियाऽभवत्

॥२४॥

सदा विद्वेषसंयुक्तस्तस्यां तिष्ठति निष्ठुरः ॥

नाऽन्यस्य कस्यचिद्द्वेष्टि तां विना नृपते पतिः

॥२५॥

तस्मिन्सा क्रोधसंयुक्ता वशीकरणलंपटा ॥

अपृच्छत्प्रमदा राजन्यास्त्यक्ताः पतिभिः पुरा

॥२६॥

ताभिरुक्ता तु सा भूप वश्यो भर्त्ता भविष्यति ॥

अस्माकं प्रत्ययो जातो भर्तृत्यागावमानिनाम्

॥२७॥

प्रयुज्य भेषजं वश्यं नीता हि पतयः पुरा ॥

योगिनीं त्वं तु गच्छाऽद्य दास्यते भेषजं शुभम्

॥२८॥

न विकल्पस्त्वया कार्यो भविता दासवत्पतिः ॥

योगिनीमंदिरे गत्वा तासां वाक्येन भूपते

॥२९॥

प्रसादमतुलं तस्या लेभे दुश्चारिणी सती ॥

शतस्तंभसमायुक्तां कुटीं भेजे त्वरान्विता

॥३०॥

सुविस्तृतां सुवर्चस्कां तथैवाऽयातयामिकाम् ॥

प्रावृता दीर्घवस्त्रेण सन्निधिं तेन योगिनी

॥३१॥

दीर्घाभिश्च सटाभिस्तु प्रावृता दीप्तिसंयुता ॥

परिचारसमोपेता वीक्षमाणा शनैःशनैः

॥३२॥

अक्षसूत्रकरा सा तु जपंती प्रार्थिता तया ॥

ददौ वश्यकरं मंत्रं क्षोभकं प्रत्ययात्मकम्

॥३३॥

ततः सा प्रणता भूत्वा दद्याद्द्रव्यांऽगुलीयकम् ॥

वज्रमाणिक्यसंयुक्तमतिरक्तप्रभान्वितम्

॥३४॥

मृदुकांचनसंयुक्तं भानुरश्मिसमद्युति ॥

ततो दृष्ट्वा तु संतुष्टा पादस्थं चांगुलीयकम्

॥३५॥

हृदयं च तया ज्ञातं तत्पतेरवमानजम् ॥

तदोक्ता हि तया भूप तापस्याहितयुक्तया

॥३६॥

चूर्णो रक्षान्वितो ह्येष सर्वभूतवशंकरः ॥

चूर्णं भर्तरि संयुज्य रक्षां ग्रीवाश्रयां कुरु

॥३७॥

भविष्यति पतिर्वश्यो नाऽन्यां यास्यति सुन्दरीम् ॥

नाऽप्रियं वदति क्वाऽपि दुश्चारिण्यास्तवाऽपि च

॥३८॥

चूर्णरक्षां गृहीत्वा सा प्राप भर्तृगृहं पुनः ॥

प्रदोषे पयसा युक्तश्चूर्णो भर्तरि योजितः

॥३९॥

ग्रीवायां हि कृता रक्षा न विचारः कृतस्तया ॥

तदा स पीतचूर्णस्तु भर्त्ता नृपवरोत्तम

॥४०॥

तच्चूर्णात्क्षयरोगोऽभूत्पतिः क्षीणो दिनेदिने ॥

गुह्ये तु कृमयो जाता घोरा दुष्टव्रणोद्भवाः

॥४१॥

दिनैः कतिपयै राजन्पत्युर्नैव व्यवस्थितिः ॥

उवास स्वेच्छया साऽपि पुंश्चली दुष्टचारिणी

॥४२॥

हततेजास्ततो भर्ता तामुवाचाऽऽकुलेन्द्रियः ॥

क्रन्दमानो दिवारात्रौ दासोऽस्मि तव शोभने

॥४३॥

त्राहि मां शरणं प्राप्तं नेच्छेऽहमपरां स्त्रियम् ॥

तत्तस्य विदितं ज्ञात्वा भीता सा मेदिनीपते

॥४४॥

अलंकारकृते पत्युर्जीवनेच्छुर्न वै हिता ॥

