मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — वैशाखमासमाहात्म्यम्, अध्याय २१

3
वैष्णवखण्डः · वैशाखमासमाहात्म्यम् · 21

ततस्तु विस्मितो भूत्वा शङ्खो व्याधसमन्वितः

"वाल्मीके:पूर्वजन्मस्य कथा "श्रुतदेव उवाच

ततस्तु विस्मितो भूत्वा शङ्खो व्याधसमन्वितः ॥

को भवानिति तं प्राह दशैषा च कुतस्तव

॥१॥

केन वा कर्मणा सौम्य मतिस्तव शुभावहा ॥

अकस्मात्ते कथं मुक्तिरेतदाचक्ष्व विस्तरात्

॥२॥

शङ्खेनैव तदा पृष्टो दण्डवत्पतितो भुवि ॥

प्रश्रयाऽवनतो भूत्वा प्रांजलिर्वाक्यमब्रवीत्

॥३॥

अहं पुरा द्विजः कश्चित्प्रयागे बहुभाषणः ॥

रूपयौवनसंपन्नो विद्यामदसुगर्वितः

॥४॥

धनाढ्यो बहुपुत्राढ्यः सदाऽहंकारदूषितः ॥

कुसीदस्य मुनेः पुत्रो नाम्ना रोचन इत्यहम्

॥५॥

आसनं शयनं निद्रा व्यवायोऽक्षपरिक्रियाः ॥

लोकवार्ता कुसीदं वा व्यापारास्ते ममाऽभवन्

॥६॥

तन्तुमात्राणि कर्माणि लोकनिन्दाविशंकितः ॥

सदम्भश्च सदा कुर्वे न श्रद्धा मे कदाचन

॥७॥

दुर्बुद्धेर्मम दुष्टस्य कियत्कालो गतोऽभवत् ॥

तदा वैशाखमासेऽस्मिञ्जयंतोनाम वै द्विजः

॥८॥

श्रावयामास तन्मासधर्मान्भागवतप्रियान् ॥

तत्क्षेत्रे वासिनां पुण्यकर्मणां च द्विजन्मनाम्

॥९॥

नारीनराः क्षत्रियाश्च वैश्याः शूद्राः सहस्रशः ॥

प्रातः स्नात्वा समभ्यर्च्य मधुसूदनमव्ययम्

॥१०॥

कथां शृण्वंति सततं जयन्तेन समीरिताम् ॥

शुचिभूत्वा मौनधरा वासुदेवकथारताः

॥११॥

वैशाखधर्मनिरता दंभालस्यविवर्जिताः ॥

तां सभां च प्रविष्टोऽहं कौतुकाच्च दिदृक्षया

॥१२॥

सोष्णीषेण मया मूर्ध्ना नमस्कारोऽपि न कृतः ॥

तांबूलं च मुखे कृत्वा कञ्चुकं च मया धृतम्

॥१३॥

कथाविक्षेपमचरं लोकवार्ताभिरंजनात् ॥

सर्वेषां चित्तचांचल्यमभूद्वै लोकवार्तया

॥१४॥

क्वचिद्वासः प्रसार्याहं क्वचिन्निंदन्क्वचिद्धसन् ॥

एवं कालो मयानीतः कथा यावत्समाप्यते।

पश्चात्तेनैव दोषेण सद्योऽल्पायुर्विनष्टधीः ॥

सन्निपातेन पञ्चत्वं प्राप्तोऽहं च परे दिने

॥१६॥

तप्तसीसजलैः पूर्णं निरयं च हलाहलम् ॥

प्राप्य भुक्त्वा यातनां च मन्वन्तानि चतुर्दश

॥१७॥

युक्तेष्वथ च लक्षेषु तथा चतुरशीतिभिः ॥

क्रमाद्योनिषु जातोऽहमिदानीं चावसन्द्रुमे

॥१८॥

दशयोजनविस्तीर्णे शतयोजनमुन्नते ॥

व्यालोऽहं तामसः क्रूरः सप्तयोजनकोटरे

॥१९॥

भूत्वा वसामि विप्रर्षे कर्मणा बाधितः पुरा ॥

अयुतं च समा याता निराहारस्य कोटरे

॥२०॥

दैवात्तव मुखांभोजसमीरितकथामृतम् ॥

श्रुत्वा चक्षुर्द्वयेनाहं सद्यो ध्वस्ताशुभो मुने

॥२१॥

व्यालयोनिं विसृज्याऽहं दिव्यरूपधरः पुमान् ॥

प्रांजलिः प्रणतो भूत्वा पादौ ते शरणं गतः

॥२२॥

कस्मिञ्जन्मनि त्वं बधुर्न जाने मुनिसत्तम ॥

न मयोपकृतं क्वाऽपि सानुकम्पः कुतः सताम्

॥२३॥

साधूनां समचित्तानां सदा भूतदयावताम् ॥

