साधु सूत चिरं जीव चिरमेवं प्रशाधि नः
श्रीऋषय ऊचुः
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ॥
श्रीभागवतमाहात्म्यमपूर्वं त्वन्सुखाच्छ्रुतम्
॥१॥तत्स्वरूपप्रमाणं च विधिं च श्रवणे वद ॥
तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना
॥२॥श्रीसूत उवाच
श्रीमद्भागवतस्याथ श्रीमद्भगवतः सदा ॥
स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम्
॥३॥श्रीकृष्णासक्तभक्तानां तन्माधुर्य्यप्रकाशकम् ॥
समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत्
॥४॥ज्ञानविज्ञानभक्त्यङ्गचतुष्टयपरं वचः ॥
मायामर्दन दक्षं च विद्धि भागवतं च तत्
॥५॥प्रमाणं तस्य को वेद ह्यनंतस्याक्षरात्मनः ॥
ब्रह्मणे हरिणा तद्दिक्चतुःश्लोक्या प्रदर्शिता
॥६॥तदानंत्यावगाहेन स्वेप्सितावहनक्षमाः ॥
त एव संति भो विप्रा ब्रह्मविष्णुशिवादयः
॥७॥मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ॥
परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः
॥८॥ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ॥
कलिग्राहगृहीतानां स एव परमाश्रयः
॥९॥श्रोतारो ऽथ निरूप्यन्ते श्रीमद्विष्णुकथाश्रयाः ॥
प्रवरा अवराश्चति श्रोतारो द्विविधा मताः
॥१०॥प्रवराश्चातको हंसः शुको मीनादयस्तथा ॥
अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः
॥११॥अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती ॥
स चातको यथाम्भोदमुक्ते पाथसि चातकः
॥१२॥हंसः स्यात्सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ॥
दुग्धेनैक्यं गतात्तोयाद्यथा हंसोऽमलं पयः
॥१३॥शुकः सुष्टु मितं वक्ति व्यासं श्रोतृंश्च हर्षयन् ॥
सुपाठितः शुको यद्वच्छिक्षकं पार्श्वगानपि
॥१४॥शब्दं नानिमिषो जातु करोत्यास्वादयन्रसम् ॥
श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा
॥१५॥यस्तुदन्रसिकाञ्च्छ्रोतॄन्विरौत्यज्ञो वृको हि सः ॥
वेणुस्वनरसासक्तान्वृकोऽरण्ये मृगान्यथा
॥१६॥भूरुण्डः शिक्षयेदन्याञ्च्छ्रुत्वा न स्वयमाचरेत् ॥
यथा हिमवतः शृंगे भूरुण्डाख्यो विहंगमः
॥१७॥(भारुण्ड) सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः ॥
स्वादु द्राक्षां खलिं चापि निर्विशेषं यथा वृषः
॥१८॥स उष्ट्रो मधुरं मुञ्चन्विपरीते रमेत यः ॥
यथा निम्बं चरत्युष्ट्रो हित्वाऽऽम्रमपि तद्युतम्
॥१९॥अन्येऽपि बहवो भेदा द्वयोर्भृंगखरादयः ॥
विज्ञेयास्तत्तदाचारैस्तत्तत्प्रकृतिसंभवैः
॥२०॥यः स्थित्वाऽभिमुखं प्रणम्य विधिवत्त्यक्तान्यवादो हरेर्लीलाः श्रोतुमभीप्सतेऽतिनिपुणो नम्रो ऽथ क्लृप्ताञ्जलिः ॥
शिष्यो विश्वसितोऽनुचिन्तनपरः प्रश्नेऽनुरक्तः शुचिर्नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभिः
॥२१॥भगवन्मतिरनपेक्षः सुहृदो दीनेषु सानुकम्पो यः ॥
बहुधाबोधनचतुरो वक्ता संमानितो मुनिभिः
॥२२॥अथ भारतभूस्थाने श्रीभागवतसेवने ॥
विधिं शृणुत भो विप्रा येन स्यात्सुखसंततिः
॥२३॥राजसं सात्त्विकं चापि तामसं निर्गुणं तथा ॥
चतुर्विधं तु विज्ञेयं श्रीभागवत सेवनम्