योगिनीं च ययौ शीघ्रं तस्यै सर्वं न्यवेदयत्

॥४५॥

तया च भेषजं दत्तं द्वितीयं दाहशांतये ॥

दत्ते च भेषजे तस्मिन्स्वस्थोऽभूत्तत्क्षणात्पतिः

॥४६॥

तिष्ठत्युपपतिर्गेहे गृहकृत्याऽपदेशतः ॥

सर्ववर्णसमुद्भूता जारास्तिष्ठंति वै गृहे

॥४७॥

न किंचिद्वचने शक्तिर्भर्तुर्जाता कथंचन ॥

ततस्तेनैव दोषेण सर्वांगेषु च जज्ञिरे

॥४८॥

कृमयश्चास्थिभेत्तारः कालांतकयमोपमाः ॥

तैर्नासाजिह्वयोश्चाऽऽसीच्छेदः कर्णद्वयस्य च

॥४९॥

स्तनयोश्चांगुलीनां च पंगुत्वं चाऽपि चाऽऽगतम् ॥

तेन पंचत्वमापन्ना गता नरकयातनाः

॥५०॥

ताम्रभांडे च सा दग्धाऽयुतानि दश पंच च ॥

श्वानयोनिषु संजाता शतवारं पुनःपुनः

॥५१॥

छिन्ननासा छिन्नकर्णा कृमिमूर्द्धा निरंतरम् ॥

छिन्नपुच्छा भग्नपादा ताडिता च गृहेगृहे

॥५२॥

पश्चात्सौवीरदेशेषु पद्मबन्धोर्द्विजस्य च ॥

दास्या गृहे शुनी जाता बहुदुःखसमाकुला

॥५३॥

छिन्नकर्णा छिन्ननासा छिन्नपुच्छांघ्रिरातुरा ॥

कृमिपूर्णशिरा नित्यं कृमियोनिश्च तिष्ठति

॥५४॥

एवं त्रिंशद्गता वर्षा अस्मिञ्जन्मनि भूमिप ॥

दैवात्कर्मविपाकेन वैशाखे मेषगे रवौ

॥५५॥

शुक्लपक्षे तु द्वादश्यां पद्मबंधोस्तनूद्भवः ॥

नद्यां स्नात्वा शुचिर्भूत्वा सार्द्रवस्त्रो गृहं ययौ

॥५६॥

तुलसीवेदिकां प्राप्य पादाववनिजे निजौ ॥

वेदिकायामधो देशे सा शुनी स्वापमागता

॥५७॥

प्राक्सूर्योदयवेलायां पादोदकपरिप्लुता ॥

सद्यो ध्वस्ताऽशुभा जाता जातिस्मृतिरभूत्क्षणात्

॥५८॥

स्मृत्वा कर्म कृतं पूर्वं सा शुनी तापसं सदा ॥

चुक्रोश करुणा दीना मुने त्राहीति वै पुनः

॥५९॥

स्वकर्म च मुनींद्राय स्मृत्वाचख्यौ भयाऽऽकुला ॥

भर्तुर्विषप्रयोगं तु स्वस्य दुश्चरितं तथा

॥६०॥

याऽन्यापि युवती ब्रह्मन्भर्तुर्वश्यं समाचरेत् ॥

वृथाधर्मा दुराचारा पच्यते ताम्रभाजने

॥६१॥

भर्ता नाथो गुरुर्भर्ता भर्ता दैवतमुत्तमम् ॥

विक्रियां कृत्य साध्वी सा कथं सुखमवाप्नुयात्

॥६२॥

तिर्यग्योनिशतं याति कृमिकोटिशतानि च ॥

तस्माद्भूसुर कर्तव्यं स्त्रीभिर्भर्तुर्वचः सदा

॥६३॥

साऽहं पश्ये पुनर्योनिं कुत्सितां यातनान्विताम् ॥

यदि नोद्धरसे ब्रह्मन्नद्य त्वद्दृष्टिसंमुखाम्

॥६४॥

तस्मादुद्धर मां ब्रह्मन्दुष्कृतां पापचारिणीम् ॥

सुकृतस्य प्रदानेन वैशाखे शुक्लपक्षके

॥६५॥

या कृता तु त्वया ब्रह्मन्द्वादशी पुण्यवर्द्धिनी ॥