परोपकारप्रकृतिर्न चैषामन्यथा मतिः

॥२४॥

मामद्यानुगृहाण त्वं यथा धर्मे मतिर्भवेत् ॥

न भूयाद्विस्मृतिः क्वाऽपि विष्णोर्देवस्य चक्रिणः

॥२५॥

महतां साधुवृत्तानां संग तिश्च सदा भवेत् ॥

दारिद्यमेकमेव स्यान्मदांधपरमांजनम्

॥२६॥

इति तं बहुधा स्तुत्वा प्रणम्य च पुनः पुनः ॥

प्रांजलिः प्रणतस्तस्थौ तूष्णीमेव तदग्रतः

॥२७॥

शंखो दोर्भ्यां समुत्थाप्य पूर्णप्रेमपरिप्लुतः ॥

पस्पर्श पाणिना चांगं शंतमेन गताध्वसः

॥२८॥

चक्रे सोऽनुह्ग्रहं तस्मिन्दिव्यरूपधरे द्विजे ॥

प्राह तं कृपयाऽऽविष्टो भाविवृत्तान्तमञ्जसा

॥२९॥

द्विज त्वं मासमाहात्म्यश्रवणाच्च हरेरपि ॥

माहात्म्यश्रवणात्सद्यो विध्वस्ताऽखिलबंधनः

॥३०॥

अतिहाय कलंकं च क्रमाद्गत्वा पुनर्भुवि ॥

दशार्णे विषमे पुण्ये भविता त्वं द्विजोत्तमः ॥

वेदशर्मेति विख्यातः सर्ववेदविशारदः ॥

तत्र ते भविता जातिस्मृतिरात्यंतिकी शुभा

॥३२॥

तथा स्मृतानुबन्धस्त्वं त्यक्तसर्वेषणः शुभः ॥

करोषि सकलान्धर्मान्वैशाखोक्तान्हरिप्रियान्

॥३३॥

निर्द्वन्द्वो निःस्पृहोऽसंगो गुरु भक्तो जितेन्द्रियः ॥

सदा विष्णुकथालापो भविता तत्र जन्मनि

॥३४॥

ततः सिद्धिं समाप्याथ विध्वस्ताऽखिलबन्धनः ॥

प्राप्नोषि परमं धाम योगैरपि दुरासदम्

॥३५॥

मा भैषीः पुत्र भद्रं ते भविता मत्प्रसादतः ॥

हास्याद्भयात्तथा क्रोधाद्द्वेषात्कामादथाऽपि वा

॥३६॥

स्नेहाद्वा सकृदुच्चार्य विष्णोर्नामाऽघहारि च ॥

पापिष्ठा अपि गच्छन्ति विष्णोर्धाम निरामयम्

॥३७॥

किमु तच्छ्रद्धया युक्ता जितक्रोधा जितेन्द्रियाः ॥

दयावन्तः कथां श्रुत्वा गच्छंतीति द्विजोत्तम

॥३८॥

केचित्केवलया भक्त्या कथालापैकतत्पराः ॥

सर्वधर्म्मोज्झिता वाऽपि यांति विष्णोः परं पदम्

॥३९॥

द्वेषादिना च भक्त्या वा केचिद्विष्णुमुपासते ॥

तेऽपि यांति परं धाम पूतनेवासुहारिणी

॥४०॥

महद्भिः संगतो नित्यं वाग्विसर्गस्तदाश्रयः ॥

मुमुक्षूणां च कर्तव्यः स विधिः श्रुतिचोदितः

॥४१॥

स वाग्विसर्गो जनताऽघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि ॥

नामान्यनंतस्य यशोंकितानि यच्छृण्वन्ति गायन्ति गृणंति साधवः

॥४२॥

यः कष्टसेवां न च कांक्षते विभुर्न वासनं भूरि न रूपयौवने ॥

स्मृतः सकृद्गच्छति धाम भास्वरं कं वा दयालुं शरणं व्रजेत

॥४३॥

तमेव शरणं याहि नारायणमनामयम् ॥

भक्तवत्सलमव्यक्तं चेतोगम्यं दयानिधिम्

॥४४॥

कुरु सर्वानिमान्धमान्वैशाखोक्तान्महामते ॥

तेन तुष्टो जगन्नाथः शर्म ते च विधास्यति

॥४५॥

इत्युक्त्वा विररामाथ व्याधं दृष्ट्वा सुविस्मितः ॥

स दिव्यः पुरुषः प्राह पुनस्तं मुनिपुंगवम्

॥४६॥

दिव्यपुरुष उवाच

धन्योस्म्यनुगृहीतोऽस्मि त्वया शंख दयालुना ॥

दिष्ट्या गता मे दुर्योनिर्यामि चैव परां गतिम्

॥४७॥