॥२४॥सप्ताहं यज्ञवद्यत्तु सश्रमं सत्वरं मुदा ॥
सेवितं राजसं तत्तु बहुपूजादिशोभनम्
॥२५॥मासेन ऋतुना वापि श्रवणं स्वादसंयुतम् ॥
सात्त्विकं यदनायासं समस्तानन्दवर्द्धनम्
॥२६॥तामसं यत्तु वर्षेण सालसं श्रद्धयाऽयुतम् ॥
विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम्
॥२७॥वर्षमासदिनानां तु विमुच्य नियमाग्रहम् ॥
सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम्
॥२८॥पारीक्षितेऽपि संवादे निर्गुणं तत्प्रकीर्तितम् ॥
तत्र सप्तदिनाख्यानं तदायुर्दिनसंख्यया
॥२९॥अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया ॥
यथा कथंचित्कर्तव्यं सेवनं भगवच्छ्रुतेः
॥३०॥ये श्रीकृष्णविहारैकभजनास्वादलोलुपाः ॥
मुक्तावपि निराकांक्षास्तेषां भागवतं धनम्
॥३१॥येऽपि संसारसंतापनिर्विण्णा मोक्षकांक्षिणः ॥
तेषां भवौषधं चैतत्कलौ सेव्यं प्रयत्नतः
॥३२॥ये चापि विषयारामाः सांसारिकसुखस्पृहाः ॥
तेषां तु कर्ममार्गेण या सिद्धिः साऽधुना कलौ
॥३३॥सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्ल्लभा ॥
तस्मात्तैरपि संसेव्या श्रीमद्भागवती कथा
॥३४॥धनं पुत्रांस्तथा दारान्वाहनादि यशो गृहान् ॥
असापत्न्यं च राज्यं च दद्याद्भागवती कथा
॥३५॥इह लोके वरान्भुक्त्वा भोगान्वै मनसेप्सितान् ॥
श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम्
॥३६॥यत्र भागवती वार्ता ये च तच्छ्रवणे रताः ॥
तेषां संसेवनं कुर्याद्देहेन च धनेन च
॥३७॥तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् ॥
श्रीकृष्णव्यतिरिक्तं यत्तत्सर्वं धनसंज्ञितम्
॥३८॥कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः ॥
यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्द्धते
॥३९॥उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः ॥
किन्तु कृष्णार्थिनां सिद्धिर्विलम्बेनापि जायते
॥४०॥धनार्थिनस्तु संसिद्धिर्विधिसंपूर्णतावशात् ॥
कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः
॥४१॥आसमाप्ति सकामेन कर्तव्यो हि विधिः स्वयम् ॥
स्नातो नित्य क्रियां कृत्वा प्राश्य पादोदकं हरेः
॥४२॥पुस्तकं च गुरुं चैव पूजयित्वोपचारतः ॥
ब्रूयाद्वा शृणुयाद्वापि श्रीमद्भागवतं मुदा
॥४३॥पयसा वा हविष्येण मौनं भोजनमाचरेत् ॥
ब्रह्मचर्य्यमधःसुप्तिं क्रोधलोभादिवर्ज्जनम्
॥४४॥कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् ॥
ब्राह्मणान्भोजयित्वा तु दक्षिणाभिः प्रतोषयेत्
॥४५॥गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् ॥
एवं कृते विधाने तु लभते वाञ्छितं फलम्
॥४६॥दारागारसुतान्राज्यं धनादि च यदीप्सितम् ॥
परन्तु शोभते नात्र सकामत्वं विडम्बनम्
॥४७॥कृष्णप्राप्तिकरं शश्वत्प्रेमानन्दफलप्रदम् ॥
श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम्
॥४८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमाहात्म्ये चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे श्रीभागवतमहापुराणमाहात्म्यं समाप्तम्