तस्यां त्वया कृतं पुण्यं स्नानदानान्नभोजनैः

॥६६॥

दुश्चारिण्या अपि ब्रह्मंस्तेन मुक्तिर्भविष्यति ॥

यस्यां तु भूसुरः स्नातः स्वगृहे मनुजः किल

॥६७॥

सर्वतीर्थफलावाप्तिं लभते नाऽत्र संशयः ॥

तप्तं दत्तं हुतं यत्र कृतं देवार्चनादि यत्

॥६८॥

तदक्षय्यफलं ज्ञेयं यत्कृतं द्वादशीदिने ॥

एवंविधफलं यत्स्यात्तद्देहि सकलं मम

॥६९॥

द्वादश्यामुपवासेन त्रयोदश्यां तु पारणात् ॥

यत्फलं स्यात्तदप्यद्धा तेन मुक्तिर्भविष्यति

॥७०॥

दयां कुरु महाभाग दीनायां दीनवत्सल ॥

दीननाथो जगन्नाथो युष्मन्नाथो जनार्दनः

॥७१॥

तदीयास्तादृशा एव यथा राजा तथा प्रजाः ॥

वैवस्वतपदध्वंसिन्परित्राहि सुदुःखिताम्

॥७२॥

त्वद्वारवासिनीं दीनां शुनीं मां दीनवत्सल ॥

ब्रह्महत्यासहस्रं वा गोहत्यानां सहस्रकम्

॥७३॥

अगम्यानां च कोटीश्च दहत्येव शुभा तिथिः ॥

तस्यां कृतं महापुण्यं मह्यं दत्त्वा महामुने

॥७४॥

मामुद्धर समुद्विग्नां दीनां नाथ समुद्धर ॥

अन्ते तुभ्यं द्विजेद्राय नमउक्तिं वदाम्यहम्

॥७५॥

इति तस्या वचः श्रुत्वा शुनीमाह मुनेः सुतः ॥

स्वकृतं जंतवोश्नंति सुखदुःखात्मकं शुनि

॥७६॥

तस्मात्किमु त्वया कार्यं क्षुद्रया पापशीलया ॥

यया भर्ता वशं नीतो रक्षाचूर्णादिभिर्द्विजः

॥७७॥

साधुभ्यो यत्कृतं पापं स्वस्य दुःखकरं भवेत् ॥

साधुभ्यो यत्कृत पुण्यं स्वस्य दुःखहरं भवेत्

॥७८॥

उभयं भ्रंशतामेति पापेभ्यो यत्कृतं भवेत् ॥

शर्करामिश्रितं क्षीरं काद्रवेयनिवेदितम्

॥७९॥

विषवृद्धिकरं दृष्टमेवं पापकरं भवेत ॥

वदत्येवं मुनिसुते शुनी दुःखैकरूपिणी

॥८०॥

पुनश्चुकोशोर्ध्वस्वरं तत्पित्रे बहुभाषिणी ॥

पद्मबन्धो परित्राहि शुनी तद्द्वारवासिनीम्

॥८१॥

त्वदुच्छिष्टाशिनी नित्यं त्वं पाहीति पुनःपुनः ॥

स्त्रपोष्या ये हि वर्तंते गृहस्थस्य महात्मनः

॥८२॥

तेषामुद्धरणं कार्यमिति वेदविदां मतम् ॥

चण्डाला वायसाश्चैव सारमेयाश्च नित्यशः

॥८३॥

गृहस्थानां दयापात्रं प्रत्यहं बलिभोजिनः ॥

अशक्तं नोद्धरेत्पोष्यं रोगाद्युपहतं यदि

॥८४॥

सोऽधः पतेन्न संदेह इति वेदविदां मतम्

॥८५॥

कर्तारमेकं जगतां हि कर्ता कृत्वात्मना पाति समस्तजंतून् ॥

दारादिरूपव्यपदेशतो हरिस्तस्मात्तदाज्ञा खलु पोष्यरक्षा

॥८६॥

स्वपोष्यरक्षां परिहृत्य जंतुर्देवेन क्लृप्त्या यदि वर्ततेऽन्यधीः ॥

स देवद्रोग्धा सकलस्य हंता कीनाशलोकाननु संप्रयाति