इति तं च परिक्रम्य ह्यनुज्ञातो दिवं ययौ ॥

ततः सायमभूद्राजञ्च्छंखो व्याधेन तोषितः

॥४८॥

संध्यां सायन्तनीं कृत्वा रात्रिशेषं निनाय च ॥

नानाख्यानेश्च भूपानां देवानां च महात्मनाम्

॥४९॥

लीलाभिरवताराणां दृष्टगो ष्ठिभिरेव च ॥

ब्राह्मे मुहूर्ते चोत्थाय पादौ प्रक्षाल्य वाग्यतः ॥

ध्यायंश्च तारकं ब्रह्म कृत्वा शौचादिसत्क्रियाम् ॥

वैशाखे मेषगे सूर्ये स्नात्वा प्राक्च भगोदयात्

॥५१॥

कृत्वा संध्यादिकं कर्म तथा संतर्प्य चाऽखिलान् ॥

व्याधमाहूय हृष्टात्मा मूर्ध्नि प्रोक्ष्य निरीक्ष्य च

॥५२॥

रामेति द्व्यक्षरं नाम ददौ वेदाधिकं शुभम् ॥

विष्णोरेकैकनामाऽपि सर्ववेदाधिकं मतम्

॥५३॥

तेभ्यश्चाऽनंतनामभ्योऽधिकं नाम्नां सहस्रकम् ॥

तादृङ्नामसहस्रेण रामनाम समं मतम्

॥५४॥

तस्माद्रामेति तन्नाम जप व्याध निरंतरम् ॥

धर्मानेतान्कुरु व्याध यावदामरणांतिकम्

॥५५॥

ततस्ते भविता जन्म वल्मीकस्य ऋषेः कुले ॥

वाल्मीकिरिति नाम्ना च भूमौ ख्यातिमवाप्स्यसि

॥५६॥

इति व्याधं समादिश्य प्रतस्थे दक्षिणां दिशम् ॥

व्याधोऽपि तं परिक्रम्य प्रणम्य च पुनःपुनः

॥५७॥

किंचिद्दूरानुगो भूत्वा स रुदन्विरहातुरः ॥

यावद्दृष्टिपथं तावत्पश्यंस्तस्य गतिं पुनः

॥५८॥

पुनर्निववृते कृच्छ्रात्तमेव हृदि चिंतयन् ॥

वनं निर्माय तन्मार्गे प्रपां कृत्वा सुनिर्मलाम्

॥५९॥

अतियोग्यानिमान्धर्मान्वैशाखोक्तांश्चकार ह ॥

वन्यैः कपित्थपनसैर्जंबूचूतादिभिः फलैः

॥६०॥

मार्गानां श्रमार्तानामाहारं परिकल्पयन् ॥

उपानद्भिश्चंदनैश्च छत्रैश्च व्यजनैरपि

॥६१॥

वालुकास्तरणोपेतच्छायाभिश्च क्वचित्क्वचित् ॥

आजहाराथ पांथानां श्रमं स्वेदोद्भवं तथा

॥६२॥

प्रातः स्नात्वा दिवारात्रं जपन्रामेति वै मनुम् ॥

व्याधजन्मनि नामाऽसौ वल्मीकस्य सुतोऽभवत्

॥६३॥

कृणुर्नाम मुनिः कश्चित्तस्मिन्नेव सरोवरे ॥

तपो वै दुस्तरं तेपे बाह्यव्यापारवर्जितः

॥६४॥

वल्मीकमभवद्देहे तस्य कालेन भूयसा ॥

वल्मीक इति तं प्राहुरतो वै मुनिपुंगवम्

॥६५॥

पश्चात्तपोविरामांते कृणौ स्मृतिपथं गते ॥

स्त्रियोऽनुस्मरतो राजन्स्खलितं चेंद्रियं मुनेः

॥६६॥

जग्राह शैलुषी काचित्तस्यां जज्ञे वनेचरः ॥

वाल्मीकिरिति विख्यातो भुवनेषु महायशाः

॥६७॥

यो वै रामकथां दिव्यां स्वैः प्रबंधैर्मनोहरैः।

लोके प्रख्यापयामास कर्मबन्धनिकृंतनीम्

॥६८॥

श्रुतदेव उवाच

पश्य वैशाखमाहात्म्यं भूपालाद्याऽपि भूतिदम् ॥

व्याधोप्युपानहौ दत्त्वा ऋषित्वं प्राप दुर्लभम्

॥६९॥

य इदं परमाख्यानं पापघ्नं रोमहर्षणम् ॥

शृणुयाच्छ्रावयेद्वाऽपि न भूयः स्तनपो भवेत्

॥७०॥

_____________________________

॥७१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे व्याधोपाख्याने वाल्मीकेर्जन्मकथनन्नामैकविंशोऽध्यायः ॥ २१ ॥