॥८७॥

कर्तव्यत्वाद्दयालुत्वादेतामुद्धर दुर्मतिम् ॥

इति तस्या वचः श्रुत्वा दुःखार्ताया गृहे सुतः ॥

निश्चक्राम गृहात्तूर्णं पद्मबंधुर्दयानिधिः

॥८८॥

किमेतदिति तां प्राह पुत्रः सर्वं न्यवेदयत् ॥

स तु पुत्रवचः श्रुत्वा तमेवं प्राह विस्मितः

॥८९॥

पद्मबन्धुरुवाच

ममात्मज कथं वाक्यमीदृशं व्याहृतं त्वया ॥

न साधूनामिदं वाक्यं भवतीह वरानन

॥९०॥

आत्मसौख्यकराः पापा भवंति परिभाविता ॥

पश्य पुत्र जनाः सर्वे परोपकरणाय वै

॥९१॥

शशी सूर्योऽथ पवनो रजनी हुतभुग्जलम् ॥

चंदनं पादपाः संतः परोपकरणे स्थिताः

॥९२॥

अस्थिदानं कृतं पुत्र कृपया हि दधीचिना ॥

देवानामुपकाराय ज्ञात्वा दैत्यान्महाबलान्

॥९३॥

कपोताऽर्थे स्वमांसानि शिबिना भूभुजा पुरा ॥

प्रदत्तानि महाभाग श्येनाय क्षुधितानि वै

॥९४॥

जीमूतवाहनो राजा पुराऽऽसीत्क्षितिमंडले ॥

तेनाऽपि जीवितं दत्तं गरुडाय महात्मने

॥९५॥

तस्माद्दयालुना भाव्यं भूसुरेण विपश्चिता ॥

शुद्धे वर्षति देवस्तु किमशुद्धे न वर्षति

॥९६॥

किन्न दीपयते चन्द्रश्चंडालानां गृहे सदा ॥

तस्मादहं शुनीमेतां याचंतीं च पुनः पुनः

॥९७॥

उद्धरिष्ये निजैः पुण्यैः पंकमग्नां च गां यथा ॥

इति पुत्रं निराकृत्य प्रतिजज्ञे महामतिः

॥९८॥

दत्तं दत्तं महापुण्यं द्वादशीदिनसंभवम् ॥

शुनि गच्छ हरेर्धाम निर्धूताऽखिलकल्मषा

॥९९॥

तद्वाक्यात्सहसा भूप दिव्याऽऽभरणभूषिता ॥

विमुच्य देहं जीर्णं तु दिव्यरूपधरा शुभा

॥१००॥

शताऽऽदित्यप्रभा जाता सावित्रीप्रतिमा यथा ॥

जगामाऽऽमंत्र्य तं विप्रं द्योतयन्ती दिशो दश

॥१॥

भुक्त्वा दिवि महाभोगान्पश्चाजाता महीतले ॥

नरनारायणाद्देवादुर्वशीनाम नामतः

॥२॥

वैशाखशुद्धद्वादश्याः प्रभावेण वरांगना ॥

देवानां च प्रिया जाता अप्सरस्त्वं च सा ययौ

॥३॥

यद्योगिगम्यं हुतभुक्प्रकाशं वरं वरेण्यं परमार्थरूपम् ॥

यत्प्राप्य सन्तोऽपि हि यांति मोहं तत्प्राप रूपं च शुनी हि देवी

॥४॥

पश्चात्स पद्मबंधुर्हि तां तिथिं पुण्यवर्द्धिनीम् ॥

लोवेटीं ख्यापयामास मधुद्विट्प्राणवल्लभाम्

॥५॥

कोटींदुसूर्यग्रहणाधिका सा समस्तरूपाधिकपुण्यरूपा ॥

यज्ञैः समस्तैरतिरिच्यमाना द्विजेन ख्याता भुवनत्रये च

॥१०६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे शुनीमोक्षप्राप्तिर्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